दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
१८४ दशकुमारचरितम् । [ उत्तरपीठिकायां
१८४ दशकुमारचरितम् । [ उत्तरपीठिकायां
हमेकदा रागमञ्जर्याः प्रणयकोपप्रशमनाय सानुनयं पायितायाः पुनःपुनः
प्रणयसमर्पितमुखमधुगण्डूषमास्वादमास्वादं मदेनास्पृश्ये । शीलं हि म-
दोन्माद्योरमार्गेणाप्युचितकर्मस्वेव प्रवर्तनम् । यदहमुपोढमदः 'नगरमिद-
मेकयैव शर्वर्या निर्धनीकृत्य त्वद्भवनं पूरयेयम्' इति प्रव्यथितप्रियतमा-
प्रणामाञ्जलिशपथशतातिवर्ती मत्तवारण इव रभसच्छिन्नशृङ्खलः कयापि
धात्र्या शृगालिकाख्ययानुगम्यमानो नातिपरिकरोऽसिद्वितीयो रंहसा परे-
गच्छन्तीति भावः । अलं समर्थः । अतिनिपुणः अतिचतुरः । नियतिलिखितां
विधिनिर्दिष्टं लेखां गणनाम् । अतिक्रमितुमुल्लंघयितुम् । अहमपहारवर्मा । प्रण-
यकोपप्रशमनाय मानभञ्जनाय । पायितायाः कृतपानायाः सुरामिति शेषः । प्रण-
येति-प्रणयेन प्रेम्णा समर्पितं दत्तं यन्मुखमधुनो मुखामृतस्य गण्डूषं तत् । आस्वा-
दमास्वादम्-पुनः पुनरास्वाद्य । णमुल् । मदेन मत्ततया । अस्पृश्ये स्पृष्टोऽभवम् ।
मत्तोऽभवमित्यर्थः । शीलं स्वभावः । मदोन्माद्योः-मदो मत्तता-उन्मादः चि-
त्तता तयोः शीलमित्यनेन सम्बन्धः । अमार्गेण विरुद्धमार्गेण । उचितकर्मसु
अभ्यस्तकार्येषु । प्रवर्त्तनं प्रवृत्तिः । एतदेव शीलं मदोन्मादयोः । उपोढमदः
अतिशयत्तः । प्रव्यथितेति-प्रव्यथिता दुःखिता या प्रियतमा राजमञ्जरी तस्याः
प्रणामाञ्जलिना यत् शपथशतं तदतिक्रम्य वर्त्तत इति । रभसच्छिन्नशृङ्खलः-रभ-
सेन वेगेन छिन्ना शृङ्खला बन्धनरज्जुर्येन सः । नातिपरिकरः स्वल्पपरिजनः ।
डोलने लगे, जिन्हें मैंने समृद्ध कर दिया था । परम प्रवीण मनुष्य भी ब्रह्माकी
लिखित रेखाको मिटाने में सर्वदा असमर्थ ही रहते हैं । एक दिनकी घटना है कि, मैंने
रागमञ्जरीके प्रणयकोपके शमनार्थ प्रेमसे उसके मुखके अमृत-गण्डूषका बार-बार आस्वादन
किया । और मैं प्रेमसे पान करता हुआ, मन्दोन्मत्त हो गया । मद और उन्माद दोनोंका
यही स्वभाव है कि, उनके वशीभूत होनेपर भी मनुष्य पूर्वकी अभ्यस्त उचित प्रवृत्तिकी
ओर ही प्रवृत्त होता है। मैं उस कालमें अति मदोन्मत्त था । 'मैं एक ही रातमें इस
नगरको निर्धन बना करके तुम्हारे घरको धनसे पाट दूँगा।' (आदि बक रहा था)।
दुःखिता प्रियतमा रागमञ्जरी द्वारा बार-बार हाथ जोड़ करके प्रणाम करनेको तथा
शपथादि खानेको न मान करके मैं उस मतवाले हाथीके समान हो गया जो बड़े वेगसे
अपनी लोहेकी सीकड़ी आदि तोड़ देता है । कोई शृगालिका नामक दूती जो (मुझे
