सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

२६८ दशकुमारचरितम् । [ उत्तरपीठिकायां

२६८ दशकुमारचरितम् । [ उत्तरपीठिकायां
( १० ) सोऽतिभीतो मामभिप्रणम्याह — 'अहमेव मूढोऽपराद्धः
यस्तव दुहितृसंसर्गानुग्राहिणो ग्रहग्रस्त इवोत्क्रान्तसीमा समादिष्टवान् व-
धम् । तदास्तां कान्तिमती राज्यमिदं मम च जीवितमप्यद्यप्रभृति भवदधी-
नम्' इत्यवादीत् । अथापरेद्युः प्रकृतिमण्डलं संनिपात्य विधिवदात्मजायाः
पाणिमग्राहयत् । अश्रावयच्च तनयवार्ता तारावली कान्तिमत्यै, सोमदे-
वीसुलोचनेन्द्रसेनाभ्यश्च पूर्वजातिवृत्तान्तम् । इत्थमहं मन्त्रिपदापदेशं
यौवराज्यमनुभवन्वहरामि विलासिनीभिः' इति ।
( ११ ) स एवं मादृशेऽपि जन्तौ परिचर्यानुबन्धी बन्धुरेकः सर्व-
( १० ) स चण्डसिंहः । मां कामपालम् । यः अहम् । दुहितृसंसर्गेति—दुहितुः
कन्यायाः संसर्गेण संपर्केणानुगृह्णातीत्येवंशीलस्य कन्या सम्बन्धेन कृपापरस्येत्यर्थः ।
ग्रहग्रस्तः—ग्रहाविष्टः । उत्क्रान्तसीमा अतिक्रान्तमर्यादः । आस्तां तिष्ठतु । प्रकृति-
मण्डलं प्रजावर्गम् । संनिपात्य—एकत्रीकृत्य प्रजानां समक्षमित्यर्थः । विधिवद्
विध्युक्तमार्गेण । आत्मजायाः कन्यायाः कान्तिमत्याः । पाणिमग्राहयत् । विवाहम्-
कारयत् मयेति शेषः । तनयवार्त्ता पुत्रवृत्तान्तम् । पूर्वजातिवृत्तान्तं पूर्वजन्मपरि-
चयादिकम् । इत्थमनेन प्रकारेण । मन्त्रिपदापदेशं मन्त्रिपदस्यापदेशश्छलं यत्र
तदिति यौवराज्यविशेषणम् । मन्त्रिन्याजेन यौवराज्यमेव अनुभवामीत्यर्थः ।
विलासिनीभिः कामिनीभिरित्यन्तं कामपालवाक्यम् ।
( ११ ) स एवमित्यादि पुनः कथयति पूर्णभद्रः । स कामपालः । एवम् अनेन
प्रकारेण । जन्तौ—जन्तुसदृशे निकृष्टे मयि । परिचर्यानुबन्धी—सेवापरायणः । बन्धुः
( १० ) राजाने अत्यन्त भयभीत होकर मुझे प्रणाम किया और कहा—'मैं स्वयं
ही मूर्ख हूँ । मैंने ही आपका अपराध किया है । क्योंकि कन्याके साथ सम्पर्क करनेवाले
आपपर मैंने पागलकी तरह क्रोधाभिभूत हो कर अतिक्रान्तमर्यादावालेके सदृश
व्यवहार किया—वधकी आज्ञा सुनायी । अब उस चर्चाको त्याग दीजिये और आजसे
यह कान्तिमती कन्या. मेरा सम्पूर्ण राज्य तथा जीवन अपने ही अधीन समझिये ।
एवं ऐसा कहनेके पश्चात् उस राजा ने दूसरे दिन अपने प्रजावर्गको एकत्र करके अपनी
कन्या कान्तिमतीका विवाह मेरे साथ शास्त्रानुसार सम्पन्न कर दिया । तारावलीने उस
शिशु-वृत्तको कान्तिमती देवीसे कह सुनाया । सोमदेवी, सुलोचना और इन्द्रसेना प्रभृतिको
भी पूर्वजन्मका परिचय वृत्त सुना दिया । इस रीतिसे मैं सचिवपदके व्याज ( छल )
से यौवराज्यसुखोंको भोगता हुआ विलासिनियोंके साथ नित्य रमण किया करता हूँ ।
( ११ ) पुनः पूर्णभद्रने कहना प्रारम्भ किया । मेरे श्वशुर राजा चण्डसिंहके स्वर्ग-

