दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
६० दशकुमारचरितम् । [ पूर्वपीठिकायां
६० दशकुमारचरितम् । [ पूर्वपीठिकायां
ममानेकविधां संभावनामकार्षीत् ।
(१०) मानपालप्रेषितात्तदनुचरादेनमखिलमुदन्तजातमार्कण्य संतु-
ष्टमना राजाभ्युद्गतो मदीयपराक्रमे विस्मयमानः समहोत्सवममात्य-
बान्धवानुमत्या शुभदिने निजतनयां मह्यमदात् । ततो यौवराज्याभिषि-
क्तोऽहमनुदिनमाराधितमहीपालचित्तो वामलोचनयानया सह नानाविधं
सौख्यमनुभवन्भवद्विरहवेदनाशक्यसुलभवैकल्यहृदयः सिद्धादेशेन सुहृज्ज-
नावलोकनफलं प्रदेशं महाकालनिवासिनः परमेश्वरस्याराधनायाद्य पत्नी-
समेतः समागतोऽस्मि । भक्तवत्सलस्य गौरीपतेः कारुण्येन त्वत्पदार-
विन्दसंदर्शनानन्दसंदोहो मया लब्धः' इति ॥
कत्तुमित्याशयः । परमानन्देन संभृतः पूर्णः । संभावनां सत्कारम् ।
(११) संतुष्टं मनो यस्य सः प्रीतचित्तः । राजा वीरकेतुः । अभ्युद्गतः सम्मा-
नार्थमागतः । विस्मयमानः आश्चर्यमनुभवन् । निजतनयां बालचन्द्रिकाम् । युवा
चासौ राजा चेति युवराजः तस्य भावो यौवराज्यं तस्मिन् अभिषिक्तो नियुक्तः ।
आराधितं सन्तोपितं महीपालस्य राज्ञः चित्तं मनो येन सः । भवतस्तव राजवाहन-
स्येत्यर्थः । विरहवेदना विच्छेदव्यथैव शल्यं शङ्कुस्तेन सुलभं अनायासप्राप्यं वैकल्यं
विह्वलता हृदये यस्य सः । भवद्विरहदुःखाकुलचेता इत्यर्थः । सिद्धादेशेन सिद्धादेश-
वशात् । सुहृज्जनस्य मित्रस्यावलोकनं दर्शनमेव फलं प्रयोजनं यत्र तम्-प्रदेशविशे-
पेणमेतत् । अस्मिन् प्रदेशे त्वत्प्रार्थितं मित्रदर्शनं भविष्यतीति सिद्धेनादिष्टम् । महा-
कालो नामोजयिन्यां प्रसिद्धं महादेवस्थानम् । अराधनायार्चनाय । भक्तेषु सेवकेषु
वत्सलो दयालुः तस्य । तव पदारविन्दयोश्चरणकमलयोः सन्दर्शनेन अवलोकनेन
य आनन्दो हर्षस्तस्य । सन्दोहोऽतिशयः ।
उसके गिरते उसके शेष योधा भाग गये । तब रिपुके अनेक तरहके हाथी-घोड़े-रथादि
शस्त्रास्त्रोंको लेकर मैं मन्त्रीके समीप उपस्थित हुआ । जिसे देखकर परमानन्दित मानपाल
ने मेरा अतीव आदर-सत्कार किया ।
(११) तदनन्तर मानपाल द्वारा प्रेषित सेवकोंसे मत्तकालका वध और मेरा वृत्त
श्रवणकर राजा वीरकेतु अति प्रमुदित हुआ । मेरे पराक्रमको जानकर आश्चर्यान्वित होकर
तथा अपने मन्त्रियों और वन्धु-बान्धवोंसे राय करके शुभ दिवसमें सविधि अपनी पुत्रीका
परिणय मेरे साथ कर दिया । और कुछ दिनों पश्चात् यौवराज्यपर मुझे विभूषितकर दिया ।
मैं भी अपनी सेवाओंसे राजाको प्रसन्न रखता हुआ प्रतिदिन इन वामलोचनाके साथ आनन्दो-
पभोग करने लगा । परन्तु आपकी विरहजनित वेदनासे विकलचित्त होकर मैं, अपनी पत्नीके
साथ, एक सिद्धपुरुषके आदेशसे, महाकालनिवासी परमेश्वरके आराधनार्थ इस स्थानमें आया
तृतीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । ६१
( १२ ) तन्निशम्याभिनन्दितपराक्रमो राजवाहनस्तन्निरपराधदण्डे
दैवमुपालभ्य तस्मै क्रमेणात्मचरितं कथयामास । तस्मिन्नवसरे पुरतः
पुष्पोद्भवं विलोक्य ससंभ्रमं निजनिटिलतटस्पृष्टचरणाङ्गुलिमुदञ्जलिममुं
गाढमालिङ्ग्यानन्दबाष्पसंकुलसंफुल्ललोचनः 'सौम्य सोमदत्त, अयं स
पुष्पोद्भवः' इति तस्मै तं दर्शयामास ।
( १३ ) तौ च चिरविरहदुःखं विसृज्यान्योन्यालिङ्गनसुखमन्वभूताम् ।
ततस्तस्यैव महीरुहस्य छायायामुपविश्य राजा सादरहासमभाषत—
'वयस्य, भूसुरकार्यं करिष्णुरहं मित्रगणो विदितार्थः सर्वथान्तरायं करि-
ष्यतीति निद्रितान्भवतः परित्यज्य निरगाम् । तदनु प्रबुद्धो वयस्यवर्गः कि-
( १२ ) अभिनन्दितः प्रशंसितः पराक्रमः सोमदत्तस्य विक्रमो येन सः । तस्य
सोमदत्तस्य निरपराधदण्डे अपराधाभावेऽपि प्राप्ते दण्डविषये । दैवमदृष्टम् उपालभ्य
विनिन्द्य । तस्मै सोमदत्ताय । ससम्भ्रमं सचकितम् । निजस्य स्वस्य निटिलतटे
भालस्थले स्पृष्टाः संसक्ताश्चरणाङ्गुलयो राजवाहनस्येति शेषः येन तम् । उदञ्जलिं
कृताञ्जलिम् । अमुं पुष्पोद्भवम् । आनन्दबाष्पेण हर्षजनिताश्रुणा संकुले व्याप्ते
संफुल्ले विकसिते लोचने नेत्रे यस्य सः तस्मै सोमदत्ताय । तं पुष्पोद्भवम् ।
( १३ ) तौ सोमदत्तपुष्पोद्भवौ । चिरविरहदुःखं दीर्घकालादर्शनजनितक्लेशम् ।
तस्यैव पूर्ववर्णितस्य । सादरो हासो यस्मिन् तत् क्रियाविशेषणमिदम् आदरेण
स्मितेत्यर्थः । भूसुरकार्यं विप्रकृत्यम् । मित्रगणः यूयमित्यर्थः । विदितार्थः अवगत-
हूँ। यहां भक्तवत्सल गौरीपति विश्वनाथके प्रसादसे आज मैं आपके इन पदारविन्दोंके
दर्शन पा रहा हूं।
( १२ ) उसके मुखसे यह सब वृत्तान्त श्रवणकर कुमार राजवाहनने उसके (सोमदत्तके)
पराक्रमकी अति प्रशंसा की और निरपराधीको दण्ड देनेके निमित्त दैवको उपालम्भ दिया
तथा क्रमशः अपना चरित कह सुनाया । उसी अवसरपर बड़े हर्षके साथ अपना शिर झुकाये
हुए तथा राजवाहनके चरणकी अङ्गुलिपर अपना मस्तक स्पर्शित किये हुए पुष्पोद्भवको
अपने समीप खड़े देखा । राजवाहनने शीघ्र उठकर उसे कंठसे लगाया और आनन्दाश्रु भरे
नयनोंसे देखते हुए उससे कहा—हे सौम्य, देखो, यह पुष्पोद्भव भी आ पहुँचा । ऐसा
कहकर सोमदत्तको दिखाया ।
( १३ ) उन दोनोंने भी परस्पर आलिंगनकर अतिकालसे प्राप्त वियोग व्यथाको त्यागकर
सुख प्राप्त किया । तदनन्तर उसी सघन वृक्षकी छायामें बैठकर राजाने बड़े आदर के साथ
प्रफुल्लचित्त होकर कहा-'हे मित्र ! हे सखे ! जब मैं उस विप्रका कार्य करनेके लिये जानेको सोचने
लगा तब मैंने यह भी सोचा कि यदि आप लोगोंसे ( मित्रोंसे ) कहूँगा तो आप लोग अवश्य
Nepal Sanskrit University, Balmeeki Campus, Kathmandu