सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

४१० दशकुमारचरितम् । [ उत्तरपीठिकायां

४१० दशकुमारचरितम् । [ उत्तरपीठिकायां
चेता जात इति । तस्य तत्कौशलं स्मितज्योत्स्नाभिषिक्तदन्तच्छदः सह
सुहृद्भिरभिनन्द्यचित्रमिदं महामुनेर्वृत्तम् । अत्रैव खलु फलितमतिकष्टं
तपः । तिष्ठतु तावन्नर्म । हर्षप्रकर्षस्पृशोः प्रज्ञासत्त्वयोर्दृष्टमिह स्वरूपम् ।
इत्याभिधाय पुनः अवतरतु भवान् इति बहुश्रुते विश्रुते विकचराजीवसदृशं
दृशं चिक्षेप देवो राजवाहनः ।
इति मन्त्रगुप्तचरितं नाम सप्तम उच्छ्वासः ।
(२२) तस्य मन्त्रगुप्तस्य । तत् पूर्ववर्णितम् । कौशलं नैपुण्यम् । अभि-
नन्द्येत्यस्य कर्म । स्मितेति-स्मितस्य मन्दहासस्य ज्योत्स्नया किरणेन अभिषिक्तौ
अनुलिप्तौ दन्तच्छदौ ओष्ठाधरौ यस्य तादृश इति राजवाहन इत्यग्रिमेणान्वयः ।
चित्रं-विस्मयकरम् । महामुनेः महातापसस्य तापसवेषधारिणो मन्त्रगुप्तस्ये-
त्यर्थः । वृत्तं चरित्रम् । अत्रैव इह जन्मन्येव । फलितं सिद्धम् । अतिकष्टं-कष्ट-
साध्यं । नर्म परिहासवाक्यम् । एतावद् यदुक्तं राजवाहनेन तत्त परिहाससूचकमेव
साम्प्रतं परिहासं विहाय तत्त्वमेवोच्यते इत्यत्र तात्पर्यम् । हर्षप्रकर्षेति हर्षस्यान-
न्दस्य प्रकर्षमाधिक्यं स्पृशतः इति तयोः-समधिकानन्दजनकयोः । प्रज्ञासत्त्वयोः
बुद्धिबलयोः । स्वरूपम् तत्त्वम् । अवतरतु-स्वचरितवर्णनमारभताम् इत्यर्थः।
बहुश्रुते-बहु नानाशास्त्रं श्रुतमधीतं येन तस्मिन् । विश्रुते तन्नामधेये कुमारे,
तदुपरीत्यर्थः । विकचं प्रफुल्लं यद् राजीवं कमलं तत्-सदृशं तत्तुल्यां दृशं नयनं
चिक्षेप निदधौ । अत्र तस्येत्यारभ्य राजवाहन इत्यन्तं वर्णनं कविनेव कृतमतो-
ऽत्र ओष्ठ्यवर्णप्रयोगो न वैरस्यमावहतीति सहृदयैर्बोध्यम् ।
इति बालविबोधिनी व्याख्यायां सप्तम उच्छ्वासः ।
सहायताके लिए संग्राम के प्रभूत साधनों (सैन्यादिकों) के सहित यहांपर आया ।
यहांपर मित्रोंसहित आपका दर्शन पाकर आनन्दराशिस मेरा मन पुलकित हो गया ।
(२२) कुमार मन्त्रगुप्तके इस वृत्तको सुनकर सुहृदोंके साथ राजवाहनने मुस्कुराते
हुए चन्द्रिकासे अभिषिक्त अधरोद्वारा उस मन्त्रगुप्तका अभिवादन किया और कहा-'इस
महामुनिका चरितवृत्त विचित्र है। अति कठिन तपका फल आपको इसी जीवनमें
उपलब्ध हो गया। अब परिहास त्याग दिया जाय। आनन्दके आधिक्यको स्पर्शित
करनेवाला आपके बुद्धिवलका स्वरूप इस वृत्तमें देखा गया। वस्तु...। ऐसी बातें
कह कर अपने विकसित पद्म के सदृश नेत्र को विक्षेपित कर देव राजवाहनने नानाशास्त्र
निष्णात विश्रुतसे अपने चरितको प्रारम्भ करनेके लिये कहा।
इस प्रकार सप्तम उच्छ्वासकी बालक्रोड़ा नामक हिन्दी टीका समाप्त हुई ।

