सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

४०० दशकुमारचरितम्। [ उत्तरपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
४०० दशकुमारचरितम्। [ उत्तरपीठिकायां

लसानां हस्ते नित्यसांनिध्यानि । यतस्ते साधीयसा सच्चरितेतानाकलि-
तकलङ्केनार्चितेनात्यादररचितेनाकृष्टचेतसा जनेनानेन सरस्तथा संस्कृ-
तम्, यथेह तेऽद्य सिद्धिः स्यात् ।
( १६ ) तदेतस्यां निशि गलदर्धायां गाहनीयम् । गाहनानन्तरं च
सलिलतले सततगतीनन्तःसंचारिणः संनिगृह्य यथाशक्ति शय्या कार्या;
ततश्च तटस्खलितजलस्थगितजलजषण्डचलितदण्डकण्टकाग्रदलितदेह-
राजहंसत्रासजर्जररसितसंदत्तकर्णस्य जनस्य क्षणादाकर्णनीयं जनिष्यते

उद्यमवतां हस्ते पाणौ नित्यसांनिध्यानि नित्यं सान्निध्यं येषां तानीति विग्रहः ।
सदा सन्निहितानि भवन्तीति शेषः । ते तव । साधीयसा साधुतरेण सच्चरितेन
सदाचरणेन । अनाकलितकलङ्केन पापस्पर्शरहितेन—सच्चरितेनेत्यस्य विशेषण-
मेतत् । अत्यादररचितेन श्रद्धातिशयकृतेन । अर्चितेन-मम सत्कारेण । आकृष्टमा-
वर्जितं चेतो यस्य तादृशेन अनेन जनेन-मया । सरः सरोवरम् । तथा तेन रूपेण ।
संस्कृतं-मन्त्रादिना शुद्धीकृतम् । यथा येन रूपेण । सिद्धिः अभीष्टलाभः ।
( १६ ) तत् तस्मात् । एतस्यां अद्यतन्याम् । निशि-रजन्याम् । गलदर्धायां
गलदधं यस्यास्तस्यां-निशीथावसानायाम् । गाहनीयं प्रवेष्टव्यम् । सलिलतलेः
जलमध्ये अन्तःसञ्चारिणः शरीरान्तःस्थितान् सततगतीन् वायून् प्राणानिति
यावत् । सन्निगृह्य कुम्भकेन सन्निरोध्य । यथाशक्ति-शक्त्यनुसारेण तदा यावती
शक्तिस्तिष्ठेत्तदनुसारेणेति भावः । शय्या कार्या-शयनं करणीयं त्वयेति शेषः ।
ततेति—तटात्तीरदेशात् स्खलितं पतितं यजलं तेन स्थगितमाच्छादितं यज्जलजषण्डं
पद्मसमूहस्तस्य चलितं कम्पितं यहण्डं नालं तस्य कण्टकाग्रेण कण्टकशिखया
दलितं विद्धं देहं शरीरं यस्य तथाभूतस्य राजहंसस्य त्रासजर्जरे अयमन्दे रसिते

जो मेरी अति आदरके साथ पूजाकी है उससे आसक्त होकर मैने इस तालाबको ऐसा
सुसंस्कृत कर दिया है कि, जिस कारण आज ही आपकी सिद्धि हो जायगी ।
( १६ ) अतः आज ही आधी रातमें इस तालाबमें प्रवेश करना चाहिये ( आपको )।
फिर उस तालाबमें प्रागादि वायुका निरोध करके पानीके नीचेभागवाली भूमिपर
यथाशक्ति शयन कीजिये । तब तीरदेशके संलग्न जलसे आच्छादित होनेपर क्रान्त-
कमलसमुदायके चपल नालके ( कमलनाल ) कण्टकाग्रभागोंसे विदलित शरीरवाले
राजहंसोंके भयसे अत्यन्त मन्दध्वनिमें कानोंको लगानेवाले किसी व्यक्तिकी, एक क्षणमें,
श्रवणीय जलसमूहकी ईषत् ध्वनि सुनायी पड़ेगी । ततः उस ध्वनिके निवृत्त हो जानेपर

