सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

५८ दशकुमारचरितम् । [ पूर्वपीठिकायां

५८ दशकुमारचरितम् । [ पूर्वपीठिकायां

द्राव्यमानपालशिविरं प्राविशम् । मानपालो निजकिङ्करेभ्यो मम कुलाभि-
मानवृत्तान्तं तत्कालीनं विक्रमं च निशम्य मामार्चयत् ।
( ६ ) परेद्युर्मत्तकालेन प्रेषिताः केचन पुरुषा मानपालमुपेत्य 'मन्त्रिन्,
मदीयराजमन्दिरे सुरुङ्गया बहुधनमपहृत्य चोरवीरा भवदीयं कटकं प्रा-
विशन्, तानर्पय । नो चेन्महाननर्थः भविष्यति' इति क्रूरतरं वाक्य-
मब्रुवन् । तदाकर्ण्य रोषारुणितनेत्रो मन्त्री 'लाटपतिः कः, तेन मैत्री का,
पुनरस्य वराकस्य सेवया किं लभ्यम्' इति तान्निरभर्त्सयत् । ते च मान-
पालेनोक्तं विप्रलापं मत्तकालाय तथैवाकथयन् । कुपितोऽपि लाटपतिर्दो-
र्वीर्यगर्बेणाल्पसैनिकसमेतो योद्धुमभ्यगात् । पूर्वमेव कृतरणनिश्चयो मानी
मानपालः संनद्धयोधो युद्धकामो भूत्वा निःशंकं निरगात् । अहमपि सबहु-

तया । निजपराक्रमेणेत्यर्थः । अभिद्राव्य दूरमपवाह्य प्रपलाय्येति यावत् । तत्का-
लीनं तस्मिन् काले कारागृहान्निर्गमनसमये भवं जातम् । आर्चयत् सत्कृतवान् ।
( ९ ) परेद्युः तत्परदिने । कटकं सैन्यमण्डलम् । अनर्थः अहितम् । रोषेण क्रोधेन
अरुणिते रक्ते नेत्रे नयने यस्य सः । तेन सहेति शेषः । वराकस्य निकृष्टस्य । निर-
भर्त्सयत् अतर्जयत् । विप्रलापं विकृतवचनम् । तथैव यथाश्रुतं तथैव । दोर्वीर्यस्य
भुजविक्रमस्य गर्वेणाहङ्कारेण पूर्वमेव प्रागेव कृतो रणस्य युद्धस्य निश्चयो निर्णयो
येन सः । युद्धमवश्यम्भावीति प्रागेव निर्द्धारितमित्यर्थः । संनद्धा युद्धाय सज्जिता
योधा भटा यस्य सः । सबहुमानं सादरं क्रियाविशेषणमेतत् । बहुलैरसंख्यैः

मानपालके शिविर में जा पहुँचे । मानपालने अपने भृत्यों द्वारा मेरे कुल तथा मेरी कीर्ति और
वीरगाथाकी प्रसिद्धि तथा उस समयके किये पराक्रमको मुग्धतापूर्वक सुना और हम लोगोंका
अति आदर-सत्कार किया ।
( ९ ) तदनन्तर दूसरे दिन मत्तकाल द्वारा प्रेषित सेवकों ने मानपाल मन्त्रीके समीप आकर
कहा—'हे मन्त्रिन् ! मेरे राज-मन्दिर में सुरंग द्वारा प्रविष्ट होकर बहुत माल-असबाबको
लेकर चोरवीरोंने तुम्हारे शिविर में प्रवेश किया है उन्हें तुम मुझे सौंप दो अन्यथा महान्
अनर्थ होगा।' ऐसे कटु वाक्योंको सुनकर क्रोधसे रक्तवर्ण आँखें किये हुए मानपालने कहा-
'अरे, कौन लाटपति, मैंने उससे मित्रता कब की ? उस अधमकी दासतासे मुझे क्या लाभ ?
उपर्युक्तरीत्या राजपुरुषोंकी खूब भर्त्सना मानपालने की । उन राजसेवकोंने मत्तपालसे आकर
ज्योंका त्यों सभी बातें कह दीं । यह सुनकर लाटपति अपने भुजबलके अखर्व गर्वसे क्रोधान्ध
हो गया । अपने साथ थोड़ासा सैन्य लेकर मानपालसे युद्ध करने चला आया । पहलेसे ही
युद्धके लिए उद्युक्त मानी मानपाल भी निःशंक होकर युद्धार्थ शिविरसे निकल पड़ा । मैं भी

तृतीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । ५६
मानं मन्त्रिदत्तानि बहुलतुरंगमोपेतं चतुरसारथि रथं च दृढतरं कवचं-
मदनुरूपं चापं च विविधबाणपूर्णं तूणीरद्वयं रणसमुचितान्यायुधानि गृ-
हीत्वा युद्धसंनद्धो मदीयबलविश्वासेन रिपूद्धरणोद्युक्तं मन्त्रिणमन्वगाम् ।
परस्परमत्सरेण तुमुलसंगरकरमुभयसैन्यमतिक्रम्य समुल्लसद्भुजाटोपेन
बाणवर्षं तदङ्गे विमुञ्चन्नरातीन्प्राहरम् ।
(१०) ततोऽतियरतुरंगं मद्रथं तन्निकटं नीत्वा शीघ्रलङ्घनोपेतत्-
दीयरथोऽहमरातेः शिरःकर्तनमकार्षम् । तस्मिन्पतिते तदवशिष्टसैनिकेषु
पलायितेषु नानाविधहयगजादिवस्तुजातमादाय परमानन्दसम्भृतो मन्त्री
तुरङ्गमैरश्वैरुपेतं युक्तम् । चतुरो दक्षः सारथिर्यस्य तम् । रथमित्यस्य विशेषणम् ,
कवचं वर्म्म तूणीरद्वयं इषुधियुग्मम् । रणसमुचितानि युद्धयोग्यानि । मदीयबलस्य
विश्वासेन सकलरिपुसैन्यविनाशे सर्वथा समर्थोऽहमिति निर्णीयत्यर्थः । रिपूणां शत्रू-
णामुद्धरणे समुच्छेदे उद्युक्तं प्रवृत्तम् । मन्त्रिणं मानपालम् । परस्परमत्सरेण अन्यो-
न्यद्वेषेण । तुमुलसंगरकरं संकुलयुद्धकारि अतिक्रम्य लङ्घयित्वा । समुल्लसतोः आज्ञ-
मानयोः बाह्वोराटोपेन गर्वेण तदङ्गे तेषां शत्रुसैन्यानां शरीरे ।
(१०) अतित्वराः अतिवेगवन्तस्तुरङ्गमा अश्वा यस्मिन् तम् । मद्रथमित्यस्य
विशेषणम् । तस्य लाटपतेः निकटं समीपम् । शीघ्रलङ्घनेन सत्वराक्रमणेन उपेतः
प्राप्तस्तदीयो लाटपतेरित्यर्थः, रथो येन सः तादृशोऽहम् । अरातेः शत्रोः लाटपते-
रित्यर्थः । शिरःकर्तनं मस्तकच्छेदकम् । तस्मिन् लाटेश्वरे । पतिते मृते इत्यर्थः ।
तस्य लाटेश्वरस्य अवशिष्टेषु सैनिकेषु युद्धानन्तरं स्थितेषु बलेषु । नानाविधं बहु-
प्रकारं हयगजादिवस्तुजातं गजाश्वादिवस्तुसमूहम् । आदाय गृहीत्वा मदर्थमुपायनी-
अत्यन्त आदर तथा आग्रहके साथ भेंट किये हुए घोड़ोंसे खींचे जानेवाले रथपर जिसका
सारथी भी प्रवीण था, दृढ़तर कवच और अपने योग्य धनुष तथा नाना प्रकारके शस्त्राद्यु-
धोंसे सुसज्जित एवं अनेक तरहके बाणोंसे भरे हुए दो तरकस तथा समरके योग्य जिरह-
बख्तर धारण करके मन्त्रीके साथ-साथ युद्धस्थलमें आ पहुँचा । मन्त्रीको मेरे पराक्रमपर पूर्ण
विश्वास था, वह समझता था कि मैं शत्रुदलको पराजित करनेमें तथा उन्हें उखाड़ फेंकनेमें
पूर्ण दक्ष हूं । परस्पर क्रोध होनेसे घमासान युद्ध करनेकी लालसासे परिपूर्ण दोनों सेना-
ओंका अतिक्रमण करके मैं अपने बाहुदण्डके पराक्रमके आटोपसे शत्रुओंके ऊपर बाणोंकी
वृष्टि करने लगा ।
(१०) इसके बादमें बड़े वेगवाले अश्वोंसे सयुक्त अपने रथको शीघ्रही मत्तकालके
रथके समीप ले आया । वह रथको लेकर भाग ही रहा था कि मैंने उसका शिर काट डाला ।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu