दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
१५६ दशकुमारचरितम् । [ उत्तरपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
१५६ दशकुमारचरितम् । [ उत्तरपीठिकायां
सहस्राणि दीनाराणाम् । तदधं सभिकाय सभ्येभ्यश्च दत्त्वार्धं स्वीकृत्यो-
दतिष्ठम् ।
(२८) उदतिष्ठंश्च तत्र गताना हर्षगर्भाः प्रशंसालापाः । प्रार्थ्य-
मानसभिकानुरोधाच्च तदगारेऽत्युदारमभ्यवहारविधिमकरवम् । यन्मू-
लश्च मे दुरोदरावतारः स मे विमर्दको नाम विश्वास्यतरं द्वितीयं हृदय-
मासीत् । तन्मुखेन च सारतः कर्मतः शीलतश्च सकलमेव नगरमवधार्य
धूर्जटिकण्ठकल्माषकालतमे तमसि नीलनिवसनार्धोरुकपरिहितो बद्ध-
जित इत्यत्र जिधातोरप्रधाने कर्मणि असावित्यत्र निष्ठाप्रत्ययः । तदधैविजितधनस्या-
र्धम् । स्वीकृत्य स्वयं गृहीत्वा । उदतिष्ठम् उत्थितोऽभवम् ।
(२८) तत्र गतानां-द्यूतसमाजस्थितानाम् । हर्षगर्भाः आनन्दमिश्राः । प्रशंसा-
लापाः प्रशंसासूचकवाक्यानि । प्रार्थ्यमानेति-प्रार्थ्यमानस्य मम गृहे त्वया भोक्त-
व्यमिति प्रार्थनां कुर्वतः सभिकस्य द्यूताध्यक्षस्यानुरोधात् प्रार्थनानुसारेण । तदगारे-
ऽभिकगृहे । अत्युदारमत्युत्कृष्टम् । अभ्यवहारविधिं भोजनव्यापारम् । यन्मूलः
यन्निमित्तकः । दुरोदरावतारः-द्यूतक्रीडाप्रवेशः । विश्वास्यतरमत्यन्तविश्वास-
भाजनम् । द्वितीयं हृदयं परममित्रम् । तन्मुखेन विमर्दकसहाय्येन । सारतो
बलात् । कर्मतोऽनुष्ठानात् । शीलतः स्वभावाच्च । अवधार्यके कीदृक् सारवन्तः
कर्मवन्तः स्वभाववन्तश्चेति निश्चित्य । धूर्जटोति-धूर्जटेर्महादेवस्य कण्ठे गले
यत्कल्माषं कालिमा तद्वत् कालतमेऽतिकृष्णवर्णे । अतिघोरे इति भावः । तमस्य-
न्धकारे । नीलेति-नीलं कृष्णवर्णं यन्निवसनं वस्त्रं तस्य यदधोरुकमधोरु व्यापि
अवगुण्ठनं तत्परिहितमाच्छादितं येन सः । नीलवस्त्राच्छादितशरीरः । निष्क्रान्तस्य
अशर्फियाँ जीत लीं । उनमेंसे आधी द्यूताध्यक्षको और आधी की आधी सभ्योंको दे कर के
आधी अशर्फियां अंटी में कीं और उठ खड़ा हुआ ।
(२८) मेरे उठने के साथ ही वहां पर विद्यमान सब लोगों के सहर्ष प्रशंसा-
भरे वचनों से कोलाहल-सा मच गया । द्यूताध्यक्ष के पुनः पुनः प्रार्थना करने
पर मैंने उसी के घर जा करके अतिशय उदारतापूर्वक भोजन किया । जिसकी बदौ-
लत मैं इस द्यूतकर्म में प्रवृत्त हुआ था, वह 'विमर्दक' नामक मेरा अति विश्वास-
नीय दूसरे हृदय के समान अभिन्न मित्र था । उसीकी जबानी मैंने अपने बल,
कर्म और शीलसे सारे शहरको अपनी अच्छाईका विश्वास दिला दिया । तदनन्तर जब
