सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

२०६ | दशकुमारचरितम् । | [ उत्तरपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF

२०६ | दशकुमारचरितम् । | [ उत्तरपीठिकायां

प्रकृतिस्थ एव जातः । जातास्थया मया बन्धनान्निष्क्रमय्य स्नापितोऽनु-
लेपितश्च परिधाप्य निष्प्रवाणियुगलमभ्यवहार्य परमान्नमौशीरेऽद्य काम-
चारः कृतोऽभूत् । अथ निशीथे भूय एव वायुनिघ्नः 'निहत्य कान्तकं
नृपतिदुहित्रा रमेय' इति रंहसा परेण राजपथमभ्यपतत् । निरूप्य चाहं
पुत्रमेवंगत मस्यां वेलायामनुधावामि । तत्प्रसीदत । बद्ध्वैनं मह्यमर्पयत'
इति यावदसौ क्रन्दति तावदहं 'स्थविरे, केन देवो मातरिश्वा बद्धपूर्वः ।
किमेते काकाः शौङ्गेयस्य मे निग्रहीतारः । शान्तं पापम्' इत्यभ्यधावम् ।


कल्पः प्रायेण प्रसन्नः । प्रकृतिस्थः स्वभावस्थः । जातास्थया संजातादरया।
मया शृगालिकयेत्यर्थः । निष्क्रमय्य मोचयित्वा । अनुलेपितः गन्धादिना सुवा-
सितः । निष्प्रवाणियुगलं-नूतनवस्त्रयुग्मम् । 'अनाहतं निष्प्रवाणि तन्त्रकञ्च न-
वाम्बरे' इत्यमरः । अभ्यवहार्य भोजयित्वा । परमान्नं पायसम् । औशीरे शयना-
सनविषये । कामचारः स्वेच्छाचारः । निशीथेऽर्द्धरात्रे । भूय एव पुनरपि । वायु-
निघ्नः उन्मादरोगायत्तः । निहत्यादि-उन्मत्तस्य तस्य प्रलापोऽयम् । रंहसा
वेगेन परेण महता । निरूप्य अवलोक्य एवं गतम्-एतदवस्थम् । अनुधावामि
अनुसरामि । बद्ध्वा बन्धनं कृत्वा । एनं मत्पुत्रम् । असौ शृगालिका । अह-
मपहारवर्मा । स्थविरे वृद्धे । सम्बोधनम् । मातरिश्वा-वायुः । बद्धपूर्वः पूर्वं
बद्धः । न केनापीति भावः । एते-रक्षिपुरुषाः । शौङ्गेयस्य विहङ्गानां शत्रोः पक्षि-


बहुत समयतक इसकी चिकित्सा करायी । गत दिन ( क.ल ) यह प्रायः प्रसन्न हो गया
था और पूर्ववत् स्वस्थ दिखाई देने लगा । अच्छे होनेका विश्वास करके मैंने (शृगालिकाने)
इसे बन्धन मुक्त कर दिया । और स्नान कराकर तैल-चन्दन आदिसे सुवासित कर
दिया । इसे नये कपड़ेके जोड़े धारण कराये तथा खीर खिलायी और शयनासन (सज्जित
पलंगपर) पर सोनेको स्वतन्त्र कर दिया । किन्तु, (सोनेके बाद) आधी रातमें यह फिर
उन्माद रोगसे आक्रान्त हो गया ! 'कान्तकको मार करके राजकुमारीसे रमण करूंगा।'
ऐसा जोरोंसे बकते हुए राजमार्गमें आ गया । पुत्रकी ऐसी दशासे मैं, इसके पीछे दौड़ती
हुई इस समय, (आधी रातमें) फिर रही हूँ । इसलिये आप लोग कृपा करें और इसे बांध
करके मुझे दे दें ।'
जब शृगालिका ऐसा कथन उन राजपुरुषोंसे कर रही थी, तब मैने कहा—'अरे वृद्धे !
क्या कभी पहिले भी पवनको किसीने पकड़ा है । क्या ये कौए मेरे ऐसे बाजको पकड़ सकते
हैं । शान्त हो ।' ऐसा कह करके मैं दौड़ गया ।

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । २०७

( ६६ ) असावप्यमीभिः 'त्वमेवोन्मत्ता यानुन्मत्तं इत्युन्मत्तं मुक्त-
वती । कस्तमिदानीं बध्नाति' इति निन्दिता कदर्शिता रुदत्येव मामन्व-
धावत् । गत्वा च रागमञ्जरीगृहं चिरविरहखेदविह्वलामिमां बहुविधं
समाश्वास्य तं निशाशेषमनयम् । प्रत्यूषे पुनरुदारकेण च समगच्छे ।
( ७० ) अथ भगवन्तं मरीचिं वेशकृच्छ्रादुत्थाय पुनः प्रतितप्रतपः
प्रभावप्रत्यापन्नदिव्यचक्षुषमुपसंगम्य तेनास्म्येवंभूतत्वद्दर्शनमवगमितः ।
विशेषस्य । यथा वायसाः शौनेयं निग्रहीतुं न समर्थास्तथा एतेऽपि मां बन्धं न
शक्नुवन्तीति भावः । इति इत्युक्तवा । अभ्यधावम् धावितवान् ।
( ६९ ) असौ शृगालिका अमीभिः रक्षिपुरुषैः । अनुन्मत्त इति उन्मत्तो
न भवतीति कृत्वा मुक्तवती त्यक्तवती । कदर्शित!-तिरस्कृता । मामपहारवर्मा-
णम् । चिरेति-चिरविरहेण दीर्घविच्छेदेन यः खेदो दुःखं तेन विह्वलां व्याकु-
लाम् । इमां रागमञ्जरीम् । निशाशेषं रात्रेरवशिष्टभागम् । अनयम् अयापयम् ।
उदारकेण-धनमित्रेण । समगच्छे संमिलितोऽभवम् ।
( ७० ) भगवन्तम् ऐश्वर्यशालिनम् । मरीचिं तन्नामकमहर्षिम् । वेश-
कृच्छ्रात् वेश्याव्यसनात् । उत्थाय निर्मुक्तो भूत्वेत्यर्थः । पुनरिति-पुनः प्रतितप्तं
पुनः समाचरितं यत्तपस्तपस्या तस्य प्रभावेण माहात्म्येन प्रत्यापन्नं पुनः प्राप्तं
दिव्यमार्षं चक्षुर्यैन तादृशम् । तेन मरीचिना । एवम्भूतमेवं प्रकारेण त्वद्दर्शनं
तव राजवाहनस्यावलोकनम् । अवगमितः ज्ञापितः । अस्मि अहमिति शेषः ।
दिव्यदृष्ट्या विलोक्य मरीचिनैव एवमुक्तं यदेतादृशसमये एतादृशेन प्रकारेण
भवद्दर्शनं मे भविष्यतीति भावः । सिंहघोषः कारागृहस्थो मम सुहृत् । कान्त-
( ६९ ) तत्पश्चात्-यह शृगालिका उन रक्षकपुरुषोंके द्वारा फटकारी गयी 'तुम्हीं पगली
हो । क्योंकि, तुमने पागलोंको बन्धन रहित किया । अब यह अभी कैसे बंध सकता है ?'
ऐसे वाक्योंसे डाँटी जानेपर शृगालिका रोती हुई मेरे पीछे दौड़ी । दौड़ करके मैं रागमञ्जरी
को जो बहुत दिनोंके विरह के खेदसे विह्वल हो रही ( दुःखी हो रही ) थी उसे समाश्वा-
सन दे करके उस रात्रिके अवशिष्ट भागको वहीं पर बिताया । फिर सबेरे उदारक
( धनमित्र ) के पास सम्मिलित हुआ ।
( ७० ) इसके अनन्तर ऐश्वर्यवान् मरीचि नामक मुनिके समीप मैं गया । जो मरीचि
मुनि वेश्याके व्यसनसे दुःखी हो करके, पुनः अपने तपके प्रभावसे दिव्य दृष्टित्वको प्राप्त
कर चुके थे । उन्हीं मरीचि मुनिसे आपके ( राजवाहनके ) दर्शनका समाचार ज्ञात किया ।

