दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 258, कुल 474 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
२५८ दशकुमारचरितम् । [ उत्तरपीठिकायां
साहसानुवादी, नूनमसौ प्राणनिःस्पृहः किमपि कृच्छ्रं प्रियजनव्यसनमूलं
प्रतिपत्स्यते । तत्पृच्छेयमेनम् । अस्ति चेन्ममापि कोऽपि साहाय्यदाना-
वकाशस्तमेन मभ्युपेत्येत्यपृच्छम्- 'भद्र, संनाहोऽयं साहसमवगमयति ।
न चेद्गोप्यमिच्छामि श्रोतुं शोकहेतुम्' इति ।
(२) स मां सबहुमानं निर्वर्ण्य 'को दोषः, श्रूयताम्' इति क्वचि-
त्करवीरतले मया सह निषण्णः कथामकार्षीत्—'महाभाग, सोऽहम-
स्मि पूर्वेषु कामचरः पूर्णभद्रो नाम गृहपतिपुत्रः । प्रयत्नसंवर्धितोऽपि
यतीत्यर्थः । क्षीणतारं-दुर्बलकनीनिकम् । चक्षुरिति वर्षतीति क्रियायाः कर्त्तृ ।
आरम्भोऽध्यवसायः । साहसानुवादी-साहसानुकारी तत्सूचक इत्यर्थ । नूनं
निश्चितम् असौ पुरुषः । प्राणनिस्पृहः जीवनस्पृहाशून्यः । किमपि-अनिर्वचनी-
यम् । कृच्छ्रं कष्टम् । प्रियजनेति प्रियजनस्य व्यसनं विपदेव मूलं निदानं यस्य
तत् । प्रियजनविपन्निमित्तकमित्यर्थः प्रतिपत्स्यते-प्राप्स्यति । साहाय्यदानावकाशः
साहाय्यकरणावसरः, यदि मत्तः किमपि साहाय्यमिच्छति तदहं कर्तुमुद्यतोऽ-
स्मीति भावः । एनं पुरुषम् । अभ्युपेत्य-सम्मुखमागत्य । इति-वक्ष्यमाणम् । भद्र
सौम्येति सम्बोधनम् । संनाहः समुद्योगः । अयं-दृश्यमानः । अवगमयति सूच-
यति । गोप्यमप्रकाशयम् । शोकहेतुं शोककारणम् ।
(२) स पुरुषः । मामर्थपालम् । सबहुमानं साग्रहम् । निर्वर्ण्य दृष्ट्वा । करवीर-
तले-करवीरवृक्षस्याधस्तात् । निषण्ण. समुपविष्टः । कथां वक्ष्यमाणाम् । पूर्वेषु
पूर्वदेशेषु । कामचरो यथेच्छाचारी । गृहपतिपुत्रः ग्रामाध्यक्षतनयो गृहस्थपुत्रो
वा । प्रयत्नसंवर्धितोऽपि-महता यत्नेन परिपालितोऽपि । दैवच्छन्दानुवर्त्ती अदृष्ट-
नेत्र लाल-लाल हो गये हैं, ऐसे लक्षणयुक्त एक पुरुषको देखा । मैने विचार किया कि,
यह पुरुष कठोर है। इसकी धंसी हुई आँखें दैन्यको बताती हुई आँसू बहा रही हैं ।
अध्यवसायसे यह साहसी ज्ञात होता है । अवश्य ही यह मनुष्य अपने जीवनसे निःस्पृह
हो करके किसी स्वात्मीय प्रियजनके कष्टदायक क्लेशको भोग रहा है । अतः इससे यह
बात पूछनी चाहिये । यदि इसे मेरी किसी प्रकारकी सहायता चाहती हो सो भी पूछना
चाहिये । 'हे भद्र ! यह आपका समुद्योग साहसको बतला रहा है। यदि कोई गुप्त रखने
योग्य बात न हो तो, मुझसे आप शोकका कारण बतावें' ।
(२) उस पुरुषने मुझे सम्मानयुक्तदृष्टिसे देख करके कहा कोई दोष नहीं है,
सुनिये ! और एक कनेलके पेड़के नीचे मेरे साथ बैठ करके उसने कथा कहनी प्रारम्भ
की । 'हे महाभाग ! मैं पूर्व देशके एक स्वेच्छाचारी पूर्णभद्र ग्रामाध्यक्षका पुत्र हूँ ।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu