दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 37, कुल 474 में से
संदर्भ में पढ़ेंप्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ३७
─────────────────────────────────────────────────────────────────────────────
( ७७ ) ततो विषमविषज्वालावलीढावयवा सा धरणितले न्यपतत् ।
दयाविष्टहृदयोऽहं मन्त्रबलेत् विषव्यथामपनेतुमक्षमः समीपकुञ्जेभ्योष-
धिविशेषमन्विष्य प्रत्यागतो व्युत्क्रान्तजीवितां तां व्यलोकयम् ।
( ७८ ) तदनु तस्याः पावकसंस्कारं विरचय शोकाकुलचेता बालमेन-
मगतिमादाय सत्यवर्मवृत्तान्तवेलायां तन्निवासाग्रहारेनामधेयस्याश्रुततया
तदन्वेषणमशक्यमित्यालोच्य भवदमात्यतनयस्य भवानेवाभिरक्षितेति
भवन्तमेनमनयम्' इति ।
( ७९ ) तन्निशम्य सत्यवर्मस्थितेः सम्यगनिश्चिततया खिन्नमानसो
─────────────────────────────────────────────────────────────────────────────
( ७७ ) विषमयाऽविषह्यया विषस्य ज्वालया शिखया पीड्येत्यर्थः । अवलीढाः
व्याप्ता अवयवा अङ्गानि यस्याः सा । दयया करुणया आविष्टमाक्रान्तं हृदयं चेतो
यस्य सः । मन्त्रबलेन मन्त्रशक्त्या । अपनेतुं दूरीकर्तुम् । समीपकुञ्जेषु निकटस्थ-
लतादिपिहितस्थानेषु । व्युत्क्रान्तजीवितां मृताम् ।
( ७८ ) तदनु तदनन्तरम् । पावकसंस्कारं विरचय अग्निसंस्कारं कृत्वा तद्देहं
भस्मसात्कृत्वेत्यर्थः । शोकेन खेदेनाकुलं व्याप्तं चेतो यस्य सः । अगतिमनाथम् ।
सत्यवर्मणो वृत्तान्तश्रवणवेलायां वार्ताश्रवणसमये तस्य सत्यवर्मणो निवासा-
ग्रहारस्य वासस्थलभूतस्य ग्रामस्य यन्नामधेयं नाम तस्याश्रुततया अश्रव-
णेन । अभिरक्षिता पालकः । अनयं प्रापितवानस्मि । णीञ्प्रापणे इत्यस्य धातो-
र्लङि रूपम् ।
( ७९ ) सत्यवर्मस्थितेः तदवस्थानस्य जीवनस्य वा सम्यगनिश्चिततया सोऽत्रै-
─────────────────────────────────────────────────────────────────────────────
( ७७ ) इतनी बात कहते-कहते भयङ्कर विषकी ज्वालासे, जो सब शरीरमें व्याप्त हो गया
था, वह अचानक भूमिपर गिर गयी । मुझे उसकी ऐसी दशापर दया आ गयी। परन्तु मैं
मन्त्र नहीं जानता था इससे मन्त्रबलसे उसकी पीड़ा नष्ट न कर सका किन्तु समीपके लता-
गृहसे मैं जब औषधि खोजकर आया तो देखा कि उसके प्राण-पखेरू उड़ चुके थे ।
( ७८ ) तत्पश्चात् मैंने उसकी दाह-क्रिया की । और इस शोकान्वित चित्तवाले
बालकको अपने पास रख लिया । परन्तु सत्यवर्माके चरित्रके श्रवणके समय उसके
निवासस्थान अग्रहारका नाम तो सुना किन्तु पता न पा सका अतः उस स्थानका
अन्वेषण करना अशक्य समझा । हे प्रभो, आपके मन्त्रीका यह बालक है—ऐसा विचार
करके आपके समीप ले आया हूँ ।
( ७९ ) उपर्युक्त वृत्तान्तको जानकर तथा सत्यवर्माकी अनिश्चित स्थिति का ध्यान करके
Nepal Sanskrit University, Balmeeki Campus, Kathmandu