दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 60, कुल 474 में से
संदर्भ में पढ़ें६० दशकुमारचरितम् । [ पूर्वपीठिकायां
ममानेकविधां संभावनामकार्षीत् ।
(१०) मानपालप्रेषितात्तदनुचरादेनमखिलमुदन्तजातमार्कण्य संतु-
ष्टमना राजाभ्युद्गतो मदीयपराक्रमे विस्मयमानः समहोत्सवममात्य-
बान्धवानुमत्या शुभदिने निजतनयां मह्यमदात् । ततो यौवराज्याभिषि-
क्तोऽहमनुदिनमाराधितमहीपालचित्तो वामलोचनयानया सह नानाविधं
सौख्यमनुभवन्भवद्विरहवेदनाशक्यसुलभवैकल्यहृदयः सिद्धादेशेन सुहृज्ज-
नावलोकनफलं प्रदेशं महाकालनिवासिनः परमेश्वरस्याराधनायाद्य पत्नी-
समेतः समागतोऽस्मि । भक्तवत्सलस्य गौरीपतेः कारुण्येन त्वत्पदार-
विन्दसंदर्शनानन्दसंदोहो मया लब्धः' इति ॥
कत्तुमित्याशयः । परमानन्देन संभृतः पूर्णः । संभावनां सत्कारम् ।
(११) संतुष्टं मनो यस्य सः प्रीतचित्तः । राजा वीरकेतुः । अभ्युद्गतः सम्मा-
नार्थमागतः । विस्मयमानः आश्चर्यमनुभवन् । निजतनयां बालचन्द्रिकाम् । युवा
चासौ राजा चेति युवराजः तस्य भावो यौवराज्यं तस्मिन् अभिषिक्तो नियुक्तः ।
आराधितं सन्तोपितं महीपालस्य राज्ञः चित्तं मनो येन सः । भवतस्तव राजवाहन-
स्येत्यर्थः । विरहवेदना विच्छेदव्यथैव शल्यं शङ्कुस्तेन सुलभं अनायासप्राप्यं वैकल्यं
विह्वलता हृदये यस्य सः । भवद्विरहदुःखाकुलचेता इत्यर्थः । सिद्धादेशेन सिद्धादेश-
वशात् । सुहृज्जनस्य मित्रस्यावलोकनं दर्शनमेव फलं प्रयोजनं यत्र तम्-प्रदेशविशे-
पेणमेतत् । अस्मिन् प्रदेशे त्वत्प्रार्थितं मित्रदर्शनं भविष्यतीति सिद्धेनादिष्टम् । महा-
कालो नामोजयिन्यां प्रसिद्धं महादेवस्थानम् । अराधनायार्चनाय । भक्तेषु सेवकेषु
वत्सलो दयालुः तस्य । तव पदारविन्दयोश्चरणकमलयोः सन्दर्शनेन अवलोकनेन
य आनन्दो हर्षस्तस्य । सन्दोहोऽतिशयः ।
उसके गिरते उसके शेष योधा भाग गये । तब रिपुके अनेक तरहके हाथी-घोड़े-रथादि
शस्त्रास्त्रोंको लेकर मैं मन्त्रीके समीप उपस्थित हुआ । जिसे देखकर परमानन्दित मानपाल
ने मेरा अतीव आदर-सत्कार किया ।
(११) तदनन्तर मानपाल द्वारा प्रेषित सेवकोंसे मत्तकालका वध और मेरा वृत्त
श्रवणकर राजा वीरकेतु अति प्रमुदित हुआ । मेरे पराक्रमको जानकर आश्चर्यान्वित होकर
तथा अपने मन्त्रियों और वन्धु-बान्धवोंसे राय करके शुभ दिवसमें सविधि अपनी पुत्रीका
परिणय मेरे साथ कर दिया । और कुछ दिनों पश्चात् यौवराज्यपर मुझे विभूषितकर दिया ।
मैं भी अपनी सेवाओंसे राजाको प्रसन्न रखता हुआ प्रतिदिन इन वामलोचनाके साथ आनन्दो-
पभोग करने लगा । परन्तु आपकी विरहजनित वेदनासे विकलचित्त होकर मैं, अपनी पत्नीके
साथ, एक सिद्धपुरुषके आदेशसे, महाकालनिवासी परमेश्वरके आराधनार्थ इस स्थानमें आया