सामग्री पर जाएँ
सर्वकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 125, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 125

प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । १२७
वर्मणा च स्वहस्तसत्वरसमीकृते मातङ्गे भागीरथीपुलिनमण्डले सुखं
निषसाद ।
( २६ ) तथा निषण्णं च तमुपहारवर्मार्थपालप्रमतिमित्रगुप्तमन्त्रगुप्त-
विश्रुतैर्मैथिलेन च प्रहारवर्मणा, काशीभर्त्रा च कामपालेन, चम्पेश्वरेण
सिंहवर्मणा, सहोपागत्य धनमित्रः प्रणिपपात । देवोऽपि हर्षाविद्धमभ्यु-
त्थितः 'कथं समस्त एष मित्रगणः समागतः, को नामायमभ्युदयः' इति
कृतयथोचितोपचारान्निर्भरतरं परिरभे । काशीपतिमैथिलाङ्गराजांश्च सुहृ-
न्निवेदितान्पितृवदपश्यत् । तैश्च हर्षकम्पितपलितं सरभसोपगूढः परम-
भिननन्द ।
अपहारवर्मणेति शेषः, सत्वरं शीघ्रं समीकृते मार्जनादिना समानीकृते । मातङ्गे
इव गजे यथा सुखेन निषसाद तद्वत् । भागीरथीपुलिनमण्डले गङ्गातटे । निषसाद
उपविष्टो बभूव ।
( २६ ) तथा तेन प्रकारेण सुखेनेत्यर्थः । तं राजवाहनम् । मैथिलेन मिथि-
लाधिपेन । काशीभर्त्रा काशीश्वरेण । तृतीयान्तादिपदानि सहेत्यनेनान्वितानि ।
देवः राजवाहनः । हर्षाविद्धं सहर्षं, क्रियाविशेषणमेतत् । अभ्युदयः परमोन्नतिः,
कल्याणपरम्परेति यावत् । कृतेति—कृतो विहितः यथोचितो यथायोग्य उपचारः
सम्मानादिर्येषां तान् उपहारवर्मादीन् इत्यर्थः । निर्भरतरं गाढतरम् । परिरभे आलि-
लिङ्ग । सुहृदा धनमित्रेण निवेदितान् निर्दिष्टान् । पितृवत् पित्रा तुल्यान् । वृद्ध-
स्वात् तान् जनकवत् सम्मानयामास । तैः काशीपतिप्रमुखैः । हर्षेण कम्पितानि
पलितानि शुक्लकेशा यस्मिंस्तद् यथा तथा । सरभसं सवेगम् उपगूढ आलिङ्गितः ।
परम् अत्यर्थम् । अभिननन्द राजवाहन इति शेषः ।
रताले स्थानपर उसी बालू का एक चबूतरा जैसा समतल स्थान बना दिया, जिसके ऊपर
राजवाहन बड़े हर्षके साथ बैठ गये ।
( २६ ) कुछ देर पश्चात् उपहारवर्मा, अर्थपाल, प्रमति, मित्रगुप्त, मन्त्रगुप्त, मैथिल,
प्रहारवर्मा, काशीपति, कामपाल, चम्पापति और सिंहवर्मा आदिके साथ आकर धनमित्रने
राजवाहनको प्रणाम किया । राजवाहनने हर्षके साथ अपने स्थानसे उठकर उन सबका
सत्कार करके कहा—'एक साथ ही सब मित्र आ मिले । आज हम लोगोंका सर्वश्रेष्ठ
भाग्योदय हुआ है।' ऐसा कहकर उन्होंने यथाक्रम सबसे आलिंगन एवं अभिवादन करके
भेंट की । अपने मित्र धनमित्रसे काशीपति तथा मिथिलापति एवं अंगदेशाधिपतिका
परिचय प्राप्त करके राजवाहनने उनका पिताके सदृश समादर किया । तब उन बूढ़े