सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

३१४ दशकुमारचरितम् । [ उत्तरपीठिकायां

३१४ दशकुमारचरितम् । [ उत्तरपीठिकायां
नृपात्मजा तु मामितस्ततोऽन्विष्यानासादयन्ती 'तया विना न भोक्ष्ये'
इति रुदन्त्येवावरोधने स्थास्यति ।
(२४) तन्मूले च महति कोलाहले, क्रन्दत्सु परिजनेषु, रुदत्सु सखी-
जनेषु, शोचत्सु पौरजनेषु, किंकर्तव्यतामूढे सामात्ये पार्थिवे, त्वमास्था-
नीमेत्य मां स्थापयित्वा वक्ष्यसि - 'देव स एष मे जमाता तवार्हति श्री-
भुजाराधनम् । अधितीश्चतुर्ष्वाम्नायेषु, गृहीती षट्स्वङ्गेषु, आन्वीक्षिकीवि-
चक्षणः, चतुःषष्टिकलागमप्रयोगचतुरः, विशेषेण गजरथतुरङ्गतन्त्रवित् ,
परित्यक्तकन्यकावेषः । जामाता नाम-जामातेव । नृपात्मजा-राजकन्या । अन्विष्य-
अनुसन्धाय । अनासादयन्ती-अप्राप्नुवती । तया कन्यकया । भोक्ष्ये-भक्षयिष्या-
मि । अवरोधने-अन्तःपुरे ।
( २४ ) तन्मूले-तदेव कन्यान्तर्धानमेव मूलं निदानं यस्य तस्मिन् । कोला-
हले कलरवे । क्रन्दत्सु-विलपत्सु । परिजनेषु-सेवकवर्गेषु । सखीजनेषु-सहचरीषु ।
शोचत्सु-शोकं कुर्वत्सु । पौरजनेषु-नागरिकेषु । किंकर्त्तव्यतामूढे-अप्रतिपत्तिमूग्धे ।
सामात्ये-मन्त्रिसहिते । पार्थिवे-नृपे । त्वं वृद्धविट इत्यर्थः । आस्थानीं राजसभाम् ।
मां-जमातृवेषधारिणं प्रमत्तिम् । स्थापयित्वा-राज्ञः पुरतः संस्थाप्य । स एषः-यो
विद्यामध्येतुमज्जयिन्यां गत आसीत् । श्रीभुजाराधनम्-श्रीमद्भ्यां भुजाभ्यामा-
राधनं सत्कारम् । यतोऽयं सर्वशास्त्रनिष्post... सर्वशास्त्रनिष्post -> सर्वशास्त्रनिष्post... सर्वशास्त्रनिष्post... सर्वशास्त्रनिष्णातो मे जामाताऽतो भवत्सका-
शात्पूजामर्हतीति भावः । अधिती-अधीतवान्-कृतश्रम इत्यर्थः । आम्नायेषु-
वेदेषु- । गृहीती-कृतश्रमः । अङ्गेषु-शिक्षाकल्पादिषु । उभयत्र क्तस्येन्विषयस्य
कर्मण्युपसङ्ख्यानमिति सप्तमी । आन्वीक्षिकीविचक्षणः-तर्कविद्यानिष्post... तर्कविद्यानिष्णात: ।
चतुःषष्टीति-चतुष्षष्टिकलाः नृत्यादयस्तद्रूप आगमः शास्त्रं तस्य प्रयोगेऽनुष्ठाने
चतुरो दक्षः । गजरथेति-गजरथतुरङ्गशास्त्रज्ञः । इष्वसनास्त्रकर्मणि-इष्वसनं धनु-
पाकर खूब रोदन करेगा-तथा कहेगा कि 'मैं ब्राह्मणीकी पुत्रीके बिना भोजन नहीं करूंगी
एवं रोती हुई अन्तःपुरमें पड़ी रहेगी ।
( २४ ) 'ब्राह्मणपुत्री डूब गयी' ऐसा शोरगुल मचनेपर उस राजपुत्रीके परिजन
और सखियां सब रोती हुई क्रन्दन करेंगी । राजसचिवगण किंकर्तव्यविमूढ़ हो जायेंगे,
पुरवासी शोक करने लगेंगे । उसी समय आप मुझे राजसभामें उपस्थित करके
कहियेगा-'हे देव ! यह मेरा जामाता ( दामाद ) है । आपकी 'भुजाओं द्वारा इसका
स्वागत-सत्कार होना उचित है क्योंकि इसने चारों वेदोंका अध्ययन किया है । वेदके
छहों अङ्गोंको शिक्षा-कल्पादि यथाविधि पढ़ा है। तर्कविद्यामें निष्णात है । नृत्यादि

