सामग्री पर जाएँ
सर्वकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 129, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 129

द्वितीयोच्छ्वासः । व्याख्याद्वयोपेतम् । १३१
वितस्तत्रैवाविच्छिन्नपातमपतत् । स किल कृपालुस्तं जनमार्द्रया
गिराश्वास्यार्तिकारणं तां गणिकामपृच्छत् । सा तु सव्रीडेव सविषादेव
सगौरवेव चाब्रवीत् - 'भगवन्, ऐहिकस्य सुखस्याभाजनं जनोऽयमा-
मुष्मिकाय श्वोवसीयायार्त्ताभ्युपपत्तिवित्तयोर्भगवत्पादयोर्मूलं शरणमभि-
प्रपन्नः'-इति ।
(५) तस्यास्तु जनन्युदञ्जलिः पलितशारशिखण्डबन्धस्पृष्टमुक्तभू-
सानुक्रोशं सदयम् । अनुप्रधावितः पश्चादागतः । तत्रैव मरीचेः पुरतः अविच्छिन्न-
पातं पुनः पुनर्निपत्य । सः महर्षिः । तं जनम्-आप्तवर्गम् । आर्द्रया स्निग्धया ।
गिरा वचनेन । आर्त्तिकारणं निर्वेदनिदानम् । गणिकां वेश्यां काममञ्जरी-
मिति यावत् । सा काममञ्जरी । सव्रीडेव सलज्जेव । सविषादेव सनिर्वेदेव । स-
गौरवेव साभिमानेव । अत्र सलज्जत्वादिकं सर्वमेव कृत्रिमं न तु वास्तवम् । स्वोत्त-
मत्ताप्रकटनार्थं सलज्जेति । स्वनिर्वेदस्य मुनेः प्रत्ययार्थं सविषादेति । अहमस्य
मुनेर्मानसमावर्जयितुं क्षमेत्यभिमानात् सगौरवत्वम् । इह-अस्मिन् जन्मनि भव-
मैहिकं तस्य । अभाजनम् अस्थानमपात्रमित्यर्थः । अयं जनः-मल्लक्षणो वेश्या-
जनः । अमुष्मिन् जातमामुष्मिकं पारलौकिकमिति यावत् तस्मै । श्वोवसीयाय
कल्याणाय श्वःश्रेयसं स्यात्कल्याणं श्वोवसीयं शिवं शुभमिति कोषः । ऐहिकं
सुखं तावन्न लब्धं मया-अनन्तरं च पारलौकिकं मङ्गलं स्वर्गभोगादिकं यथा मे
स्यात्तदर्थमिति भावः । आर्त्तेति-आर्त्तानां पीडितानां विपन्नानामिति यावत्-
अभ्युपपत्त्या अनुग्रहेण परिपालनेनेति यावत्-वित्तयोः ख्यातयोः सर्वत्र प्रसिद्धयो-
रिति यावत् । भगवत्पादयोर्विशेषणमेतत् । भगवतस्तव महर्षेरिति शेषः । पादयो-
श्चरणयोः । मूल-मन्तिकम् । अभिप्रपन्नः-प्राप्तः ।
(५) तस्याः काममञ्जर्याः । जननी माता । उदञ्जलिरूर्ध्वीकृतकरपुटा ।
पीछे-पीछे दौड़ते हुए आये और महर्षि मरीचिके सम्मुख बार-बार गिरने लगे ।
तब उन दयालु महर्षिने उन लोगोंको प्रेमार्द्र वचनों से ढाढ़स बँधा करके काममञ्जरी से
दुःखका कारण पूछा । उस वेश्याने लज्जा, विषाद, किन्तु अभिमानपूर्वक कहा
-'भगवन् ! इस प्राणीने (मैंने) इस जीवनमें कोई सुख नहीं पाया । सो अब पार-
लौकिक कल्याणके निमित्त मैं आपके इन चरणोंके शरणमें आ पड़ी हूं जो दुखी जनोंपर
अनुग्रह करके उनका दुःख दूर कर दिया करते हैं।'
(५) इसी समय कुछ सफेद और कुछ काले बालोंके कारण चितकबरे जूड़ेवालो