चतुर्थोच्छ्वासः ] बालप्रबोधिनीव्याख्यासहितम् । २६६
भूतानामलसकेन स्वर्गते श्वशुरे, ज्यायसि च श्याले चण्डघोषनाम्नि
स्त्रीष्वतिप्रसङ्गात्प्रागेव क्षयक्षीणायुषि, पञ्चवर्षदेशीयं सिंहघोषनामानं
कुमारमभ्यषेचयत् । अवर्धयच्च विधिनैनं स साधुः । तस्याद्य यौव-
नोन्मादिनः पैशुन्यवादिनो दुर्मन्त्रिणः कतिचिदासन्नन्तरङ्गभूताः । तैः
किलासावित्थमग्राह्यत—'प्रसह्यैव स्वसा तवामुना भुजङ्गेन संगृहीता पुनः
प्रसुप्ते राजनि प्रहर्तुमुद्यतासिरासीत् । तेनास्मै तत्क्षणप्रबुद्धेन भीत्यानु-
नीय दत्ता कन्या । तं च देवज्येष्ठं चण्डघोषं विषेण हत्वा बालोऽयमसमर्थ-
मित्रभूतः । सर्वभूतानां सर्वप्राणिनाम् बन्धुरित्यनेनान्वयः । अलसकेन क्षयरोगेण ।
क्षयस्त्वलसको मत इति कोषः । स्वर्गते मृते । श्वशुरे चण्डसिंहे । ज्यायसि ज्येष्ठे ।
श्याले श्यालके पत्नीसहोदरे इति यावत् । अतिप्रसङ्गाद् अस्यासक्तेः प्रागेव पितृ-
मरणात्पूर्वमेव । क्षयक्षीणायुषी-क्षयेण क्षयरोगेण क्षीणमल्पमायुर्जीवितकालो यस्य
तस्मिन् । सतीति शेषः । अभ्यषेचयत् राज्येऽभिषेकमकारयत् । एनं सिंहघोषना-
मानं कुमारम् । स साधुर्महात्मा कामपालः । तस्य सिंहघोषस्य । अद्य साम्प्रतम् ।
यौवनोन्मादिनः-तारुण्यमदगर्वितस्य । पैशुन्यवादिनः-पैशुन्यं खलत्वं वदन्ति
प्रकटयन्ति ये तथाभूताः दुर्जना इत्यर्थः । दुर्मन्त्रिणो दुष्टामात्याः । कतिचित्
कतिपये जनाः । आसन् अभवन् । अन्तरङ्गभूताः आप्तसराः । तैर्दुर्मन्त्रिभिः ।
असौ सिंहघोषः । इत्थं वक्ष्यमाणप्रकारेण । अग्राह्यत-अबोधयत । प्रसह्य-बलात् ।
स्वसा भगिनी-कान्तिमतीत्यर्थः । अमुना-कामपालेन । भुजङ्गेन विटेन धूर्ते-
नेति यावत् । प्रसुप्ते-निद्रिते । राजनि चण्डसिंहे तव पितरीत्यर्थः । प्रहर्तुं
हन्तुम् । उद्यतासिः-उत्थापितखड्गः । तेन तव पित्रा । अस्मै कामपालाय ।
तत्क्षणप्रबुद्धेन-तत्कालजागरितेन । देवज्येष्ठं भवदग्रजम् । बालः शिशुरयं सिंह-
घोषः अतोऽसमर्थोयमिति कृत्वा । प्रकृतिविश्रम्भणाय-प्रजानां विश्वासोत्पादना-
वासी हो जानेपर, मेरे सदृश पुरुषके वर्त्तमान होनेपर भी, अपने स्वामीकी सेवामें
परायण तथा सभी प्राणियोंके मित्रभूत सुयोग्य कामपालने पाँच बरससे भी छोटी
अवस्थावाले सिंहघोष नामक राजकुमारको गद्दीपर बैठा दिया—राज्याभिषेक कर दिया ।
क्योंकि मेरा बड़ा साला चण्डघोष अतिस्त्रीप्रसङ्ग करनेके कारण क्षयरोगी हो गया था
और उसीसे वह पिता के समान ही अल्पायु होकर मर गया । उस विवेकी महात्मा
कामपालने सिंहघोषका यथाविधि पालन-पोषण करके उसे बड़ा किया । उक्त कुमार
सिंहघोषके इस समय कई अन्तरंगभूत दुष्ट मन्त्री हैं जो उसे तारुण्यमें मदोन्मत्त कर रहे
हैं तथा खलत्व सिखा रहे हैं । उन मन्त्रियोंके द्वारा उसने निम्नांकित बातें ज्ञात की हैं—