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
॥ श्रीः ॥
दशकुमारचरितम्
अष्टमोच्छ्वासः
( १ ) अथ सोऽप्याचचक्षे—'देव, मयापि परिभ्रमता विन्ध्याटव्यां
कोऽपि कुमारः क्षुधा तृषा च क्लिश्यन्नक्लेशाहैः क्वचित्कूपाभ्याशेऽष्टवर्षदे-
शीयो दृष्टः । स च त्रासगद्गदमगदत्—'महाभाग, क्लिष्टस्य मे क्रियता-
मार्य, साहाय्यकम् । अस्य मे प्राणापहारिणीं पिपासां प्रतिकर्तुमुदकमु-
दद्धन्निह कूपे कोऽपि निष्कलो ममैकशरणभूतः पतितः । तमलमस्मि
नाहमुद्धर्तुम्' इति ।
( २ ) अथाहमभ्येत्य व्रतत्या कयापि वृद्धमुत्तार्य, तं च बालं वंश
( १ ) अथ मन्त्रगुप्तकथनानन्तरम् । स विश्रुतनामा कुमारः । विन्ध्याटव्यां
विन्ध्यारण्ये । कोऽपि अज्ञातकुलनामा । अक्लेशाहैः क्लेशसहनयोग्यो नेत्यर्थः ।
कूपाभ्याशे जलाशयसमीपे । अष्टवर्षदेशीयः असमाप्ताष्टवर्षः । सः बालकः । त्रास-
गद्गदं भयविह्वलं यथा तथा । क्लिष्टस्य क्लेशयुक्तस्य । आर्य पूज्य । साहाय्यकं-
स्वार्थे कः । प्राणापहारिणीं जीवितनाशिनीम् । प्रतिकर्तुम् अपनोदयितुम् । उदद्धन्
निष्कासयन् । निष्कलो वृद्धः । ममैकशरणभूतो मदवलम्बनभूतः । तं कूपपतितं
वृद्धम् । अलं समर्थः । उद्धर्तुं कूपात्निष्कासयितुम् । इत्यन्तम् अगददित्यस्य कर्म ।
( २ ) अथ तच्छ्रवणानन्तरम् । अभ्येत्य समीपमागत्य । व्रतत्या लतया,
( १ ) इसके पश्चात् विश्रुतने कहा—हे देव ! विन्ध्याटवीमें इतस्ततः भ्रमण करते हुए
मैंने सहसा एक कूपके समीप आठ बरसके बालकको देखा । क्लेशोंको सहन करनेमें
अशक्त वह मृदु बालक भूख-प्याससे पीड़ित हो रहा था। मुझे देखकर उसने भयान्रित
होकर गद्गद स्वरसे कहा—हे महाभाग ! इस समय मैं बड़ी आपत्तिमें हूँ । आप मेरी
सहायता करें । मुझे प्राणापहारिणी पिपासा सता रही है, उसीके निवृत्त्यर्थ मैं इस कूपपर
आया तो पानी निकालनेके समय मेरे साथका एक वृद्ध इसमें गिर पड़ा । मेरे अतिरिक्त
उसका कोई सहायक भी नहीं है और मुझमें इतना पौरुष नहीं कि मैं उसे खींचकर कूपके
बाहर निकाल सकूं ।
( २ ) तदनन्तर मैंने कुछ लताओंको एकत्र करके उनकी सहायतासे उस बूढ़ेको
२७ द० कु० उ०
Nepal Sanskrit University, Balmeeki Campus, Kathmandu