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
सप्तमोच्छ्वासः ] बालबोधिनीव्याख्यासहितम् । ४०१
जलसंघातस्य किंचिदारटितम् । शान्ते च तत्र सलिलरटिते क्लिन्नगात्रः
किञ्चिदारक्तदृष्टिर्येनाकारेण निर्यास्यति निचाय्य तं निखिलजननेत्रानन्द-
कारिणं न यक्षः शक्ष्यत्यग्रतः स्थितये । स्थिरतरनिहितस्नेहशृङ्खलानिग-
डितं च कन्यकाहृदयं क्षणेनैकेनासहनीयदर्शनान्तरायं स्यात् । अस्याश्च
धराङ्गनाया नात्यादृतनिराकृतारिचक्रं चक्रं करतलगतं चिन्तनीयं न तत्र
रटिते दत्तौ अर्पितौ कर्णौ येन तादृशस्य जनस्य पुरुषस्य । कर्णीयं श्रवणीयं
आरटितमित्यस्य विशेषणम् । जनिष्यते उत्पत्स्यते । जलसङ्घातस्य जलसमूहस्य
किञ्चित् स्वल्पम् । आरटितं ध्वनिः। येन जनेन प्राक् त्रासमन्दरसितराजहंस-
ध्वनिः आकर्णितः स एवानायासेन जलसंघातस्यारटितमपि श्रोतुमर्हति नान्यः
द्वयोः सादृश्यात् । जलसंघातध्वनिः त्रासजर्जरहंसध्वनितुल्य इति फलितमिति
भावः । शान्ते निवृत्ते । तत्र तस्मिन् पूर्वोक्ते जलशब्दे । क्लिन्नगात्रः जलार्द्र-
शरीरः । किञ्चिदारक्तेति-किञ्चित्स्वल्पं आरक्ता ईषल्लोहितवर्णा दृष्टिर्नयनं यस्य
सः । येन आकारेण-यत् स्वरूपमादायेत्यर्थः । निर्यास्यति-जलादुत्थास्यति । नि-
चाय्येत्यादि-निखिलजनानां नेत्रयोरानन्दकारिणं आनन्दजनकं तं आकारं
निचाय्य दृष्ट्वा । यक्षः कन्याधिष्ठितः अग्रतः स्थितये सम्मुखे स्थातुं न शक्ष्यति ।
स्थिरतरेति-स्थिरतरमचञ्चलं यथा तथा निहितः अर्पितो यः स्नेहः स एव शृङ्खला
तया निगडितं बद्धम् । कन्यकाहृदयं कनकलेखाया मनः । असहनीयेति--असह
नीयः सोढुमशक्यः दर्शनस्य तव विलोकनस्य अन्तरायो विघ्नो यस्य येन वेति
तदिति हृदयविशेषणम् । सा खलु कन्या क्षणमपि तव विरहं सोढुमसमर्था भवि-
ष्यतीति भावः । धराङ्गनायाः पृथ्वोरूपकामिन्याः । चक्रं मण्डलं किम्भूतमित्याह-
नात्याहतेति-नात्याहृतं नातिप्रयासं यथा तथा निराकृतं पराजितं अरिचक्रं
शत्रुमण्डलं यस्य तत् । करतलगतं तव हस्तस्थितं चिन्तनीयं मन्तव्यं त्वयेति
शेषः । तत्-यन्मया कथितम् । इच्छसि चेत्-कर्तुं अभिलषसि यदि । अनेकेति
उस जलमेंसे एक भीगा शरीरवाला तथा कुछ लाल आंखोंवाला व्यक्ति जलसे बाहर
निकलेगा । सम्पूर्ण मनुष्योंके नेत्रोंको आनन्ददायक उस व्यक्तिको साक्षात् देखकर कन्याके
ऊपर जो यक्ष है वह ठहर नहीं सकता है-भाग जायगा । गम्भीर भावसे प्रेमरूपी
जंजीरोंद्वारा आबद्ध उस राजपुत्रीका चित्त आपको एक क्षण भी न देखनेसे दुःखी
होगा । इस भूमिरूपी अंगनाकी उपलब्धि भी आपको बिना परिश्रमके हो जायगी ।
सभी शत्रुमण्डलसे रहिता इस पृथ्वीचक्रका राज्य भी आपको हस्तगत हो जायगा । अगर
आपको उपर्युक्त लाभकी अभिलाषा हो, तो, अनेक शास्त्रवेत्ताओंसे, जिनकी बुद्धि शास्त्र-
ज्ञानसे गम्भीर हो गयी हो, मन्त्रिगणोंसे, हितूजनोंसे, अन्य पौरवृद्धों आदिसे विचार

Nepal Sanskrit University, Balmeeki Campus, Kathmandu