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
पञ्चमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३१५
इष्वसनास्त्रकर्मणि गदायुद्धे च निरुपमः, पुराणेतिहासकुशलः, कर्ता
काव्यनाटकाख्यायिकानाम्, वेत्ता सोपनिषदोऽर्थशास्त्रस्य, निर्मत्सरो
गुणेषु, विश्रम्भी सुहृत्सु, शक्लः, संविभागशीलः, श्रुतधरः, गतस्मयश्च ।
नास्य दोषमणीयांसमप्युपलभे । न च गुणेष्वविद्यमानम् । तन्मादृशस्य
ब्राह्मणमात्रस्य न लभ्य एष सम्बन्धी । दुहितरमस्मै समर्प्य वार्धकोचित-
मन्त्यमाश्रमं सङ्क्रमेयम् , यदि देवः साधु मन्यते' इति ।
(२५) स इदमाकर्ण्य वैवर्ण्याक्रान्तवक्त्रः परमुपेतो वैलक्ष्यमारप्स्य-
तेऽनुनेतुमनित्यतादिसङ्कीर्तनेनात्रभवन्तं मन्त्रिभिः सह । त्वं तु तेषामद-
स्तस्य तथा अस्त्राणां वाणादीनां कर्मणि प्रयोगे निरुपमः अद्वितीयः । कर्त्ता-रच-
यिता । वेत्ता-ज्ञाता । सोपनिषदः-सरहस्यस्य । अर्थशास्त्रस्य कामन्दकीया-
दिनीतिशास्त्रस्य । निर्मत्सरः-द्वेषरहितः । विश्रम्भी-विश्वासवान् । शक्लः प्रियं-
वदः । शक्लः प्रियंवदः प्रोक्त इति हलायुधः । संविभागशीलः-धनानां यथोचित-
विनियोगपटुः-सुविवेचको वा । श्रुतधरः-श्रवणमात्रेण शास्त्रार्थधारणसमर्थः ।
गतस्मयो निरहङ्कारः । अस्य जामातुः । अणीयांसं-लेशमात्रम् । उपलभे-पश्या-
मि । गुणेषु अविद्यमानं-गुणानां मध्ये अवर्त्तमानं कमपि गुणं नोपलभे इति
योजना । तत्-तस्मात् । ब्राह्मणमात्रस्य-धनादिरहितस्य अवशिष्टब्राह्मणस्य ।
एष-एतादृशः । सम्बन्धी-जामातः । वार्धकोचितं-वृद्धकालोचितम् । अन्त्यम्-
आश्रमम्-संन्यासम् । संक्रमेयम्-आश्रयेयम् । देवः भवान् । साधु-समीचीनम् ।
(२५) स राजा । इदं-वृद्धोक्तं वचनम् । वैवर्ण्येति तस्याः कन्याया अद-
र्शननिमित्तकेनानुतापेन यद्वैवर्ण्यं मालिन्यं तेनाक्रान्तं वक्त्रं मुखं यस्यासौ । पर-
चौसठ कलाओंमें दक्ष हैं । गजरथअश्वशास्त्रज्ञ हैं । धनुर्बाणविद्या तथा गदायुद्धमें प्रवीण
हैं । पुराण और इतिहासमें विचक्षण हैं । काव्य, नाटक और आख्यायिकाओंके रचयिता
हैं । उपनिषत्सहित अर्थशास्त्रके ज्ञाता हैं । द्वेषरहित गुणज्ञ हैं । मित्रोंमें विश्वास
रखनेवाले हैं । प्रियभाषी हैं । धन के व्ययमें यथोचित स्वभाववाले हैं । श्रवणमात्रसे
शास्त्रोंके अर्थको धारण करनेवाले हैं । निरहंकारी हैं । इस जामातामें लेशमात्र भी दुर्गुण
नहीं है । ऐसा कोई भी गुण नहीं है जो इनमें वर्त्तमान न हो । सर्वगुण-सम्पन्न हैं । मेरे
ऐसे ब्राह्मणमात्रके लिये ऐसा योग्य जामाता मिलना कठिन है । अतः ऐसे योग्य वरको
मैं अपनी कन्या समर्पण करके अपने वृद्धत्वकालमें संन्यास ग्रहण करना चाहता हूँ ।
देव ! यदि आपकी अनुमति हो ।
(२५) वह राजा ऐसा सुनकर मलिनमुख होकर विलक्षणता प्रकट करेगा । फिर
२१ द० कु० उ०
Nepal Sanskrit University, Balmeeki Campus, Kathmandu