सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

७२ दशकुमारचरितम् । [ पूर्वपीठिकायां

७२ दशकुमारचरितम् । [ पूर्वपीठिकायां
( १६ ) सा रहस्यसंजातविश्रम्भतया विहाय लज्जाभये शनैरभा-
षत—'सौम्य, मानसारो मालवाधीश्वरो वार्धकस्य प्रबलतया निजनन्दनं
दर्पसारमुज्जयिन्यामभ्यषिञ्चत् । स कुमारः सप्तसागरपर्यन्तं महीमण्डलं
पालयिष्यन्निज पैतृष्वस्रेयावुद्दण्डकर्माणौ चण्डवर्मदारुवर्माणौ धरणीभरणे
नियुज्य तपश्चरणाय राजराजगिरिमभ्यगात् ।
( १७ ) राज्यं सर्वमसपत्नं शासति चण्डवर्मणि दारुवर्मा मातुला-
ग्रजन्मनोः शासनमतिक्रम्य पारदार्यपरद्रव्यापहरणादिदुष्कर्म कुर्वाणो
मन्मथसमानस्य भवतो लावण्यात्तचित्तां मामेकदा विलोक्य कन्यादूषण-
दोषं दूरीकृत्य बलात्कारेण रन्तुमुद्युङ्क्ते । तच्चिन्तया दैन्यमगच्छम्' इति ।
( १६ ) रहस्ये गोप्यविषये संजात उत्पन्नो विश्रम्भो विश्वासो यस्यास्तस्या
भावस्तया । वार्धकस्य वृद्धावस्थायाः जराया इति यावत् । प्रबलतया आधिक्येन ।
सप्त सागराः समुद्राः पर्यन्तः सीमान्तो यस्य तत् । महीमण्डलमित्यस्य विशेषणम् ।
निजपैतृष्वस्रेयौ-पितृस्वसुरपत्यं पुमानिति पैतृष्वस्रेयः, पितृभगिन्यास्तनयस्तौ ।
धरणीभरणे राज्यपालने । तपश्चरणाय तपस्यां कर्तुम् । राजराजगिरिं कैलासपर्वतं ।
राजराजः कुबेरस्तस्य गिरिः कैलासः । राजराजो धनाधिपः' इत्यमरः ।
( १७ ) असपत्नं निःशत्रुम् निष्कण्टकमिति यावत् । शासति पालयति सति ।
मातुलाग्रजन्मनोः दर्पसारचण्डवर्मणोः अतिक्रम्योल्लङ्घ्य । पारदार्यं परदाराभिमर्शः
परद्रव्यापहरणं चौर्यं ते आदी यस्य तत् । मन्मथसमानस्य कामसदृशस्य । लाव-
ण्येन सौन्दर्येणात्तं गृहीतं चित्तं हृदयं यस्यास्ताम् । कन्याया अपरिणीतायाः दूषणं
घर्षणादि तदेव दोषस्तम् । दूरीकृत्य परिहृत्य । उद्युङ्क्ते चेष्टते ।
( १६ ) निर्जन प्रदेश होनेसे उसे अवसर प्राप्त हो गया और उसने लज्जा एवं भय
छोड़कर धीरे-धीरे कहा—हे सौम्य ! मालवनाथ वृद्ध होनेके कारण राजपाटके कार्योंमें
असमर्थ हो गये थे और इन्होंने राज्यसिंहासनपर अपने पुत्र दर्पसारको उज्जैनमें राज्याभि-
षेक करके आसीन कर दिया । कुमार दर्पसार इस सप्त-सागरा वसुन्धरापर शासनके विचार
से अपने पिताकी बहन के दो धृष्ट पुत्रों ( चण्डवर्मा और दारुवर्मा ) को राज्य-शासन
का भार सौंपकर कैलास पर्वतपर तप करने चला गया है ।
(१७) शत्रुहीन समस्त राज्यका शासन करते हुए चण्डवर्मा सुखसे रहने लगा। दारुवर्मा
ममेरे भाई तथा अपने बड़े भाईकी आज्ञाओंका उल्लंघन करके परस्त्री अपहरण तथा परद्र-
व्याहरण करता हुआ उपद्रव मचाने लगा । कामदेवके समान सुन्दर आपपर अनुरक्ता
मुझे ज्ञातकर वह एक दिन मेरे साथ बलात्कार करनेका यत्न करने लगा-कन्यारमणके
पापका उसे ध्यानतक नहीं है । वह इस भयंकर पापको करनेपर उतारू होकर
व्यभिचार करना चाहता है । उसी चिन्तासे मैं त्रस्त हूँ ।