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

[Page Top: CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF]

२०८ दशकुमारचरितम्। [ उत्तरपीठिकायां

सिंहघोषश्च कान्तकापचारं निर्भिद्य तत्पदे प्रसन्नेन राज्ञा प्रतिष्ठापितः
तेनैव चारकसुरंगापथेन कन्यापुरप्रवेशं भूयोऽपि मे सम्पादयात् । सम-
गंप्ति चाहं शृगालिकामुखनिःसृतवार्तानुरक्तया राजदुहित्रा ।
(७१) तेष्वेव दिवसेषु चण्डवर्मा सिंहवर्भावधूतदुहितृप्रार्थनः कुपि-
तोऽभियुज्य पुरमवारुणत् । अमर्षणश्चाङ्गराजो यावदरिः पारग्रामिकं वि-
धिमाचिकीर्षति तावत्स्वयमेव प्राकारं निर्भिद्य प्रत्यासन्नानपि सहायान-

कापचारं-कान्तकस्यापराधम् । निर्भिद्य प्रकाश्य । तत्पदे-कान्तकस्थाने । प्रति-
ष्ठापितः-काराध्यक्षः कृतः । तेनैव मत्कृतेनव। चारकसुरङ्गापथेन-कारागृहस्थ-
बिलमार्गेण । भूयोऽपि पुनरपि । सम्पादयात् अकारयत् । तस्यैव साहाय्येन पुन-
रप्यहं कन्यान्तःपुरं प्रविष्टवानस्मि इत्यर्थः । समगंसि मिलितोऽभवम् । संपूवं-
काद् गम् धातोर्लुङि आत्मनेपदस्योत्तमपुरुषैकवचनम् । शृगालिकेति-शृगा-
लिकाया मुखाद् वदनान्निःसृतया निर्गतया कथितयेत्यर्थः । वार्तया वृत्तान्तेन अनु-
रक्तया आसक्तया राजदुहित्रा राजकन्यया समगंसि अहमिति शेषः ।
(७१) तेष्वेव दिवसेषु तदानीम् । चण्डवर्मा राजवाहनशत्रुः । सिंहव-
र्मेति-सिंहवर्मणा चम्पाधीश्वरेण अवधूता तिरस्कृता अस्वीकृतेति यावत् दुहितुः
स्वकन्याया अम्बालिकायाः प्रार्थना यस्यासौ । अत एव क्रुद्धः । अभियुज्य आ-
क्रम्य । पुरं सिंहवर्मनगरम् । अवारुणत् अवरुरोध । अमर्षणः असहन् । अङ्ग-
राजः सिंहवर्मा । अरिः शत्रुः = चण्डवर्मा । पारग्रामिकं परराज्यास्कन्दनोचितम् ।
विधिमनुष्ठानम् । चिकीर्षति कर्त्तुमिच्छति । यावत्तावदित्यनेन अतिशीघ्रता
सूचिता । स्वयमेव सिंहवर्मेव । प्राकारं प्राचीरम् । प्रत्यासन्नान्-समीपमाग-

सिंहघोषने कान्तकको मार डाला और राजाने प्रसन्नतासे उसे काराध्यक्ष बना दिया। उसी
कारागारकी सुरंगसे मैं फिर कन्यान्तःपुरमें जाने-आने लगा। शृगालिकाके मुखसे निकली
मेरी प्रशंसा पर राजकन्या मुझ पर अनुराग करने लगी ।
(७१) उन्हीं दिनों चण्डवर्माने जो राजवाहनका शत्रु था, चम्पानगरके स्वामी
सिंहवर्मा पर क्रुद्ध हो करके उस सिंहवर्माके नगर पर आक्रमण करके उसके नगरको घेर
लिया (क्रोधका कारण यह था कि, चण्डवर्माने अपना विवाह सिंहवर्माकी पुत्री अम्बालिका
से करनेकी प्रार्थना सिंहवर्माके पास की थी, जिस प्रार्थनाको सिंहवर्माने अस्वीकार कर
दिया था) अंगराज सिंहवर्मा इस बातको न सहन कर सका । जब तक शत्रु चण्डवर्मा

