दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
७० दशकुमारचरितम् । [ पूर्वपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
७० दशकुमारचरितम् । [ पूर्वपीठिकायां
रभावो लतान्तबाणबाणलक्ष्यतामयासिषम् ।
( १२ ) चकितबालकुरङ्गलोचना सापि कुसुमसायकसायकायमानेन
कटाक्षवीक्षणेन मामसकृन्निरीक्ष्य मन्दमारुतान्दोलिता लतेवाकम्पत । मन-
साभिमुखैः समाकुञ्चितै रागलज्जान्तरालवर्तिभिः साङ्गवर्तिभीरीक्षणविशे-
षैर्निजमनोवृत्तिमकथयत् ।
( १३ ) चतुरगूढचेष्टाभिरस्या मनोऽनुरागं सम्यग्ज्ञात्वा सुखसंगमोपा-
यमचिन्तयम् । अन्यदा बन्धुपालः शकुनैर्भवद्गतिं प्रेक्षिष्यमाणः पुरोपान्त-
सम् । तदीयलावण्यदर्शनात्कामबाणविद्धोऽहमभवमिति तात्पर्यम् ।
( १२ ) चकितस्य भीतस्य बालकुरङ्गस्य चपलमृगस्य लोचने नयने इव लोचने
यस्याः सा । चञ्चलनयनेत्यर्थः । सापि बालचन्द्रिकापि । कुसुमसायकस्य कामस्य
सायकः इवाचरतीति तेन-कामबाणसदृशेनेत्यर्थः । असकृद् वारं वारम् । मन्द-
मारुतेन धीरसमीरेण आन्दोलिता कम्पिता। मनसा हृदयेन । अभिमुखैः मय्यर्पितः ।
समाकुञ्चितैर्लज्जया खर्वीकृतैः असमग्रपातिभिरिति भावः । रागोऽनुरागः लज्जा
त्रपा तयोरन्तराले मध्ये वर्त्तन्ते ये तैः- अनुरागव्यञ्जकैरपि सलज्जैरित्यर्थः । अङ्ग-
भङ्गया सह वर्त्तमानैः साङ्गभङ्गिभिः एतानि ईक्षणविशेषैरित्यस्य विशेषणानि ।
ईक्षणविशेषैः कटाक्षैरिति भावः । निजमनोवृत्तिं स्वमनोव्यापारं-अभिलाषमिति
यावत् । अकथयत् प्राकाशयत् ।
( १३ ) चतुराः पेशला गूढा गुप्ताश्च याश्चेष्टाः कटाक्षादयस्ताभिः । अस्या बाल-
चन्द्रिकायाः । सुखेनानयासेन यः सङ्गमो मिलनं तस्योपायं साधनम् । अन्यदा
अन्यस्मिन् समये । शकुनैः निमित्तैः सामुद्रिकादिशास्त्रप्रदर्शितैश्चिह्नविशेषैः । भव-
द्गतिं भवतो राजवाहनस्येत्यर्थः । गतिं प्रचारप्रकारम् । प्रेक्षिष्यमाणः द्रक्ष्यन् । पुरस्य
उसका सारा अंग नवीन यौवन से भरा था । उसकी आंखोंमें तेज था । उसकी सुन्दरता
देखकर मेरा मन लुभा गया; धैर्य छूट गया और मैं कामवाणों का लक्ष्य हो गया । उसका
नाम बालचन्द्रिका था ।
( १२ ) वह चञ्चल बालकुरङ्गलोचना तरुणी थी । कामदेव के पुष्पवाणों के सदृश
अपने अपाङ्गों से मुझे बार बार देखती हुई मन्द मन्द पवन से कम्पित लताके समान कांपने
लगी । प्रेम और लज्जा के मध्य में रहनेवाले प्रत्यक्ष हाव-भावों तथा विचित्र रीति के भावों
को दिखा-दिखाकर उसने भी मुझसे अपनी मनोव्यथा प्रकट कर दी ।
( १३ ) मैं अपनी चतुरता तथा गुप्त चेष्टाओं द्वारा उस तरुणी के हार्दिक अनुरागको अच्छी