समझाने) मेरे पीछे आ रही थी । उससे अनुगम्यमान मैं स्वल्पपरिजनवाला एक हाथमें
तलवार लिये हुए वेगसे मार्गपर आ गया । नगररक्षक पुरुष जो मुझे चोर समझ करके
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १८५
णोदचलम् । अभिपततोऽपि नागरिकपुरुषानशङ्कमेव विगृह्य तस्कर इति
तैरभिहन्यमानोऽपि नातिकुपिंतः क्रीडन्निव मदावसन्नहस्तपतितेन निस्त्रिं-
शेन द्वित्रानेव हत्वावघूर्णमानताम्रदृष्टिरपतम् ।
( ५२ ) अनन्तरमार्तरवान्विसृजन्ती शृगालिका ममाभ्याशमगमत् ।
अबध्ये चाहमरिभिः । आपदा तु मदापहारिण्या सद्य एव बोधितस्तत्क्ष-
णोपजातया प्रतिभया व्यचीचरम्—'अहो, ममेयं मोहमूला महत्यापदा-
पतिता । प्रसृततरं च सख्यं मया सह धनमित्रस्य, मत्परिग्रहत्वं च राग-
मञ्जर्याः । मदेनेसा च तौ प्रोर्णतौ श्वो नियतं निग्रहीष्येते । तदियमिह
असिद्वितीयः खड्गमात्रसहायः । रंहसा वेगेन । परेण अतिशयितेन । अभिपततः
सम्मुखमागच्छतः । विगृह्य युद्धं कृत्वा । अभिहन्यमानस्ताड्यमानः । मदेति-
मदेन मत्ततया अवसन्नः शिथिलो यो हस्तस्तस्मात् पतितेन भ्रष्टेन । निस्त्रिं-
शेन खड्गेन द्वित्रान्-द्वौ वा त्रयो वा परिमाणमेषामिति द्वित्रास्तान् ।
अवघूर्णेति-अवघूर्णमाना विह्वला ताम्रा रक्तवर्णा दृष्टिर्नयने यस्य सः । अपतम् ।
भूमाविति शेषः ।
(५२) आर्त्तरवान्-पीडासूचकध्वनीन् । विसृजन्ती-मुञ्चन्ती । रुदती-
त्यर्थः । अभ्याशं समीपम् । अबध्ये बद्धोऽभवम् । बध्यतेः कर्मणि लङ् ।
मदापहारिण्या-मत्ततानाशिन्या । प्रतिभया-प्रज्ञया । व्यचीचरं विचा-
रितवानस्मि । मोहमूला अज्ञाननिबन्धना । आपतिता आगता । प्रसृततरं
प्रसिद्धतरम् । मत्परिग्रहत्वं मद्भार्थ्यात्वम् । मदेनसा मदपराधेन तौ-रागमञ्जरी-
धनमित्रौ । प्रोर्णुतौ-आच्छादितौ अभिभूताविति यावत् । श्वः-आगामि-
दिने । निग्रहीष्येते निग्रहं प्राप्स्यतः । प्रतिपत्तिः कर्त्तव्यम् । यया-प्रतिपत्त्या ।
पकड़ने आये उनसे युद्ध करके तथा उनमें से दो-तीनको ताड़ित कर दिया। मैं
(अपहारवर्मा) मदके जोशमें विह्वल हो करके शिथिल हाथों युक्त तलवार रहित होकर
एवं लाल-लाल नेत्रोंको किये हुए भूमिपर गिर पड़ा।
( ५२ ) इसके अनन्तर पीड़ासूचक शब्दोंको करती हुई शृगालिका भी मेरे पास आ
गयी। मैं (अपहारवर्मा) शत्रुओं द्वारा (नगर-रक्षकों द्वारा) बांध लिया गया।
उन्मादतत्त्वको नाश करनेवाली आपत्तिकाने तत्क्षणमें ही मुझे बुद्धि दी और उसी उत्पन्न हुई
प्रज्ञासे (बुद्धिसे) मैंने विचार किया। 'अहो ! मेरे अज्ञान निबन्धनसे यह विपुला आपत्ति
Nepal Sanskrit University, Balmeeki Campus, Kathmandu