२७० दशकुमारचरितम्। [ उत्तरपीठिकायां
इति त्वमद्यापि प्रकृतिविश्रम्भणायोपेक्षितः। क्षिणोति च पुरा स कृतघ्नो
भवन्तम्। तमेवान्तकपुरमभिगमयितुं यतस्व' इति।
(१२) स तथा दूषितोऽपि यक्षिणीभयान्नामुष्मिन्पापमाचरितुमश-
कन्। एषु किल दिवसेष्वयथापूर्वमाकृतौ कान्तिमत्याः समुपलक्ष्य राज-
महिषी सुलक्षणा नाम सप्रणयमपृच्छत्—'देवि, नाहमायथातथ्येन विप्र-
लम्भनीया। कथय तथ्यं केनेदमयथापूर्वमाननारविन्दं तवैषु वासरेषु'
इति। सा त्वादीत्—'भद्रे, स्मरसि किमप्यायथातथ्येन किंचिन्मयो-
क्तपूर्वम्। सखी मे तारावली सपत्नी च किमपि कलुषिताशया मद्गोत्रा-
र्थम्। उपेक्षितः त्यक्तः। क्षिणोति च पुरा-क्षयं नेष्यति। यावत्पुरा निपातयोरिति
भविष्यत्सामीप्ये लट्। कृतघ्नः अकृतज्ञः। तं कामपालम्। अन्तकपुरं यमालयम्।
अभिगमयितुं प्रापयितुम्।
(१२) स सिंहघोपः। दूषितः भेदं गमितः। यक्षिणीभयात्-तारावलीभयेन।
अमुष्मिन् कामपाले। पापमाचरितुम् अनिष्टं विधातुम्। एषु वर्त्तमानेषु। अयथा-
पूर्वं प्रागलक्षितं विकारभावम्। आकृतौ-आकारे। राजमहिषी-सिंहघोषपत्नी।
आयथातथ्येन-अवास्तवकथनेन। विप्रलम्भनीया प्रतारणीया। तथ्यं सत्यम्।
केन-केन हेतुना। सा कान्तिमती। स्मरसि किमित्यादि-तव समीपे मया कदापि
असत्यं नैवोक्तमिति भावः। उक्तपूर्वं-पूर्वमुक्तम्। किमपि-किञ्चित्। कलुषिताशया
मलिनाभिप्राया-विरक्तभावेति यावत्। मद्गोत्रापदिष्टा-मदीयनाम्ना समाहूता।
गोत्रस्खलनेन तु सपत्नीनामीर्ष्या संजायत इति प्रसिद्धम्। प्रणयम्-अस्मासु प्रीतिम्।
इस विट कामपालने आपकी बहिनको जबर्दस्ती ग्रहण किया है। पुनः सुप्तावस्था में आपके
पिता राजा चण्डसिंहको मारनेके लिये तैयार हुआ।
तब उन्होंने उस समय जाग कर मारे भयके अपनी पुत्री का इसके साथ विवाह कर
दिया। आपके बड़े भाई चण्डघोषको जहर दे करके मरवा डाला। आपको बालक जान
कर तथा प्रजाकी प्रतीतिप्राप्त्यर्थ छोड़ दिया। यह कृतघ्न आपका भी नाश करेगा-मार
डालेगा। अतः इसीको यमपुरी पहुँचानेका प्रयत्न करना आपका कार्य है।
(१२) वह राजकुमार सिंहघोप गुप्त रहस्यको ज्ञात कर भी यक्षिणी तारावलीके
भयसे कन्यादूषक उस कामपालको मारने में असमर्थ रहा। इन दिवसोंमें कान्तिमतीकी
आकृतिमें विचित्र परिवर्त्तन देख कर राजा सिंहघोषकी रानी सुलक्षणाने विनम्र भावसे
पूछा—'हे देवि! मुझे झूठ कहकर मत ठगो अपितु सत्य बताओ। किस कारणसे इन
दिनों तुम्हारा मुखकमल मुरझा गया है?' वह कान्तिमती बोली—'हे सौम्ये! क्या
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

पदिष्ट्रा प्रणयमप्युपेक्ष्य रहसि भर्त्रा प्रणम्यमानाप्यस्माभिरुपोढमत्सरा
प्रावसत् । अवसीदति च नः पतिः । अतो मे दौर्मनस्यम्' इति ।
(१३) तत्प्रायेणैकान्ते सुलक्षणया कान्तया कथितम् । 'अथासौ
निर्भयोऽद्य प्रियतमाविरहपाण्डुभिरवयवैर्धैर्यस्तम्भिताश्रुपर्याकुलेन चक्षु-
षोष्मश्वासशोषिताभिरिवानतिपेशलाभिर्वाग्भिर्वियोगं दर्शयन्तम्, कथ-
मपि राजकुले कार्याणि कारयन्तम्, पूर्वसंकेतितैः पुरुषैरभिग्राह्याबन्ध-
यत् । तस्य किल स्थाने स्थाने दोषानुद्घोष्य तथोद्धरणीये चक्षुषी यथा

उपेक्ष्य-अगणयित्वा । प्रणम्यमाना-सप्रणाममावेद्यमाना । उपोढमत्सरा-सञ्जात-
द्वेषा । प्रावसत्-देशान्तरं गतवती । अवसीदति-अवसादं गच्छति-क्लिश्यतीति
यावत् । दौर्मनस्यं-दुःखितचित्तत्वम् ।
(१३) तत् क्षान्तिमत्या दौर्मनस्यकारणम् । प्रायेण बाहुल्येन । कथितं
सिंहघोषायेति शेषः । असौ सिंहघोषः । निर्भयः-तारावलीप्रवासाद् भीतिरहितः ।
प्रियतमेति-प्रियतमायास्तारावल्या विरहेण विच्छेदेन पाण्डुभिर्विवर्णैः । अव-
यवैरङ्गैः । धैर्येति-धैर्येण धीरतया स्तम्भितमवरुद्धं अश्रु नेत्रजलं तेनाकुलं
व्याप्तं तेन । ऊष्मश्वासेति-ऊष्मश्वासेन दीर्घनिःश्वासवायुना शोषिताभिः
क्षीणाभिः । अनतिपेशलाभिः-अनतिकोमवाभिः । वियोगं विरहम् । दर्श-
यन्तं प्रकटयन्तम् । कथमपि अतिकृच्छ्रेण । कारयन्तं साधयन्तं कामपालमिति
शेषः । पूर्वसंकेतितैः । प्राक्सूचितैः । अभिग्राह्य ग्राहयित्वा । अबन्धयत्-बन्धनम-
नयत् । तस्य कामपालस्य । उद्घोष्य-प्रकटीकृत्य । तथा तेन प्रकारेण । उद्ध-

आपको स्मरण आता है कि मै आपसे कभी भी झूठ बोला हूं । मेरी सखी तारावली
यक्षिणी जो मेरी सपत्नी भी है वह बड़ी मलिनाभिप्रायवाली है । कदाचित् एकान्तमें
पतिद्वारा मेरे नामसे उसे सम्बोधित किया गया । बस, इसी बातपर वह रुष्ट हो गयी ।
इसपर पतिदेवने प्रणाम भी किया किन्तु उसका क्रोध शान्त न हुआ और मारे ईर्ष्याके
वह कहीं दूर देश चली गयी । इस हेतु मेरे पति उदास रहते हैं और पतिकी उदासीसे
मैं भी उदास रहती हूँ ।
(१३) इन बातोंको सुलक्षणने अपने पतिसे बहुलतासे एकान्तमें कह दिया ।
तत्पश्चात् निर्भय हो करके राजा सिंहघोषने उस कामपालको प्राक्सूचित (पूर्वसंकेतित)
राजपुरुषोंके द्वारा पकड़वा कर कारागारमें डाल दिया जो कामपाल अपनी प्रियतमा
तारावलीके वियोगसे पाण्डुवर्णी शरीरवाला हो रहा था, धीरतासे रोके हुए आँसुओंसे
व्याकुल नेत्रवाला तथा उष्ण श्वासोंसे सूखी काठीवाला एवं कठोरवाणीके बोलनेसे अपने