[Page Bottom: Nepal Sanskrit University, Balmeeki Campus, Kathmandu]

प्रतीक्षमाणो निर्गत्याभ्यधिकबलेन विद्विषा महति संपराये भिन्नवर्मा
सिंहवर्मा बलादगृह्यत । अम्बालिका च बलवदभिगृह्य चण्डवर्मणा
हठात्परिणेतुमात्मभवनमनीयत । कौतुकं च स किल क्षपावसाने
विवाह इत्यबध्नात् ।
( ७२ ) अहं च धनमित्रगृहे तद्विवाहायेव पिनद्धमङ्गलप्रतिसरस्त-
मेवमवोचम्—‘सखे, समापतितमेवाङ्गराजाभिसरं राजमण्डलम् । सुगू-
तानपि। सहायान् साहाय्यकारिणो नृपतीन् । अप्रतीक्षमाणः अनपेक्षमाणः ।
अभ्यधिकबलेन बहुतरसैन्यसमन्वितेन विद्विषा शत्रुना। संपराये युद्धे । भिन्न-
वर्मा छिन्नकवचः । अगृह्यत गृहीतश्चण्डवर्मणेति शेषः । अभिगृह्य बलात्कारेण
गृहीत्वा । हठात् अविमृश्यकारित्वेन । परिणेतुं विवोढुम् । आत्मभवनं चण्डव-
र्मगृहम् । अनीयत नीता ! अम्बालिकेति शेषः । कौतुकं-मङ्गलसूत्रम् । स
चण्डवर्मा । क्षपावसाने-रात्रिशेषे । विवाहो भविष्यतीति हेतोः । अबध्नात् बबन्ध
कौतुकमिति शेषः ।
( ७२) अहमपहारवर्मा । तद्विवाहाये-अम्बालिकापरिणयार्थम् । पिनद्धे-
ति-पिनद्धो बद्धः मङ्गलप्रतिसरो माङ्गलिकहस्तसूत्रं येन सः । तं धनमित्रम् एवम्
इत्थम् । समापतितं समागतम् । अङ्गराजाभिसरं अङ्गराजसाहाय्यकारि । राज-
मण्डलं नृपतिचक्रम् सुगूढं सुगुप्तम् । सम्भूय मिलित्वा । पौरवृद्धैरिति शेषः ।
तत्-राजमण्डलम् । उपावर्त्तय प्रतिनिवर्त्तय; भवतां साहाय्यं नापेक्ष्यते प्रागेव
परराभ्यास्कन्दनोचित विधिको करनेकी इच्छा कर रहा था, तब तक सिंहवर्माने स्वयं ही
प्राचीरको तोड़ करके तथा अपने सहायक राजाओंको, जो नगरके बहुत पास आ गये थे,
उनकी प्रतीक्षा किये बिना ही बहुत बड़ी सेनावाले शत्रुसे जा करके युद्ध ठान दिया । युद्धमें
छिन्नकवच सिंहवर्मा चण्डवर्मा द्वारा परिवद्ध कर लिया गया। राजकुमारी अम्बालिका
भी चण्डवर्मा द्वारा बलात्कारसे परिवद्ध कर ली गयी। और बलपूर्वक विवाहके लिये
चण्डवर्मा उसे अपने भवनमें ले आया। चण्डवर्माने मंगलसूत्र भी ( यह समझते हुए )
धारण कर लिया है कि, रात्रिसमाप्त होने पर विवाह होगा ।
( ७२ ) मैंने ( अपहारवर्माने ) भी धनमित्रके गृहमें ही उस राजपुत्री अम्बालिकाते
परिणय करनेके निमित्त मंगलसूत्र धारण करके धनमित्रसे कहा—'हे सखे ! अङ्गराजके
सहायक राजागण अपने दल-बलके साथ चले आ रहे हैं। अतः तुम पौरवृद्धोंके साथ उन