तरह जान गया । उसके साथ समागमका यत्न सोचने लगा । दूसरे दिन मेरा मित्र बन्धुपाल
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
चतुर्थोच्छ्वासः ] व्याख्याद्वयोपेतम् । ७१
विहारवनं मया सहोपेत्य कस्मिंश्चिन्महीरुहे शकुन्तवचनानि शृण्वन्न-
तिष्ठत् ।
( १४ ) अहमुत्कलिकाविनोदपरायणो वनान्तरे परिभ्रमन्त्सरोवरतीरे
चिन्ताक्रान्तचित्तां दीनवदनां मन्मनोरथैकभूमिं बालचन्द्रिकां व्यलोकयम् ।
( १५ ) तस्याः ससंभ्रमप्रेम लज्जाकौतुकमनोरमं लीलाविलोकनसुख-
मन्भवन्सुदत्या वदनारविन्दे विषण्णभावं मदनकदनखेदानुभूतं ज्ञात्वा
तन्निमित्तं ज्ञास्यँल्लीलया तदुपकण्ठमुपेत्यावोचम्—'सुमुखि, तव मुखार-
विन्दस्य दैन्यकारणं कथय' इति ।
नगरस्योपान्ते समीपे विहारवनं क्रीडोद्यानम् । शकुन्तानां पक्षिणां वचनानि पर-
स्परभाषितानि । 'शकुन्तपक्षिशकुनिशकुन्तशकुनद्विजाः' इत्यमरः ।
( १४ ) उत्कलिकाया उत्कण्ठायाः विनोदेऽपनोदने परायणस्तत्परः । वनान्तरे
अन्यवने । चिन्तया ध्यानेन आक्रान्तं पर्याकुलं चित्तं हृदयं यस्यास्ताम् । दीनवदनां
विषण्णाननाम् । मम मनोरथस्याभिलाषस्यैकभूमिं प्रधानाश्रयभूताम् । यामहं
निरन्तरमभिलषामीति भावः ।
( १५ ) सम्भ्रमेण त्वरया सह वर्त्तमानानि ससम्भ्रमाणि—प्रेमा अनुरागश्च
लज्जा त्रपा च कौतुकमौत्सुक्यं चेति द्वन्द्वः । ससम्भ्रमाणि च तानीति कर्मधारयः
तर्मनोरमं मनोहरम् । लीलया विलासेन यद्विलोकनमवलोकनं तेन यत्सुखमानन्द-
स्तत् । सुदत्याः शोभना दन्ता यस्याः सा सुदती तस्याः । मदनस्य कामस्य
कदनखेदेन पीडनायासेन अनुभूतं विषण्णभावमित्यस्य विशेषणम्-अस्या विषण्ण-
भावो नान्यनिमित्तकः किन्तु कामजनितपीडाहेतुक एवेति भावः । तस्य विषण्ण-
भावस्य निमित्तं कारणम् । बालचन्द्रिकाया उपकण्ठं समीपम् ।
नगरके बाहर एक उद्यानमें आपके अन्वेषणके लिए शुभ शकुन बताने आया । समीपमें ही
एक वृक्षपर पक्षियोंके कलरवको सुनकर बैठ गया ।
( १४ ) मैं अपनी बालचन्द्रिकाकी प्राप्तिकी उत्कण्ठाके विनोदाथं दूसरे उपवनके सन्निकट
एक तालावके किनारे जा पहुँचा । वहाँ चिन्तितचित्त, म्लानमुख तथा एकमात्र मेरी
प्राप्तिकी इच्छासे बैठी हुई एकान्तमें वालचन्द्रिका दिखायी पड़ी ।
( १५ ) उस मनोहर दाँतोंवाली तरुणीकी घबराहट और प्रीति एवं लज्जायुक्त भावोंसे
सुन्दर मुखके अवलोकनजन्य आनन्दको लूटता हुआ उसके विनोदयुक्त भाव तथा कामदेव
की पीडामे व्यथित उसे ज्ञातकर उसकी उद्विग्नताका हेतु जाननेके विचारसे मैं उसके पास गया
और मैने पूछा-सुमुखि ! आपके मुखकमलपर उदासो क्यों है इसका कारण मुझसे कहो—