दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
३०४ | दशकुमारचरितम् । | [ उत्तरपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
३०४ | दशकुमारचरितम् । | [ उत्तरपीठिकायां
इति प्राञ्जलि मां भूयोभूयः परिष्वज्य शिरस्युपाघ्राय कपोलयोश्चुम्बित्वा
स्नेहविह्वला गतासीत् । अहं च पञ्चबाणवश्यः श्रावस्तीमभ्यवर्तिषि ।
(१४) मार्गे च महति निगमे नैगमानां ताम्रचूडयुद्धकोलाहलो महा-
नासीत् । अहं च तत्र सन्निहितः किञ्चिदस्मेषि । सन्निधिनिषण्णस्तु मे
वृद्धविटः कोऽपि ब्राह्मणः शनकैः स्मितहेतुमपृच्छत् । अब्रुवं च—'कथ-
मिव नारिकेलजातेः प्राच्यवाटकुक्कुटस्य प्रतीच्यवाटः पुरुषैरसमीक्ष्य ब-
लाकाजातिस्ताम्रचूडो बलप्रमाणाधिकस्यैव प्रतिविसृष्टः' इति । सोऽपि
त्यर्थः । उपसर्पेयं गच्छेयम् । प्राञ्जलिं-प्रणतम् । कपोलयोर्गण्डयोः । स्नेहवि-
ह्वला-वात्सल्यरसविष्टा । पञ्चबाणवश्यः कामपरतन्त्रः । अभ्यवर्त्तिषि-तदभिमुख-
मंगच्छम् ।
(१४) मार्गे-श्रावस्त्याः पथि । निगमे वणिजां ग्रामे । 'निगमो विजये वेदे
पुरे पथि वणिक्पथे' इति कोशः । नगमानां वणिजाम् । 'नैगमो वणिजो वणिक्'
इत्यमरः । ताम्रेति-ताम्रचूडानां कुक्कुटानां युद्धेन कोलाहलः कलरवः । सन्निहितः-
समीपवर्त्ती सन् । किञ्चिदीषत् । अस्मेषि स्मितमकरवम् । सन्निधिनिषण्णः समीपो-
पविष्टः । वृद्धविटः-स्थविरधूर्त्तः । शनकैः मन्दं मन्दम् । स्मितहेतुं हासकारणम् ।
अब्रुवमहमिति शेषः । नारिकेलजातेः-नारिकेलजातीयस्य । प्राच्यवाटकुक्कुटस्य
पूर्वदेशीयकुक्कुटस्य । प्रतीच्यवाटः-पश्चिमदेशीयः असमीक्ष्य-अविचार्य । वला-
काजातिः-बलाकाजातीयः । बलप्रमाणाधिकस्य बलेन शक्त्या प्रमाणेनाकारेण चा-
धिकस्य महतः । एवमनेन प्रकारेण । प्रतिविसृष्टः-युद्धार्थं प्रहितः । सोऽपि-वृद्ध-
समीप जा रही हूँ। ऐसा कह कर उस महिलाने मुझे बेर-बेर आलिङ्गित किया ।
फिर मेरे शिरको सूँघकर तथा गालोंको भी चूमा एवं स्नेहसे विह्वल होकर मुझसे विदा
ले ली । मैं भी कामपीड़ित हो गया था। अतः उस कुमारी नवमालिकाकी प्राप्तिके
लिये श्रावस्तीकी ओर चल पड़ा।
(१४) श्रावस्ती नगरीके मार्गमें एक जगह वणिकोंकी एक विशाल बस्ती थी ;
वहांपर वे सब एकत्र होकर कुक्कुटोंका (मुर्गोंका) युद्ध करा रहे थे । जिस कारण
अत्यन्त कलरव मचा हुआ था। मैं भी वहां गया और उस युद्धको देखकर कुछ
मुस्कुराने लगा । मेरे समीप बैठे हुए एक वृद्ध धूर्त्तने हँसनेका कारण धीरेसे पूछा।
मैंने उत्तर दिया कि पूर्वदेशीय नारिकेल जातिके कुक्कुटके साथ पश्चिमदेशीय बलाका
जातिके कुक्कुटका युद्ध कराना पुरुषोंकी अज्ञतामात्र है । क्योंकि इस पश्चिमदेशीय
कुक्कुटको पूर्वोंकी अपेक्षा बल अधिक होता है और आकार भी इसका बड़ा होता है
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
पञ्चमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३०५
तज्ज्ञः 'किमज्ञैरेभिर्व्युत्पादितैः । तूष्णीमास्व' इत्युपहस्तिकायास्ताम्बूलं
कर्पूरसहितमुद्धृत्य मह्यं दत्त्वा चित्राः कथाः कथयन्क्षणमतिष्ठत् । प्रायु-
ध्यत चातिसंरब्धमनुप्रहारप्रवृत्तस्वपक्षमुक्तकण्ठीरवरवं विहङ्गमद्वयम् ।
जितश्चासौ प्रतीचयवाटकुक्कुटः ।
( १५) सोऽपि विटः स्ववाटकुक्कुटविजयहृष्टः, मयि वयोविरुद्धं
सख्यमुपेत्य तदहरेव स्वगृहे स्नानभोजनादि कारयित्वोत्तरेद्युः श्रावस्तीं
प्रति यान्तं मामनुगम्य 'स्मर्तव्योऽस्मि सत्यर्थे' इति मित्रवद्विसृज्य
विटोऽपि । तज्ज्ञः-कुक्कुटविशेषज्ञः । किम्-किम्प्रयोजनम् । अज्ञैर्मूर्खैः । एभिः-
पुरुषैः । व्युत्पादितैर्विज्ञापितैः । तूष्णीम् आस्स्व-मौनमवलम्ब्य तिष्ठ । एते खलु-
पुरुषाः कुक्कुटानां जातिविभागं न जानन्ति अत एतेषु तज्ज्ञापनेन किमपि फलं न
भविष्यतीति भावः । उपहस्तिकायाः ताम्बूलाधारचर्मपेटिकायाः अत्र पञ्चमी विभ-
क्तिः । उद्धृत्य निष्कास्य । चित्रा नानाविधाः । प्रायुध्यत योद्धुमारभत । अतिसं-
रब्धं अतिक्रुद्धम् । अनुप्रहारेति-अनुप्रहारे प्रतिप्रहारे प्रवृत्ताभ्यामुद्यताभ्यां स्वप-
क्षाभ्यां निजपतत्राभ्यां मुक्तो विसृष्टः कृत इति शेषः, कण्ठीरवस्य सिंहस्येव रवो
नादो येन तदिदं विशेषणद्वयं विहङ्गमद्वयमिस्यस्य । जितः पराजितः ।
(१५) स्ववाटकुक्कुटस्य स्वदेशीयकुक्कुटस्य प्राच्यवाटस्येत्यर्थः विजयेन
हृष्टः सन्तुष्टः । मयि-प्रमतौ । वयोविरुद्धं-वयसोऽननुरूपम् । अवस्थाविसदृश-
मिति यावत् । तुल्यबलविद्ययोमैत्री प्रसिद्धा । सख्यं मैत्रीम् । उपेत्य-प्राप्य ।
तदहः-तस्मिन्नेव दिने । स्वगृहे-वृद्धस्य गृहे । उत्तरेद्युः परदिने । यान्तं गच्छन्तम् ।
तथा इसकी शिखा लाल होती है। वह वृद्ध भी उस कुक्कुट युद्धक्रियाको जानता था।
अतः उसने कहा-मौन रहिये । क्योंकि इन मूर्खोंसे विवाद करना व्यर्थ होगा। ततः
उसने अपने पानके डब्बेसे कर्पूरवासनायुक्त पान निकालकर दिये और अनेक विचित्र
वार्त्ताएं करता हुआ वह समय व्यतीत किया । परस्पर युद्ध करते हुए वे दोनों मुर्गे भी
क्रोधमें आकर अपनी चोंचोंसे तीक्ष्ण-तीक्ष्ण पञ्जोंसे लड़े । शेरकी ध्वनिको मानो
अपनी ध्वनिसे मात कर देंगे इस तरहसे पंख फैलाकर वे लड़े । अन्ततोगत्वा पश्चिम-
देशीय मुर्गेने हार खायी ।
(१५) वह वृद्ध धूर्त्त भी अपने पक्षवाले मुर्गेकी विजय होनेपर आनन्दित हुआ ?
