दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
१३० दशकुमारचरितम् । [ उत्तरपीठिकायां
१३० दशकुमारचरितम् । [ उत्तरपीठिकायां
क्वासौ भगवान् मरीचिः तस्मादहमुपलिप्सुः प्रसङ्गप्रोषितस्य सुहृदो
गतिम् आश्चर्यज्ञानविभवो हि स महर्षिर्महां विश्रुत इत्यवादिषम् ।
( ३ ) अथासावुष्णमायतञ्च निःश्वस्याशंसत—आसीत्तादृशो मुनिर-
स्मिन्नाश्रमे । तमेकदा काममञ्जरी नामाङ्गपुरीतंसस्थानीया वारयुव-
तिरश्रुबिन्दुतारकितपयोधरा सनिर्वेदमभ्येत्य कीर्णशिखण्डास्तीर्णभूमि-
रभ्यवन्दिष्ट ।
( ४ ) तस्मिन्नेव च क्षणे मातृप्रमुखस्तदाप्तवर्गः सानुक्रोशमनुप्रधा-
शेषः । तस्मात् मरीचेः सकाशात् । उपलिप्सुः ज्ञातुमिच्छुः । प्रसङ्गेति-प्रसङ्गेन
केनापि कारणेन प्रोषितस्य देशान्तरगतस्य । सुहृदः मित्रस्य, राजवाहनस्येत्यर्थः ।
गतिं प्रचारम् । आश्चर्यजनको ज्ञानस्य विभवो माहात्म्यं यस्यासौ । विश्रुतः
प्रसिद्धः । अवादिषम् । अकथयम् ।
( ३ ) अथ मद्वचनश्रवणानन्तरम् । असौ विवर्णमुखस्तापसः । आयतं दीर्घं ।
उष्णमायतं चेति पदद्वयं क्रियाविशेषणम् । अशंसत अकथयत् । तादृशः त्वदु-
क्तगुणयुक्तः । तं मुनिम् । अङ्गपुरी अङ्गदेशराजधानी चम्पेति ख्याता तस्या-
वतंसस्थानीया शेखरभूता-वतंसः कर्णभूषणशिरोभूषणयोरिति कोशात् । वारयु-
वतिर्वेश्या । अश्रुबिन्दुभिर्नेत्रजलकणिकाभिस्तारकितौ व्याप्तौ पयोधरौ स्तनौ
यस्याः सा रुदतीत्यर्थः । सनिर्वेदं सवैराग्यं सर्वत्र विरक्त्या सहेति शेषः । कीर्णेति-
कीर्णः प्रसृतो यः शिखण्डः केशपाशस्तेनास्तीर्णा व्याप्ता भूमियया सा । स्वकेश-
कलापेन भूमिमाच्छाद्य नमस्कृतवतीत्यर्थः ।
( ४ ) मातृप्रमुखो जनन्यादिः । तस्याः काममञ्जर्या आप्तवर्ग आत्मीयगणः ।
'करनेके अनन्तर मैने तपस्वीजीसे पूछा- भगवन् ! महर्षि मरीचि कहां हैं ? प्रसङ्गवश मेरे
मित्रका विच्छेद हो गया है। मैं उसका पता लगाना चाहता हूं। मैंने सुना है कि,
उनके पास आश्चर्यजनक ज्ञानका वैभव है।'
( ३ ) मेरी बात सुन करके तपस्वीजीने गरम तथा लम्बी सांस ली और कहा हाँ,
इस आश्रममें एक वैसा मुनि था। एक समय काममञ्जरी नामकी एक वेश्या जो
चम्पापुरीका अलङ्कार मानी जाती थी-उसके पास गयी और पृथ्वीपर माथेके बाल
बखेर करके बड़ी वेदनाके साथ प्रणाम किया। उस समय उसके कुचोंपर पड़ी आँसूकी
बूँदें झलक रही थी।
( ४ ) उसी समय काममञ्जरीके आत्मीयजन मारे शोकके कारण व्याकुलभाव से