चतुर्थोच्छ्वासः ] व्याख्याद्वयोपेतम् । ७३
( १८ ) तस्या मनोगतम्, रागोद्रेकं मन्मनोरथसिद्धयन्तरायं च निश-
म्य बाष्पपूर्णलोचनां तामाश्वास्य दारुवर्मणो मरणोपायं च विचार्य वल्लभा-
मवोचम्-'तरुणि, भवदभिलाषिणं दुष्टहृदयमेनं निहन्तुं मृदुरुपायः कश्चि-
न्मया चिन्त्यते । यक्षः कश्चिदधिष्ठाय बालचन्द्रिकां निवसति । तदाकार-
संपदाशाभृङ्खलितहृदयो यः संबन्धयोग्यः साहसिको रतिमन्दिरे तं यक्षं
निर्जित्य तया एकसखीसमेतया मृगाक्ष्या संलापामृतसुखमनुभूय कुशली
निर्गमिष्यति, तेन चक्रवाकसंशायाकारपयोधरा विवाहनीयेति सिद्धेनैके-
नावादीति पुरजनस्य पुरतो भवदीयैः सत्यवाक्यैर्जनैरसकृत्कथनीयम् ।

( १८ ) तस्या बालचन्द्रिकायाः । मनोगतं अभिलाषम्। रागोद्रेकमनुरागातिरे-
कम् । मम मनोरथस्य सिद्धेरन्तरायं विघ्नंसर्वमेतन्निशम्येत्यस्य कर्म । बाष्पेति-साश्रु-
नयनामित्यर्थः । आश्वास्य सान्त्वयित्वा । वल्लभां प्रियां बालचन्द्रिकामिति यावत् ।
भवत्यास्तव अभिलाषिणमाकाङ्क्षिणम् । दुष्टंहृदयं यस्य तं दुर्जनमित्यर्थः। एनं
दारुवर्माणम् । मृदुः कोमलः । अधिष्ठाय आविश्य आक्रम्येत्यर्थः । तदाकारेति तस्या
बालचन्द्रिकायाः आकारसम्पदः सुन्दराकृतेराशया शृङ्खलितं बद्धं हृदयं यस्य सः ।
तद्रूपाकृष्टचित्त इत्यर्थः । सम्बन्धयोग्यः अनुरूपः । साहसिकः साहसं कर्तुं समर्थः ।
रतिमन्दिरे सुरतगृहे । निर्जित्य विजित्य । एकया एकमात्रया सख्या सहचर्या समे-
तया युक्तया । संलापामृतसुखं आलापजनितानन्दम् । कुशली अक्षतशरीरः । तेन
तादृशेन पुरुषेण । चक्रवाकस्य संशयः सन्देहो यस्मिन् तादृश आकारः स्वरूपं ययो-
स्तादृशौ पयोधरौ कुचौ यस्याः सा । विवाहनीया परिणेया । इति इत्थम् । पुरज-
नस्य पुरतः-नागरिकान् प्रति । भवदीयैः भवत्पक्षीयैः । सत्यवाक्यैः प्रामाणिकैः ।

( १८ ) उस अंगनाके मनोगत भावोंको जानकर तथा अपने ऊपर उसका प्रगाढ़ानुराग
ज्ञातकर एवं अपने मनोरथमें दारुवर्माको विघ्नभूत जानकर मैंने उस दारुवर्माको मार डालने-
की युक्ति सोची और अपनी वल्लभाको आश्वासन देकर कहा—हे तरुणि ! तुम्हें बलात्
चाहने वाले उस दुष्ट दारुवर्माकी हत्याके लिए मैं कोई सरल उपाय सोच रहा हूं । अब तुम
आज जाकर लोगोंसे यह कह दो कि मुझे सिद्ध तपस्वीने बताया है कि बालचन्द्रिका के
ऊपर कोई प्रेत रहता है । उसके लावण्य पर मुग्ध होकर जो कोई साहसी पुरुष उसके साथ
रमणकी इच्छा रखता हो उसे चाहिये कि वह अपनी योग्यताका परिचय उसके रतिमन्दिर
में जाकर देवे । रतिमन्दिरमें प्रेतको जीतकर तथा सखीके साथ बैठी हुई उस सुन्दरीके साथ
वार्तालाप करके जो कुशलतासे निवृत्त होकर आवेगा उसीके साथ चक्रवाकके समान स्तन-
धारिणी बालचन्द्रिकाका विवाह होगा । अनेक बार नगरमें इस बातकी प्रसिद्धि कर देनी