सामग्री पर जाएँ
सर्वकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 152, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 152

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
१५४ दशकुमारचरितम् । [ उत्तरपीठिकायां

(२६) अनुप्रविश्य च द्यूतसभामक्षधूर्त्तःसमगंसि। तेषां च पञ्चविंशति-
प्रकारासु सर्वासु द्यूताश्रयासु कलासु कौशलमक्षभूमिहस्तादिषु चात्यन्त-
दुरुपलक्ष्याणि कूटकर्माणि तन्मूलानि सावलेपान्याधिक्षेपवचनानि जीवि-
तनिरपेक्षाणि संरम्भविवेष्टितानि सभिकप्रत्ययव्यवहारान्यायबलप्रताप-
प्रायानङ्गीकृतार्थसाधनक्षमान्बलिषु सान्त्वनानि दुर्बलेषु भर्त्सितानि पक्ष-
रचनानैपुणमुच्चावचानि प्रलोभनानि ग्लहप्रभेदवर्णनानि द्रव्यसंविभागौ

( २६ ) द्यूतसभाम्-अक्षक्रीडासमाजम् । अक्षधूर्त्तः-पाशक्रीडानिपुणैः ।
समगंसि-तैः सह सम्मिलितोऽभवम् । गम् धातोरात्मनेपदे लुङि उत्तमपुरुषैकवचने
रूपम् । 'समो गम्यृच्छिभ्याम्'त्यनेनात्मनेपदम् । तेषामक्षधूर्त्तानाम् । द्यूताश्रयासु-
द्यूतक्रीडासम्बन्धिनीषु । कलासु-शिक्षासु । अक्षेत्यादि-अक्षाः पाशकाः, भूमि
स्तत्पातनस्थानं, हस्तस्तत्पातनयोग्यः करस्तदादिषु । अक्षभ्रमिहस्तेति पाठे
अक्षाणां पाशकानां भ्रमिप्रघूर्णनेषु ये हस्तादयोऽपेक्ष्यन्ते तेषु । अत्यन्तेति अत्यन्तं
नितरां दुरुपलक्ष्याणि दुर्ज्ञेयानि दुःखेनपि ज्ञातुमशक्यानीत्यर्थः । कूटकर्माणि-
कपटव्यवहारान् । तन्मूलानि-कूटकर्ममूलानि । तन्निमित्तकानि वा । सावलेपानि-
सगर्वाणि । अधिक्षेपवचनानि-तिरस्कारसूचकानि वाक्यानि । जीवितेनिरपेक्षाणि
प्राणधारणेपि आसक्तिशून्यानि । संरम्भविवेष्टितानि-कोपकार्याणि । सभिके-
त्यादि-सभिकस्य द्यूतकारकस्य प्रत्ययो विश्वासस्तदुचितव्यवहारान् तद्योग्यानुष्ठा-
नानि । कीदृशा व्यवहारा इति तद्विशिनष्टि-न्यायेति । न्यायो युक्तिः, बलं सामर्थ्यं
प्रतापः प्रभावः प्रायो बहुलो येषु तान् । पुनः किम्भूतान्-अङ्गीकृतस्य कर्तुं
प्रतिज्ञातस्यार्थस्य प्रयोजनस्य साधने सिद्धौ क्षमान् योग्यान् । बलिषु-बलवत्सु ।
सान्त्वनानि-सामप्रयोगान् । भर्त्सितानि-भीतिजनकवाक्यानि । पक्षरचनायां
जयवत्तां पुरुषाणामात्मपक्षीयकरणे । नैपुणं-पाटवम् । उच्चावचानि-नानाविधानि ।
प्रलोभनानि-लोभोत्पादकानि । ग्लहेति-ग्लहस्य पणस्य ये प्रभेदा विशेषास्तेषां

(२६) बस, सर्वप्रथम मैं जुआड़ियोंकी मण्डलीमें घुसा और, कुशल जुआड़ियोंमें
घुल-मिल गया । उन लोगोंकी पच्चीसों प्रकारकी सभी द्यूतकलाकी कुशलता, गोटियोंको
रखनेकी जगह, अतिशय दुष्प्रेक्ष्य हाथकी सफाई, चालबाजियाँ और उनसे युक्त गर्व तथा
आक्षेपभरे वाक्य, जीवनकी भी परवा न करके साहसके काम कर गुजरना, जुआ
खेलानेवाले-(नालिया-) की जानकारी रहते हुए न्यायालयमें जा करके जीतने तथा
प्रभावयुक्त स्वार्थसाधनके उपायोंको जानना, बलवानोंके साथ सान्त्वना देते हुए, दुर्बलोंको
डाँट-फटकार बताना, ऊँची-नीची बातें करके अपना पक्ष प्रवल कर लेना, प्रलोभन देना,

Nepal Sanskrit University, Balmeeki Campus, Kathmandu