दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
३८४ दशकुमारचरितम् । [ उत्तरपीठिकायां
३८४ दशकुमारचरितम् । [ उत्तरपीठिकायां
ताङ्गयष्टिरक्लेशाहा॑ सत्यनेनाकृत्यकारिणात्यर्थक्लेशिता, तन्नयैनां निज-
निलयम् । नान्यदितः किंचिदस्ति चित्ताराधनं नः' इति ।
( ५ ) अथ तदाकर्ण्य कर्णशेखरनिलीननीलनीरजयितां धीरतरल-
तारकां दृशं तिर्यकिंचिदञ्चितां संचारयन्ती, सलिलचरकेतनशरासनानतां
चिल्लिकालतां ललाटरङ्गस्थलीनतँकीं लीलालसं लालयन्ती, कण्टकितरक्त-
गण्डलेखा, रागलज्जान्तरालचारिणी, चरणाग्रेण तिरश्चीनखार्चिश्चन्द्रि-
केण धरणितल साचीकृताननसरसिजं लिखन्ती,
कारकरणं न नेच्छसि अपि तु अवश्यमिच्छसि तदा सेयं राजकन्या सन्नताङ्गयष्टिः
यौवनभरेण नम्रदेह्रल्लतिका अक्लेशाह्य॑ क्लेशसहनायोग्या अनेन तापसवेशधारिणा
दुष्टेन अकृत्यकारिणा दुष्टकर्मणा क्लेशिता आयासिता तत्तस्मात् नय प्रापय एनां
राजकन्यां निजनिलयं स्वगृहम् । अन्यदपरम् । इतः अस्मात् राजकन्यायाः स्व
गृहप्रेषणात् । चित्ताराधनं मनःसन्तोषकरम् । नः अस्माकम् ।
( ५ ) कर्णशेखरेति—कर्णशेखरे कर्णाग्रभागे निलीनं निविष्टं यत् नील-
नीरजं नीलकमलं तद्वदाचरति या ताम् तथा धीरतरला ईषच्चञ्चला तारका कनी-
निका यस्यां ताम् एवम्भूतां दृशं नयनम् पुनः कथम्भूतां तिर्यक् किञ्चिदञ्चितां-
तिर्यक् वक्रं यथा किञ्चिदीषत् अञ्चितां चलिताम् । सञ्चारयन्ती इतस्ततो भ्रम-
यन्ती। सलिलेति सलिलचरो मीनः केतनं ध्वजो यस्य मदनस्य शरासनं धनु-
स्तदिव आनतां कुटिलाम् चिल्लिकालतां भ्रूवल्लीं ललाटमेव रङ्गस्थलं नृत्यशाला
यस्य नर्त्तकीमित्यपि चिल्लिकालताविशेषणम् । लीलालसं विलासमन्दं यथा तथा ।
लालयन्ती चालयन्ती । कण्टकितेति-कण्टकिता सञ्जातारोमाञ्चा रक्ता च गण्ड-
लेखा कपोलपाली यस्याः सा । रागेति-रागोऽनुरागः लज्जा त्रपा च तयोरन्त-
रालचारिणी मध्यवर्त्तिनी; इच्छा वर्त्तते किन्तु लज्जा तां प्रतिबध्नातीति भावः।
तिरश्चीनेति-तिरश्चीनाः वक्राकारा नखानामार्चिषः किरणा एव चन्द्रिका यत्र तेन
चरणाग्रेणेत्यस्य विशेषणं । साचीति साचीकृतं वक्रीकृतं आननसरसिजं मुखकमलं
यत्रैतादृशं धरणितलं लिखन्ती कुट्टयन्ती ।
बहुत क्लेशित की गया है, अपने (राजकन्याके) घर पर पहुँचा दी । इससे बढ़कर
मेरे मनको सन्तोष देनेवाला कोई कार्य नहीं है ।'
( ५ ) ऐसी वाक्यावली सुननेके पश्चात्—कानोंके अग्रभागमें संनिविष्ट नीलकमलके
सदृश बड़ी तथा ईषत् चंचल तारकावाली आंखोंको कुछ टेढ़ी-मेढ़ी इधर-उधर
घुमाती हुई मकरध्वजके धनुषके तुल्य कुछ कुटिल भ्रूलताओं को ललाटरूपी नृत्यशालाकी
नर्त्तकी बनाती हुई, उस नर्त्तकी द्वारा मन्द विलास करवाती हुई, रोमाञ्चित रक्त कपोल-