द्वितीयोच्छ्वासः । व्याख्याद्वयोपेतम् । १३१
वितस्तत्रैवाविच्छिन्नपातमपतत् । स किल कृपालुस्तं जनमार्द्रया
गिराश्वास्यार्तिकारणं तां गणिकामपृच्छत् । सा तु सव्रीडेव सविषादेव
सगौरवेव चाब्रवीत् - 'भगवन्, ऐहिकस्य सुखस्याभाजनं जनोऽयमा-
मुष्मिकाय श्वोवसीयायार्त्ताभ्युपपत्तिवित्तयोर्भगवत्पादयोर्मूलं शरणमभि-
प्रपन्नः'-इति ।
(५) तस्यास्तु जनन्युदञ्जलिः पलितशारशिखण्डबन्धस्पृष्टमुक्तभू-
सानुक्रोशं सदयम् । अनुप्रधावितः पश्चादागतः । तत्रैव मरीचेः पुरतः अविच्छिन्न-
पातं पुनः पुनर्निपत्य । सः महर्षिः । तं जनम्-आप्तवर्गम् । आर्द्रया स्निग्धया ।
गिरा वचनेन । आर्त्तिकारणं निर्वेदनिदानम् । गणिकां वेश्यां काममञ्जरी-
मिति यावत् । सा काममञ्जरी । सव्रीडेव सलज्जेव । सविषादेव सनिर्वेदेव । स-
गौरवेव साभिमानेव । अत्र सलज्जत्वादिकं सर्वमेव कृत्रिमं न तु वास्तवम् । स्वोत्त-
मत्ताप्रकटनार्थं सलज्जेति । स्वनिर्वेदस्य मुनेः प्रत्ययार्थं सविषादेति । अहमस्य
मुनेर्मानसमावर्जयितुं क्षमेत्यभिमानात् सगौरवत्वम् । इह-अस्मिन् जन्मनि भव-
मैहिकं तस्य । अभाजनम् अस्थानमपात्रमित्यर्थः । अयं जनः-मल्लक्षणो वेश्या-
जनः । अमुष्मिन् जातमामुष्मिकं पारलौकिकमिति यावत् तस्मै । श्वोवसीयाय
कल्याणाय श्वःश्रेयसं स्यात्कल्याणं श्वोवसीयं शिवं शुभमिति कोषः । ऐहिकं
सुखं तावन्न लब्धं मया-अनन्तरं च पारलौकिकं मङ्गलं स्वर्गभोगादिकं यथा मे
स्यात्तदर्थमिति भावः । आर्त्तेति-आर्त्तानां पीडितानां विपन्नानामिति यावत्-
अभ्युपपत्त्या अनुग्रहेण परिपालनेनेति यावत्-वित्तयोः ख्यातयोः सर्वत्र प्रसिद्धयो-
रिति यावत् । भगवत्पादयोर्विशेषणमेतत् । भगवतस्तव महर्षेरिति शेषः । पादयो-
श्चरणयोः । मूल-मन्तिकम् । अभिप्रपन्नः-प्राप्तः ।
(५) तस्याः काममञ्जर्याः । जननी माता । उदञ्जलिरूर्ध्वीकृतकरपुटा ।
पीछे-पीछे दौड़ते हुए आये और महर्षि मरीचिके सम्मुख बार-बार गिरने लगे ।
तब उन दयालु महर्षिने उन लोगोंको प्रेमार्द्र वचनों से ढाढ़स बँधा करके काममञ्जरी से
दुःखका कारण पूछा । उस वेश्याने लज्जा, विषाद, किन्तु अभिमानपूर्वक कहा
-'भगवन् ! इस प्राणीने (मैंने) इस जीवनमें कोई सुख नहीं पाया । सो अब पार-
लौकिक कल्याणके निमित्त मैं आपके इन चरणोंके शरणमें आ पड़ी हूं जो दुखी जनोंपर
अनुग्रह करके उनका दुःख दूर कर दिया करते हैं।'
(५) इसी समय कुछ सफेद और कुछ काले बालोंके कारण चितकबरे जूड़ेवालो