फिर उस वृद्धने मेरे साथ अवस्था अनुकूल न होनेपर भी मित्रता कर ली [ मित्रता
बराबरीवाले की ही हुआ करती है ] और उसने उसी दिन अपने गृहपर ले जाकर
मेरा सत्कार किया तथा मुझे भोजन कराया । दूसरे दिन जब मैं श्रावस्तीपुरी जाने
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
३०६ दशकुमारचरितम्। [ उत्तरपीठिकायां
प्रत्ययासीत्। अहं च गत्वा श्रावस्तीमध्वश्रान्तो बाह्योद्याने लतामण्डले
शयितोऽस्मि। हंसरवप्रबोधितश्चोत्थाय कामपि क्वणित नूपुरमुखराभ्यां
चरणाभ्यां मदन्तिकमुपसरन्तीं युवतीमद्राक्षम्।
(१६) सा त्वागत्य स्वहस्तवर्तिनि चित्रपटे लिखितं मत्सद्दशं कमपि
पुंरूपं मां च पर्यायेण निर्वर्णयन्ती सविस्मयं सवितर्कं सहर्षं च क्षणम-
वातिष्ठत। मयापि तत्र चित्रपटे मत्सादृश्यं पश्यता तद्द्दष्टिचेष्टितमनाक-
स्मिकं मन्यमानेन 'ननु सर्वसाधारणोऽयं रमणीयः पुण्यारामभूमिभागः।
अर्थे प्रयोजने सति। मित्रवत् सुहृदमिव। विसृज्य-मां परित्यज्य। प्रत्ययासीत्
प्रतिगतवान्। अहं प्रमतिः। हंसरवप्रबोधितः हंसध्वनिजागरितः। नूपुरध्वनेर्हंस-
रवसादृश्यादित्यर्थः। क्वणितेति-शब्दायमानमञ्जीरवाचालाभ्याम्। मदन्तिकं मम
समीपम्। उपसरन्तीमागच्छन्तीम्।
(१६) सा युवती । स्वहस्तवर्त्तिनि-निजकरस्थिते । लिखितं चित्रितम्।
मत्सद्दशं मदाकारम्। पुंरूपं पुरुषस्वरूपम्। पर्यायेण क्रमेण-प्राक् चित्रस्थं पुरुषं
दृष्ट्वा परतश्च मां पश्यतीत्यर्थः। निर्वर्णयन्ती साभिनिवेशं पश्यन्ती। सविस्मयं-
कथमस्य चित्रस्थस्य च तुल्येवाकृतिरिति साश्चर्यम् । सवितर्कं-कथमेताद्दशस्य
तरुणस्य कन्यान्तःपुरे प्रवेश इति तर्कसहितम्। सहर्षं सख्या मनोरथप्राप्तिरचि-
राद्भविष्यतीति सानन्दम्। तद्द्दष्टिचेष्टितं-तस्याः समागताया युवत्याः दृष्टि-
चेष्टितं मम चित्रपटस्य च दर्शनरूपमवलोकनव्यापारम्। अनाकस्मिक-न निष्का-
रणम्। सर्वसाधारणः सर्वेषां समानोपभोग्यः। पुण्यारामभूमिभागः पवित्रोद्यान-
लगा तो वह मुझे कुछ दूर तक मित्रके समान पहुंचाने आया और बोला कि जब कार्य
पड़े तब मुझे स्मरण कीजियेगा। इस तरीकेसे भले मित्रके समान मेरे साथ व्यवहार
करके वह लौट गया। मैं श्रावस्ती नगरीमें पहुँचा और पहुंचनेके पश्चात् मार्गके
परिश्रमसे थककर बाहर ही एक बगीचेमें लतामण्डपके नीचे सो गया। हंस की ध्वनिके
समान ध्वनि सुनकर मैं कुछ देरमें उठ बैठा। उठकर देखा कि एक युवती अपने
चरणोंके भूषित नूपुरको बजाती हुई मेरे समीप आ रही है।
(१६) वह तरुणी अपने हाथ में लिये हुए एक चित्रपटसे मेरी आकृतिको मिलाती
हुई और मुझे अपने समीप पा करके मेरे समीप आकर विस्मययुक्त विचार करती
हुई कुछ क्षणके लिए हर्षान्वित होकर खड़ी हो गयी। मैंने भी उस-चित्रपटमें अपने सादृश्य
चित्र (फोटो) को देखा। और उस तरुणीकी तत्काल चेष्टनक्रिया भी देखना आवश्यक
समझा। तत्पश्चात् मैंने उस बालासे कहा-'हे बाले! यह पवित्र भूमिभाग अति-