श्रीशिवजीके कण्ठकी तरह काला अन्धकार छा गया, तब नीले रंगका अर्धोरुक (लबादा)
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १५७
तीक्ष्णकौक्षेयकः फणिमुखकाकलीसंदंशकपुरुषशीर्षकयोगचूर्णयोगवर्तिका-
मानसूत्रकर्कटकरज्जुदीपभाजनभ्रमरकरण्डकप्रभृत्यनेकोपकरणयुक्तो गत्वा
कस्यचिल्लुब्धेश्वरस्य गृहे संधि छित्त्वा पटभाससूक्ष्मच्छिद्रालक्षि-
तान्तर्गृहप्रवृत्तिरव्यथो निजगृहमिवानुप्रविश्य नीवीं सारमहतीमादाय
निरगाम् ।
( २६ ) नीलनारदनिकरपीवरतमोनिबिडितायां राजवीथ्यां झटिति
परनिपातः । कौक्षेयकः खड्गः । फणिमुखेति-अग्रे वक्ष्यमाणानि सर्वाण्येव चौर्य-
साधनान्युपकरणानि । फणिमुखं फणिनो मुखमिव मुखं यस्य तत् । सुरुङ्गाखनन-
साधनमस्त्रविशेषः । काकली काकचञ्च्वाकारयन्त्रविशेषः कर्तरीति प्रसिद्धः ।
सन्दंशकः दृढनिखातकीलोत्पाटनार्थं यन्त्रविशेषः साडांशीति भाषा । पुरुष-
शीर्षकं पुरुषमस्तकाकारकाष्ठमयशिरः परीक्षार्थं सुरुङ्गायां प्रथमप्रवेशनार्थम् ।
योगचूर्णं निष्पं जनौषधिमूलादिचूर्णं गृहस्थानां गभीरनिद्रावेशसाधनम् । योगव-
र्तिका-अग्निं विना आलोकसाधनम् । मानसूत्र प्रमाणरज्जुः, कर्कटकः कुलीरा-
कृतियन्त्रविशेषः । रज्जुः सौधाग्रारोहणार्थम् । दीपभाजनमालोकाधारः, भ्रमर-
करण्डकं दीपनिर्वापणार्थं शलभभाण्डम्-इत्यादिभिरनेकै रुपकरणैर्युक्तः, अहमिति
शेषः । लुब्धेश्वरस्य लुब्धधनिकस्य धूर्तप्रधानस्य वा । सन्धिं इष्टकासंयोगम् ।
पटभासेति-पटभासो गवाक्षजालं तस्य सूक्ष्मेण छिद्रेण विवरेण आलचिता दृष्टा
अन्तर्गृहे गृहमध्ये स्थितानां प्रवृत्तिर्वृत्तान्तो येनासौ । अव्यथः अश्रान्तः । नीवीं
मूलधनम् । सारमहतीं सारेण श्रेष्ठरत्नादिना महतीं महामूल्यवतीम् । निरगाम्
निरगच्छम् ।
(२९) नीलेति-नीलाः कृष्णा ये नीरदा मेघास्तेषां निकरः समूहस्तद्भव
पहना । कमरमें अतितीक्ष्ण तलवार बांधी । सेंध लगानेवाली, शबरी-कैंची, संड़सी, काष्ठ-
निर्मित पुरुषका मस्तक, योगवर्तिका, (जिसके जलानेपर सर्पं दीख जाते हैं) नापनेका फीता
यन्त्रसाधन, रस्सी, दीपपात्र, भ्रमरकरण्डक (दीपक बुझानेवाले भौरोंसे भरी पेटी)
आदि अनेक प्रकारकी सामग्रियां ले करके गया और एक लोभी धनीके घरमें सेंध लगायी
वहाँ पहले मैंने झरोकेके सूक्ष्म छिद्रसे घरकी सारी स्थिति भलीभांति देख ली और तब
बिना हिचकके अपने घरके समान घुस गया तथा एक बहुमूल्य करधनी चुरा करके
निकल आया ।
( २९ ) बाहर काले बादलों के कारण अतिशय घने अन्धकारयुक्त राजमार्गमें एकाएक
Nepal Sanskrit University, Balmeeki Campus, Kathmandu