दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
३१२ दशकुमारचरितम् । [ उत्तरपीठिकायां
३१२ दशकुमारचरितम् । [ उत्तरपीठिकायां
पाणिमस्या ग्राहयित्वा तस्मिन्न्यस्तभारः संन्यसिष्ये । दुरभिरक्षतया तु
दुहितॄणां मुक्तशैशवानाम् , विशेषतश्चामातृकाणाम् , इह देवं मातृपितृ-
स्थानीयं प्रजानामापन्नशरणमागतोऽस्मि ।
(२२) यदि वृद्धं ब्राह्मणमधीतिनमगतिमतिथिं च मामनुग्राह्यपक्षे
गणयत्यादिराजचरितधुर्यो देवः, सैषा भवद्भुजतरुच्छायामखण्डितचा-
रित्रा तावदध्यास्तां यावदस्याः पाणिग्राहक़मानयेयम्' इति । स एवमुक्तो
हेतुना । तं जामातरम् । अस्याः कन्यायाः पाणि ग्राहयित्वा विवाहं कारयित्वा ।
तस्मिन् जामातरि । न्यस्तभारः-दत्तरक्षणभारः संन्यसिष्ये संन्यासाश्रममाश्र-
यिष्ये अहमिति शेषः । मुक्तशैशवानां प्राप्तयौवनानां दुहितॄणां कन्यानां दुरभिरक्ष-
तया-अतिकष्टेन रक्षणीयतया । अमातृकाणां-जननीरहितानाम् । इह भवतः
समीपे । देवं भवन्तम् । किम्भूतं ? प्रजानां मातृपितृस्थानीय-येषां माता पिता च
नास्ति तेषां भवानेव माता पिता चेति भावः । पुनः किम्भूतम् ? आपन्नशरणं
विपन्नानां त्राता ।
(२२) अधीतिनं-कृतशास्त्राध्ययनम् । अगतिं निरुपायम् । अतिथिं गृहा-
गतम् । अनुग्राह्यपक्षे-अनुग्रहणीयकोटौ कृपास्थानीये इति यावत् । गणयति-
मन्यते । आदिराजानां मनुमान्धातृप्रभृतीनां यच्चरितं चरित्रं तस्य धुर्यो वाहकः ।
देवः भवान् । सा पूर्वोक्ता । एषा मम कन्या । अखण्डितचारित्रा अखण्डचरित्रा ।
भवदिति-भवतस्तव भुज एव तरुस्तस्यच्छायामाश्रयम् । तावत्-तावत्कालपर्यन्तं ।
अध्यास्तामधितिष्ठतु । यावत्-यावता कालेन । अस्याः कन्यायाः । पाणिग्राहकं
परिणेतारम् । आनयेयमानेष्यामीत्यर्थः । स राजा धर्मवर्धनः । उक्तो निवेदितो
उस ब्राह्मणकुमारका जाकर बुला लाऊं और इस कन्याको जो युवती हो गयी है उससे
विवाह दूँ । और तत्पश्चात् उसे यह कन्या सौंपकर मैं संन्यास ग्रहण करूं । मातृहीना
युवती पुत्री को रक्षा ऐसे समयमें असाध्य है । अत एव हे देव ! आप हीके समीप
इस समय इसकी रक्षा हो सकती है । क्योंकि जिसके माता-पिता नहीं होते तथा जो
दुखी होता है उसके राजा ही माता-पिता एवं त्रातास्वरूप हैं । इसीसे आपके समीप
आया हूँ ।
(२२) हे देव ! मनु-मान्धातादि राजाओंके चरित्रानुसारियोंमें अग्रणी ! यदि आप
मुझ पठित विप्रके प्रति कृपाकटाक्ष करें तो, इस कन्याको अपने भुजारूपी वृक्षके नीचे
आश्रय दें ताकि इस कन्याका चरित्र अखण्डित रहे । तबतक मैं इसके परिणेताको
