सामग्री पर जाएँ
सर्वकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 6, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 6

[Header]
६ दशकुमारचरितम् । [ पूर्वपीठिकायां

(३) तस्य वसुमती नाम सुमती लीलावतीकुलशेखरमणी रमणी बभूव ।
(४) रोषरूक्षेण निटिलाक्षेण भस्मीकृतचेतने मकरकेतने तदा भयेना-
नवद्या वनितेति मत्वा तस्य रोलम्बावली केशजालम्, प्रेमाकरो रजनी-
करो विजितारविन्दं वदनम् , जयध्वजायमानो मीनो जायायुतोऽक्षि-
युगलम्, सकलसैनिकाङ्गवीरो मलयसमीरो निःश्वासः, पथिकहृद्दलन-
करवालः प्रवालश्वाधरबिम्बम , जयशङ्खो बन्धुरा लावण्यधरा कन्धरा-


( ३ ) तस्य राजहंसस्य वसुमती नाम सुमती शोभनबुद्धिशालिनी, लीलाव-
र्तीनां कामिनीनां कुलस्य मण्डलस्य शेखरमणिः शिरोभूषणरूपा, रमणी पत्नी राज्ञी-
त्यर्थः, आसीत् ।
( ४ ) वसुमतीं विशिनष्टि—रोषेण तपोभङ्गकरणजनितेन कोपेन रूक्षो निष्ठुर-
स्तेन, निटिले भाले अक्षि चक्षुर्यस्य तेन शिवेन भस्मीकृता विनाशिता चेतना चैत-
न्यं यस्य तस्मिन्, भस्मीकृते इत्यर्थः, मकरकेतने कामदेवे सति, तदा भस्मीकरण-
काले भयेन सहचरनाशजनितसम्भ्रमेण वनिता कामिनी अनवद्या निर्दोषा अतः सैव
समाश्रयणीया, निर्दोषां तां महादेवोऽपि न धक्ष्यतीति मत्वा निश्चित्य तस्य मदनस्य
रोलम्बावली भ्रमरपङ्क्तिः मौर्वीरूपा तस्या वसुमत्याः केशजालं कुन्तलकलापः समभू-
दिव, वचनविपरिणामेन सर्वत्रान्वयः । प्रेम्णः आकरः खनिः, प्रीत्युत्पादकः, रजनीकर-
श्चन्द्रः, प्रधानसहायः कामस्य, विजितं कान्त्या तिरस्कृतं अरविन्दं कमलं येन तत्
तिरस्कृतकमलमित्यर्थः, तस्या वदनं मुखं ( समभूदिव ), जयध्वज इवाचरतीति
जयध्वजायमानः (केतनं ध्वजमस्त्रियाम्), कामस्य मीनध्वजत्वं प्रसिद्धमेव । जायया
स्वपत्न्या युतः समेतो मीनोऽक्षियुगलं तस्या नेत्रद्वन्द्वं ( समभूदिव ), अत्राक्षियुगलं
प्रस्तुत मतो मीनस्यापि जायायुतत्वमपेक्षितम् । सकलसैनिकानां निखिलमदनसैन्या-
नां अङ्गवीरः प्रधानयोधः, मलयसमीरो दक्षिणानिलः, मल्यानिलस्य कामोद्दीपक-
त्वात् । तस्या निःश्वासः प्राणवायुः, पथिकानां प्रोषितानां हृद्दलने हृदयभेदने करवालः


( ३ ) उनकी वसुमती नामकी महारानां पत्नी ) थीं जो अति सुन्दरी एवं वनिताओं
में मुकुटमणि थीं । ( सुमतीका सुमति दोनों प्रयोग सिद्ध हैं )
( ४ ) एकवार क्रोधसे रक्त नेत्रवाले त्रिनेत्र भगवान्ने अपनी नेत्राग्निसे कामदेवको
जलाकर भस्म कर दिया । तब कामदेवकी सभी सेनाने मानो भयभीत होकर उस महिला
( महारानी ) को निर्दोष समझकर अपने-अपने स्वरूपके अनुसार उस महारानीके प्रत्येक
अंगोंमें आश्रय लिया । भौरोंकी श्रेणियोंने केशोंका, प्रेमके आकर चन्द्रने कमलविजयी
मुखका, जयध्वज चिह्न अर्थात् सपत्नीक मछली-दम्पतीने नयनयुगलोंका, समस्त सेनामें
प्रधान योधा ( सेनापति ) मलयपवनने मुखपवनका, पथिकोंके हृदयोंको विदारित करनेमें

[Footer]
Nepal Sanskrit University, Balmeeki Campus, Kathmandu