दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
३३६ दशकुमारचरितम् । [ उत्तरपीठिकायां
३३६ दशकुमारचरितम् । [ उत्तरपीठिकायां
रामेषु नाम्ने नाविकनायकाय कथितवन्तः-‘कोऽप्ययमायसनिगडबद्ध
एव जले लब्धः पुरुषः । सोऽयमपि सिञ्चेत्सहस्रं द्राक्षाणां क्षणेनैकेन'
इति अस्मिन्नेव क्षणे नैकनौकापरिवृतः कोऽपि मद्गुरभ्यधावत् । अबि-
भ्युर्यवनाः । तावदतिजवा नौकाः श्वान इव वराहमस्मत्पोतं पर्युरुत्सत् ।
प्रावर्तत संप्रहारः । पराजयिषत यवनाः । तानहमगतीनवसीदतः स-
माश्वास्यालपिषम्--‘अपनयत मे निगडबन्धनम् । अहमहमवसादयामि
वः सपत्नान्' इति ।
अमुत्र-अस्मिन् वहित्रे । आसन्-अतिष्ठन् । यवना म्लेच्छाः । ते यवनाः । उद्-
धृत्य जलादुत्थाप्य । नाविकनायकाय-नाविकाधिपतये । आयसनिगडबद्धः लौह-
शृङ्खलनियमितः । सोऽयं-पुरुषः । द्राक्षाणां मृद्वीकालतानां सहस्रं एकेन क्षणेन
सिञ्चेत् आर्दीकुर्यात् । अयं यावान् बलिष्ठो दृश्यते तथा तर्कयामः क्षणमात्रे-
णायं द्राक्षाणां सहस्रं सेक्तुं समर्थ इति भावः । अथवा-अस्य विनिमयेनास्मा-
भिर्दाक्षाणां सहस्रं लप्स्येतेति भावः । नैकनौकापरिवृतः-अनेकक्षुद्रतरणीवेष्टितः ।
मद्गुः युद्धपोतः । अबिभयुः भयं प्रापुः । ञिभी भये इत्यस्य भीधातोलंङि रूपम् ।
अतिजवाः वेगवत्यः । श्वानः कुक्कुराः । वराहं शूकरम् । कुक्कुरा यथा वराहं
रुन्धन्ति तद्वदित्यर्थः । अस्माकं पोतं वहित्रम् । पर्युरुत्सत् समन्तात् रुरुधुः ।
परिपूर्वकाद् रुधंधातोलुंङ् प्रावर्त्तत प्रारभत । सम्प्रहारो युद्धम् । पराजयिषत—
पराजिता अभूवन् । तान् यवनान् पराजीयमानानिति शेषः । अहं मित्रगुप्त
इत्यर्थः । अगतीन् अशरणान् अत एव अवसीदतः-नैराश्यं गतान् । आलपि-
षम् । अवोचम् । अपनयत-अपसारयत दूरीकुरुतेति यावत् । अवसादयामि-नाश-
यामि । सपत्नान् शत्रून् ।
उषाकालमें मुझे एक नाव ( नौका ) दिखायी दी । उस नावके ऊपर यवन लोग बैठे हुए
थे । उन यवनोंने मुझे जलसे बाहर निकालकर राम नामके नाविकोंके अधिपतिसे कहा—
'लोहेकी सिकड़ियोंसे परिवद्ध यह मनुष्य जलमें बह रहा था, इसको हम लोगोंने खींच
निकाला है । इसे इतनी शक्ति है कि यह एक ही क्षणमें हजार द्राक्षाकी लताओंको सींच
सकता है । उसी समय अनेक नावोंके साथ एक युद्धक नौका, जिसका नाम 'मद्गु'
था, अनेक योद्धाओंके सहित वहांपर आ गयी । उन योद्धाओंको देखकर वे सब यवन
भयान्वित हो गये । और उन वीर पुरुषोंसे युक्त नावोंने मेरी नावको ऐसे चारों ओरसे
घेर लिया जैसे शिकारी कुत्ते सूअरको घेर लिया करते हैं । संग्राम भी होने लगा ।
यवन लोग पराजित हो गये । नैराश्यको प्राप्त होनेवाले तथा शरणहीन उन यवनोंको