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
सप्तमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३८५
( ६ ) दन्तच्छदकिसलयलङ्घनाहर्षास्रसलिलधाराशीकरकणजाल-
क्लेदितस्य स्तनतटचन्दनस्यार्द्रतां निरस्यतास्यान्तरालनिःसृतेन तनीय-
सानिलेन हृदयलक्ष्यदलनदक्षिणरतिसहचरशरस्यदायितेन तरङ्गितदशन-
चन्द्रिकाणि कानिचिदेतान्यक्षराणि कलकण्ठीक्लान्ससृजत्—'आर्य, केन
कारणेनैनं दासजनं कालहस्तादाच्छिद्यानन्तरं रागानिलचालितरणणि-
कातरङ्गिण्यनङ्गसागरे किरसि । यथा ते चरणसरसिजरजःकणिका तथाहं-
( ६ ) दन्तच्छुदेति-दन्तच्छदः अधरः स एव किसलयस्तं लंघयति कम्पय-
त्येवंशीलेन ओष्ठाधरकम्पिनेति यावत् । एतत्तु अनिलेनेत्यस्य विशेषणमेवमग्रे-
ऽपि । हर्षास्रेति-हर्षेण निर्गता या अस्रसलिलधारा अश्रुजलपरम्परा तस्याः शीक-
रकणजालेन बिन्दुलवनावहेन क्लेदितस्यार्द्रीकृतस्य-एतादृशस्य स्तनतटचन्दनस्य
वक्षःस्थितचन्दनलेपस्य आर्द्रतां सरसतां निरस्यता अपनयता तथा आस्या-
न्तरालनिःसृतेन मुखविवरनिर्गतेन तथा तनीयसा मृदुना । मुखनिःसृतेन अत
एवोष्णेन मन्दसमीरेण हृदयचन्दनलेपः शुष्कतां गत इति भावः । पुनः कीदृशेन ?
हृदयेति-हृदयं कामिजनचित्तमेव लक्ष्यं वेध्यं तस्य दलने भेदने दक्षिणो दक्षः
पटुर्वा यो रतिसहचरः कामस्तस्य शरस्यदो बाणवेगस्तद्वदाचरितेन-एतदपि
अनिलविशेषणम् । तरङ्गितेति-तरङ्गिता स्फुरिता दशनानां दन्तानां चन्द्रिका
ज्योत्स्ना यैस्तादृशानि । एतानि वक्ष्यमाणानि । कलकण्ठीति-कलकण्ठो कोकिला
तस्या इव कलानि मधुराणि अक्षराणीत्यस्य विशेषणम् । असृजत् उच्चारितवती ।
आर्य पूज्य । एनं दासजनं मामित्यर्थः । कालहस्तात् मृत्युकरात् । आच्छिद्य अप-
कृप्य । रागेति रागोऽनुरागः स एवानिलो वायुस्तेन चालिताश्चञ्चलीकृताः रणर-
णिका उत्कण्ठा एव तरङ्गा विद्यन्ते यस्मिंस्तादृशि अनङ्गः काम एव सागरः समुद्र-
स्तस्मिन् । किरसि क्षिपसि । यथा यादृशी । ते तव । चरणसरसिजरजःकणिका
रेखा बनाती हुई, अनुराग और लज्जायुक्त दोनोंमें रहती हुई, वक्राकार नाखूनकी
ज्योति की चन्द्रिकावाले चरण की अंगुलिसे तथा अपने मुखकमलको नम्रकर भूमिपर
लिखती हुई,
( ६ ) हर्षके आंसुओंकी जलधाराके लव समुदायसे अभिषिक्त अधररूपी किसलयको
कंपाती हुई, अपने मुखविवरसे निकली हुई उष्ण मन्द पवनसे कुचों परके चन्दनके
लेपको सुखाती हुई, कामीजनोंके चित्तोंको लक्ष्य मानकर भेदन करनेमें प्रवीण कामदेवके
बाणके वेगके समान आचरण करती हुई, दांतोंकी ज्योत्स्नाकी स्फुरित करती हुई
निम्नांकित कुछ अक्षरोंको कोयलकी वाणीके समान मधुर कण्ठसे बोली—'हे आर्य !
Nepal Sanskrit University, Balmeeki Campus, Kathmandu