दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 304, कुल 474 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
३०४ | दशकुमारचरितम् । | [ उत्तरपीठिकायां
इति प्राञ्जलि मां भूयोभूयः परिष्वज्य शिरस्युपाघ्राय कपोलयोश्चुम्बित्वा
स्नेहविह्वला गतासीत् । अहं च पञ्चबाणवश्यः श्रावस्तीमभ्यवर्तिषि ।
(१४) मार्गे च महति निगमे नैगमानां ताम्रचूडयुद्धकोलाहलो महा-
नासीत् । अहं च तत्र सन्निहितः किञ्चिदस्मेषि । सन्निधिनिषण्णस्तु मे
वृद्धविटः कोऽपि ब्राह्मणः शनकैः स्मितहेतुमपृच्छत् । अब्रुवं च—'कथ-
मिव नारिकेलजातेः प्राच्यवाटकुक्कुटस्य प्रतीच्यवाटः पुरुषैरसमीक्ष्य ब-
लाकाजातिस्ताम्रचूडो बलप्रमाणाधिकस्यैव प्रतिविसृष्टः' इति । सोऽपि
त्यर्थः । उपसर्पेयं गच्छेयम् । प्राञ्जलिं-प्रणतम् । कपोलयोर्गण्डयोः । स्नेहवि-
ह्वला-वात्सल्यरसविष्टा । पञ्चबाणवश्यः कामपरतन्त्रः । अभ्यवर्त्तिषि-तदभिमुख-
मंगच्छम् ।
(१४) मार्गे-श्रावस्त्याः पथि । निगमे वणिजां ग्रामे । 'निगमो विजये वेदे
पुरे पथि वणिक्पथे' इति कोशः । नगमानां वणिजाम् । 'नैगमो वणिजो वणिक्'
इत्यमरः । ताम्रेति-ताम्रचूडानां कुक्कुटानां युद्धेन कोलाहलः कलरवः । सन्निहितः-
समीपवर्त्ती सन् । किञ्चिदीषत् । अस्मेषि स्मितमकरवम् । सन्निधिनिषण्णः समीपो-
पविष्टः । वृद्धविटः-स्थविरधूर्त्तः । शनकैः मन्दं मन्दम् । स्मितहेतुं हासकारणम् ।
अब्रुवमहमिति शेषः । नारिकेलजातेः-नारिकेलजातीयस्य । प्राच्यवाटकुक्कुटस्य
पूर्वदेशीयकुक्कुटस्य । प्रतीच्यवाटः-पश्चिमदेशीयः असमीक्ष्य-अविचार्य । वला-
काजातिः-बलाकाजातीयः । बलप्रमाणाधिकस्य बलेन शक्त्या प्रमाणेनाकारेण चा-
धिकस्य महतः । एवमनेन प्रकारेण । प्रतिविसृष्टः-युद्धार्थं प्रहितः । सोऽपि-वृद्ध-
समीप जा रही हूँ। ऐसा कह कर उस महिलाने मुझे बेर-बेर आलिङ्गित किया ।
फिर मेरे शिरको सूँघकर तथा गालोंको भी चूमा एवं स्नेहसे विह्वल होकर मुझसे विदा
ले ली । मैं भी कामपीड़ित हो गया था। अतः उस कुमारी नवमालिकाकी प्राप्तिके
लिये श्रावस्तीकी ओर चल पड़ा।
(१४) श्रावस्ती नगरीके मार्गमें एक जगह वणिकोंकी एक विशाल बस्ती थी ;
वहांपर वे सब एकत्र होकर कुक्कुटोंका (मुर्गोंका) युद्ध करा रहे थे । जिस कारण
अत्यन्त कलरव मचा हुआ था। मैं भी वहां गया और उस युद्धको देखकर कुछ
मुस्कुराने लगा । मेरे समीप बैठे हुए एक वृद्ध धूर्त्तने हँसनेका कारण धीरेसे पूछा।
मैंने उत्तर दिया कि पूर्वदेशीय नारिकेल जातिके कुक्कुटके साथ पश्चिमदेशीय बलाका
जातिके कुक्कुटका युद्ध कराना पुरुषोंकी अज्ञतामात्र है । क्योंकि इस पश्चिमदेशीय
कुक्कुटको पूर्वोंकी अपेक्षा बल अधिक होता है और आकार भी इसका बड़ा होता है
Nepal Sanskrit University, Balmeeki Campus, Kathmandu