दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 73, कुल 474 में से
संदर्भ में पढ़ेंचतुर्थोच्छ्वासः ] व्याख्याद्वयोपेतम् । ७३
( १८ ) तस्या मनोगतम्, रागोद्रेकं मन्मनोरथसिद्धयन्तरायं च निश-
म्य बाष्पपूर्णलोचनां तामाश्वास्य दारुवर्मणो मरणोपायं च विचार्य वल्लभा-
मवोचम्-'तरुणि, भवदभिलाषिणं दुष्टहृदयमेनं निहन्तुं मृदुरुपायः कश्चि-
न्मया चिन्त्यते । यक्षः कश्चिदधिष्ठाय बालचन्द्रिकां निवसति । तदाकार-
संपदाशाभृङ्खलितहृदयो यः संबन्धयोग्यः साहसिको रतिमन्दिरे तं यक्षं
निर्जित्य तया एकसखीसमेतया मृगाक्ष्या संलापामृतसुखमनुभूय कुशली
निर्गमिष्यति, तेन चक्रवाकसंशायाकारपयोधरा विवाहनीयेति सिद्धेनैके-
नावादीति पुरजनस्य पुरतो भवदीयैः सत्यवाक्यैर्जनैरसकृत्कथनीयम् ।
( १८ ) तस्या बालचन्द्रिकायाः । मनोगतं अभिलाषम्। रागोद्रेकमनुरागातिरे-
कम् । मम मनोरथस्य सिद्धेरन्तरायं विघ्नंसर्वमेतन्निशम्येत्यस्य कर्म । बाष्पेति-साश्रु-
नयनामित्यर्थः । आश्वास्य सान्त्वयित्वा । वल्लभां प्रियां बालचन्द्रिकामिति यावत् ।
भवत्यास्तव अभिलाषिणमाकाङ्क्षिणम् । दुष्टंहृदयं यस्य तं दुर्जनमित्यर्थः। एनं
दारुवर्माणम् । मृदुः कोमलः । अधिष्ठाय आविश्य आक्रम्येत्यर्थः । तदाकारेति तस्या
बालचन्द्रिकायाः आकारसम्पदः सुन्दराकृतेराशया शृङ्खलितं बद्धं हृदयं यस्य सः ।
तद्रूपाकृष्टचित्त इत्यर्थः । सम्बन्धयोग्यः अनुरूपः । साहसिकः साहसं कर्तुं समर्थः ।
रतिमन्दिरे सुरतगृहे । निर्जित्य विजित्य । एकया एकमात्रया सख्या सहचर्या समे-
तया युक्तया । संलापामृतसुखं आलापजनितानन्दम् । कुशली अक्षतशरीरः । तेन
तादृशेन पुरुषेण । चक्रवाकस्य संशयः सन्देहो यस्मिन् तादृश आकारः स्वरूपं ययो-
स्तादृशौ पयोधरौ कुचौ यस्याः सा । विवाहनीया परिणेया । इति इत्थम् । पुरज-
नस्य पुरतः-नागरिकान् प्रति । भवदीयैः भवत्पक्षीयैः । सत्यवाक्यैः प्रामाणिकैः ।
( १८ ) उस अंगनाके मनोगत भावोंको जानकर तथा अपने ऊपर उसका प्रगाढ़ानुराग
ज्ञातकर एवं अपने मनोरथमें दारुवर्माको विघ्नभूत जानकर मैंने उस दारुवर्माको मार डालने-
की युक्ति सोची और अपनी वल्लभाको आश्वासन देकर कहा—हे तरुणि ! तुम्हें बलात्
चाहने वाले उस दुष्ट दारुवर्माकी हत्याके लिए मैं कोई सरल उपाय सोच रहा हूं । अब तुम
आज जाकर लोगोंसे यह कह दो कि मुझे सिद्ध तपस्वीने बताया है कि बालचन्द्रिका के
ऊपर कोई प्रेत रहता है । उसके लावण्य पर मुग्ध होकर जो कोई साहसी पुरुष उसके साथ
रमणकी इच्छा रखता हो उसे चाहिये कि वह अपनी योग्यताका परिचय उसके रतिमन्दिर
में जाकर देवे । रतिमन्दिरमें प्रेतको जीतकर तथा सखीके साथ बैठी हुई उस सुन्दरीके साथ
वार्तालाप करके जो कुशलतासे निवृत्त होकर आवेगा उसीके साथ चक्रवाकके समान स्तन-
धारिणी बालचन्द्रिकाका विवाह होगा । अनेक बार नगरमें इस बातकी प्रसिद्धि कर देनी