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
षष्ठोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३३७
(१७) अमी तथाकुर्वन्, सर्वांश्च तान्प्रतिभटानभङ्गवर्षिणा भीमटंकृ-
तेन शार्ङ्गेन लवलवीकृताङ्गानकार्षम् । अवप्लुत्य हतविध्वस्तयोधमस्म-
त्पोतसंसक्तपोतममुत्र नाविकनायकमनभिसरमभिपत्य जीवग्राहमग्रही-
षम् । असौ चासीत्स एव भीमधन्वा । तं चाहमवबुध्य जातव्रीडमब्रवम्-
‘तात, किं दृष्टानि कृतान्तविलसितानि’ इति ।
( १८ ) ते तु सांयात्रिका मदीयेनैव शृङ्खलेन तमतिगाढं बद्ध्वा
( १७ ) अमी यवनाः । तथा अकुर्वन्-मदुक्तमाचरितवन्तः मम बन्धनम-
पानयन्नित्यर्थः । तान् पूर्वोक्तान् । प्रतिभटान् प्रतियोद्धॄन् शत्रूनिति यावत् ।
भङ्गवर्षिणा-वाणवृष्टि कुर्वता । भीमटंकृतेन-भीमं भयङ्करं टङ्कृतं टङ्कारध्वनि-
र्यस्य तेन । विशेषणद्वयं शार्ङ्गेणेत्यस्य । शार्ङ्गेण धनुषा । लवलवीकृताङ्गानू-
खण्डखण्डीकृतदेहान् । अकार्षं कृतवानहमिति शेषः । अवप्लुत्य निपत्यं । हते-
ति-हता मारिता विध्वस्ताः पातिता योधा भटा यस्मिंस्तत् । अस्मदिति-अस्माकं
पोते वहित्रे संसक्तं लग्नं पोतं शत्रुपक्षीयं वहित्रम् । अवप्लुत्येत्यस्य कर्म । अमुत्र
पोते । अनभिसरमसहायम् । अभिपत्य आक्रम्य । जीवग्राहं जीवन्तमेव गृहीत्वे-
ति णमुल् । असौ नाविकनायकः । स एव पूर्वोक्त एव । अवबुध्य ज्ञात्वा । जात-
व्रीडं लज्जितम् । तातेति सोपहाससम्बोधनम् । कृतान्तविलसितानि-दैवचेष्टि-
तानि । कृतान्तो यमसिद्धान्त दैवाकुशलकर्मस्विव्यमरोक्तेः ।
( १८ ) सांयात्रिकाः पोतवणिजो यवनाः मदीयेनैव-येन शृङ्खलेन मामबध्नं-
मैंने आश्वासन देकर कहा—'मेरी लोहे की सिकड़ी काट दो । मैं आपके शत्रुओंका
विनाश कर दूँगा ।'
( १७ ) उन यवनोंने मुझे बन्धन रहित कर दिया । बन्धनहीन होकर मैंने उन
शत्रुओंके योद्धाओंपर घोर एवं भयंकर धनुष टंकारोंसे बाणवर्षा की और बाणों द्वारा
उनकी देह खण्ड-खण्ड कर डाली । जब शत्रुपक्षी योद्धागण आहत हो गये और उनकी
नाव मेरी नावके समीप आ गयी ( पास आकर युद्ध करने लगी ) तब मैं अपनी
नावसे उनकी नावपर कूद पड़ा तथा उनकी नावपर से नाविकोंके अधिपति को असहाय
करके जीवित पकड़कर ले आया । यह पकड़ा हुआ शत्रुनायक वही भीमधन्वा था
जिसने मुझे देखकर लज्जान्वित होकर कहा—'हे तात ! आपने दैवी विचित्रा
गतिको देखा ।'
( १८ ) नावपर के यवन व्यापारियोंने, मेरे ही बन्धनसे मुक्त लौह श्रृंखलासे उस
भीमधन्वाको बन्दी बना लिया और हर्षसे उल्लास ध्वनि करते हुए मेरी पूजा की ।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu