दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 268, कुल 474 में से
संदर्भ में पढ़ें२६८ दशकुमारचरितम् । [ उत्तरपीठिकायां
( १० ) सोऽतिभीतो मामभिप्रणम्याह — 'अहमेव मूढोऽपराद्धः
यस्तव दुहितृसंसर्गानुग्राहिणो ग्रहग्रस्त इवोत्क्रान्तसीमा समादिष्टवान् व-
धम् । तदास्तां कान्तिमती राज्यमिदं मम च जीवितमप्यद्यप्रभृति भवदधी-
नम्' इत्यवादीत् । अथापरेद्युः प्रकृतिमण्डलं संनिपात्य विधिवदात्मजायाः
पाणिमग्राहयत् । अश्रावयच्च तनयवार्ता तारावली कान्तिमत्यै, सोमदे-
वीसुलोचनेन्द्रसेनाभ्यश्च पूर्वजातिवृत्तान्तम् । इत्थमहं मन्त्रिपदापदेशं
यौवराज्यमनुभवन्वहरामि विलासिनीभिः' इति ।
( ११ ) स एवं मादृशेऽपि जन्तौ परिचर्यानुबन्धी बन्धुरेकः सर्व-
( १० ) स चण्डसिंहः । मां कामपालम् । यः अहम् । दुहितृसंसर्गेति—दुहितुः
कन्यायाः संसर्गेण संपर्केणानुगृह्णातीत्येवंशीलस्य कन्या सम्बन्धेन कृपापरस्येत्यर्थः ।
ग्रहग्रस्तः—ग्रहाविष्टः । उत्क्रान्तसीमा अतिक्रान्तमर्यादः । आस्तां तिष्ठतु । प्रकृति-
मण्डलं प्रजावर्गम् । संनिपात्य—एकत्रीकृत्य प्रजानां समक्षमित्यर्थः । विधिवद्
विध्युक्तमार्गेण । आत्मजायाः कन्यायाः कान्तिमत्याः । पाणिमग्राहयत् । विवाहम्-
कारयत् मयेति शेषः । तनयवार्त्ता पुत्रवृत्तान्तम् । पूर्वजातिवृत्तान्तं पूर्वजन्मपरि-
चयादिकम् । इत्थमनेन प्रकारेण । मन्त्रिपदापदेशं मन्त्रिपदस्यापदेशश्छलं यत्र
तदिति यौवराज्यविशेषणम् । मन्त्रिन्याजेन यौवराज्यमेव अनुभवामीत्यर्थः ।
विलासिनीभिः कामिनीभिरित्यन्तं कामपालवाक्यम् ।
( ११ ) स एवमित्यादि पुनः कथयति पूर्णभद्रः । स कामपालः । एवम् अनेन
प्रकारेण । जन्तौ—जन्तुसदृशे निकृष्टे मयि । परिचर्यानुबन्धी—सेवापरायणः । बन्धुः
( १० ) राजाने अत्यन्त भयभीत होकर मुझे प्रणाम किया और कहा—'मैं स्वयं
ही मूर्ख हूँ । मैंने ही आपका अपराध किया है । क्योंकि कन्याके साथ सम्पर्क करनेवाले
आपपर मैंने पागलकी तरह क्रोधाभिभूत हो कर अतिक्रान्तमर्यादावालेके सदृश
व्यवहार किया—वधकी आज्ञा सुनायी । अब उस चर्चाको त्याग दीजिये और आजसे
यह कान्तिमती कन्या. मेरा सम्पूर्ण राज्य तथा जीवन अपने ही अधीन समझिये ।
एवं ऐसा कहनेके पश्चात् उस राजा ने दूसरे दिन अपने प्रजावर्गको एकत्र करके अपनी
कन्या कान्तिमतीका विवाह मेरे साथ शास्त्रानुसार सम्पन्न कर दिया । तारावलीने उस
शिशु-वृत्तको कान्तिमती देवीसे कह सुनाया । सोमदेवी, सुलोचना और इन्द्रसेना प्रभृतिको
भी पूर्वजन्मका परिचय वृत्त सुना दिया । इस रीतिसे मैं सचिवपदके व्याज ( छल )
से यौवराज्यसुखोंको भोगता हुआ विलासिनियोंके साथ नित्य रमण किया करता हूँ ।
( ११ ) पुनः पूर्णभद्रने कहना प्रारम्भ किया । मेरे श्वशुर राजा चण्डसिंहके स्वर्ग-