यहाँपर बुला लाऊँ । ऐसी प्रार्थनापर वह राजा अवश्य मुझे अपनी राजकुमारीके साथ
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
नियतमभिमनायमानः स्वदुहितृसन्निधौ मां वासयिष्यति । गतस्तु
भवानागामिनि मासि फाल्गुने फल्गुनीषूत्तरासु राजान्तः पुरजनस्य
तीर्थयात्रोत्सवो भविष्यति । तीर्थस्थानात्प्राच्यां दिशि गोरुतान्तरमति-
क्रम्य, वानीरवलयमध्यवर्त्तिनि कार्तिकेयगृहे करतलगतेन शुक्लाम्बरयुग-
लेन स्थास्यसि ।
(२३) स खल्वहमनभिशङ्क एवैतावन्तं कालं सहाभिविहृत्य राज-
कन्यया भूयस्तस्मिन्नुत्सवे गङ्गाम्भसि विहरन्विहारव्याकुले कन्यका-
समाजे मग्नोपसृतस्तवद्भ्यास एवोन्मङ्क्ष्यामि । पुनस्तदुपहृते वाससी
परिधायापनीतदारिकावेषो जामाता नाम भूत्वा त्वामेवानुगच्छेयम् ।
भवतेति शेषः । नियतमवश्यम् । अभिमनायमानः अनुमोदमानः । स्वदुहितृ-
सन्निधौ-राजकन्यासमीपे । मां कन्यावेषधारिणं प्रमतिरित्यर्थः। वासयिष्यति-
स्थापयिष्यति । फल्गुनीषु उत्तरासु-उत्तरफल्गुनीनक्षत्रे । तीर्थस्थानात्-तीर्थक्षेत्रात्।
प्राच्यां पूर्वस्यां दिशि । गोरुतान्तरं-गवां शब्दो यावत्पर्यन्तं गच्छति तावत्परिमितं
स्थानं गोरुतान्तरं कथ्यते-तावत्परिमितं स्थानमतिक्रम्य अतीत्य किञ्चिद्दूरे
इत्यर्थः। वानीरवलयमध्यवर्त्तिनि-वेतसतरुमण्डलमध्यस्थिते करतलगतेन-हस्त-
स्थितेन ।
(२३) स खलु अहं-कन्यावेषधारी प्रमतिरित्यर्थः । अनभिशङ्कः-निर्भयः ।
एतावन्तं कालं-उत्सवसमयं यावत् । अभिविहृत्य-समन्ततः क्रीडित्वा । तस्मिन्-
पूर्वकथिते । विहारव्याकुले क्रीडानिरते । कन्यकासमाजे-कन्यावर्गे । मग्नोपसृतः-
जलमग्नः सन् उपसृतश्चलितः । त्वदभ्यासे-तव समीपे । उन्मङ्क्ष्यामि-जलादु-
त्थितो भविष्यामि । त्वदुपहृते त्वया दत्ते । वाससी वस्त्रे । अपनीतदारिकावेषः-
रहनेकी आज्ञा देगा । फिर आप मुझे वहां छोड़कर लौट आइएगा । ततः फाल्गुन
महीनेके उत्तराफाल्गुनी नक्षत्रको राजाके अन्तःपुरके सभी व्यक्ति तीर्थयात्राको जायेंगे।
उस तीर्थस्थानसे पूर्वकी ओर इतनी दूरपर जहां तक गोका शब्द सुनाई पड़े बेंतके लता-
मण्डपके मध्यमें कार्त्तिकेय मन्दिरमें दो सफेद वस्त्रोंके साथ ठहरे रहियेगा
(२३) मैं निश्शंक होकर राजकुमारीके साथ जलक्रीड़ा करता हुआ उस उत्सवमें
गङ्गामें पुनः डुबकी लगाऊंगा और जब कन्यकाजन जलविहार करती हुई डुबकियां लेती
रहेंगी तब मैं डुबकी मारकर आपके समीप निकल आऊँगा । वहांपर आपके दिये हुए कपड़े
पहनकर कन्यावेषको छोड़ दूंगा । मुझे जलमें डूबा हुआ जानकर सभी सखियाँ और
राजकुमारी दुःखी हो जायगी । राजपुत्री मुझे इधर-उधर खोजेगी और मेरा पतान