दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 205, कुल 474 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । २०७
( ६६ ) असावप्यमीभिः 'त्वमेवोन्मत्ता यानुन्मत्तं इत्युन्मत्तं मुक्त-
वती । कस्तमिदानीं बध्नाति' इति निन्दिता कदर्शिता रुदत्येव मामन्व-
धावत् । गत्वा च रागमञ्जरीगृहं चिरविरहखेदविह्वलामिमां बहुविधं
समाश्वास्य तं निशाशेषमनयम् । प्रत्यूषे पुनरुदारकेण च समगच्छे ।
( ७० ) अथ भगवन्तं मरीचिं वेशकृच्छ्रादुत्थाय पुनः प्रतितप्रतपः
प्रभावप्रत्यापन्नदिव्यचक्षुषमुपसंगम्य तेनास्म्येवंभूतत्वद्दर्शनमवगमितः ।
विशेषस्य । यथा वायसाः शौनेयं निग्रहीतुं न समर्थास्तथा एतेऽपि मां बन्धं न
शक्नुवन्तीति भावः । इति इत्युक्तवा । अभ्यधावम् धावितवान् ।
( ६९ ) असौ शृगालिका अमीभिः रक्षिपुरुषैः । अनुन्मत्त इति उन्मत्तो
न भवतीति कृत्वा मुक्तवती त्यक्तवती । कदर्शित!-तिरस्कृता । मामपहारवर्मा-
णम् । चिरेति-चिरविरहेण दीर्घविच्छेदेन यः खेदो दुःखं तेन विह्वलां व्याकु-
लाम् । इमां रागमञ्जरीम् । निशाशेषं रात्रेरवशिष्टभागम् । अनयम् अयापयम् ।
उदारकेण-धनमित्रेण । समगच्छे संमिलितोऽभवम् ।
( ७० ) भगवन्तम् ऐश्वर्यशालिनम् । मरीचिं तन्नामकमहर्षिम् । वेश-
कृच्छ्रात् वेश्याव्यसनात् । उत्थाय निर्मुक्तो भूत्वेत्यर्थः । पुनरिति-पुनः प्रतितप्तं
पुनः समाचरितं यत्तपस्तपस्या तस्य प्रभावेण माहात्म्येन प्रत्यापन्नं पुनः प्राप्तं
दिव्यमार्षं चक्षुर्यैन तादृशम् । तेन मरीचिना । एवम्भूतमेवं प्रकारेण त्वद्दर्शनं
तव राजवाहनस्यावलोकनम् । अवगमितः ज्ञापितः । अस्मि अहमिति शेषः ।
दिव्यदृष्ट्या विलोक्य मरीचिनैव एवमुक्तं यदेतादृशसमये एतादृशेन प्रकारेण
भवद्दर्शनं मे भविष्यतीति भावः । सिंहघोषः कारागृहस्थो मम सुहृत् । कान्त-
( ६९ ) तत्पश्चात्-यह शृगालिका उन रक्षकपुरुषोंके द्वारा फटकारी गयी 'तुम्हीं पगली
हो । क्योंकि, तुमने पागलोंको बन्धन रहित किया । अब यह अभी कैसे बंध सकता है ?'
ऐसे वाक्योंसे डाँटी जानेपर शृगालिका रोती हुई मेरे पीछे दौड़ी । दौड़ करके मैं रागमञ्जरी
को जो बहुत दिनोंके विरह के खेदसे विह्वल हो रही ( दुःखी हो रही ) थी उसे समाश्वा-
सन दे करके उस रात्रिके अवशिष्ट भागको वहीं पर बिताया । फिर सबेरे उदारक
( धनमित्र ) के पास सम्मिलित हुआ ।
( ७० ) इसके अनन्तर ऐश्वर्यवान् मरीचि नामक मुनिके समीप मैं गया । जो मरीचि
मुनि वेश्याके व्यसनसे दुःखी हो करके, पुनः अपने तपके प्रभावसे दिव्य दृष्टित्वको प्राप्त
कर चुके थे । उन्हीं मरीचि मुनिसे आपके ( राजवाहनके ) दर्शनका समाचार ज्ञात किया ।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu