सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

चतुर्थ उच्छ्वासः ।

सोमदत्तस्य च वृत्तान्तमस्मै निवेद्य सोमदत्तम् 'महाकालेश्वराराधनानन्तरं
भवद्वल्लभां सपरिवारां निजकटकं प्रापय्यागच्छ' इति नियुज्य पुष्पोद्भवेन
सेव्यमानो भूस्वर्गायमानमवन्तिकापुरं विवेश । तत्र 'अयं मम स्वामिकु-
मारः' इति बन्धुपालादये बन्धुजनाय कथयित्वा तेन राजवाहनाय बहु-
विधां सपर्यां कारयन्सकलकलाकुशलो महीसुरवर इति पुरि प्रकटयन्पु-
ष्पोद्भवोऽमुष्य राज्ञो मज्जनभोजनादिकमनुदिनं स्वमन्दिरे कारयामास ।
इति श्रीदण्डिनः कृतौ दशकुमारचरिते पुष्पोद्भवचरितं नाम
चतुर्थ उच्छ्वासः ।

अस्मै पुष्पोद्भवाय । महाकालेश्वरस्य उज्जयिनीस्थमहादेवस्याराधनस्य पूजायाः अ-
नन्तरं पश्चात् । भवतस्तव सोमदत्तस्येति शेषः । वल्लभां पत्नीम् । सपरिवारां सप-
रिजनाम् । निजकटकं स्ववसतिम् । प्रापय्य नीत्वा । नियुज्य आदिश्य सोमदत्तमिति शेषः। भूस्वर्गेति-भुवि पृथिव्यां स्वर्ग इवाचरदिति भूस्वर्गायमाणं=स्वर्गतुल्य-
मित्यर्थः । स्वामिकुमारः प्रभुपुत्रः । बन्धुपाल आदियेस्य तस्मै । तेन बन्धुजनेन =
प्रयोज्यकर्त्रा । सपर्यां पूजाम् । सकलासु कलासु विद्यासु कुशलः पटुः महीसुरवरः
द्विजश्रेष्ठः । इति एतत् । पुरि नगरे । प्रकटयन् प्रकाशयन् । राजवाहनस्य नृपत्वं
गोपयन्निति भावः मज्जनभोजनादिकं स्नानाशनादिकम् । अनुदिनं प्रतिदिनसम ।
स्वमन्दिरे निजगृहे पुष्पोद्भवस्येति शेषः ।
इति श्रीताराचरणभट्टाचार्यकृतायां बालविबोधिनीसमाख्यायां
दशकुमारचरितव्याख्यायां चतुर्थ उच्छ्वासः।

कहा— अपनी पत्नी तथा कुटुम्बी जनोंको महाकालके पूजनके पश्चात्, यथास्थान पहुँचाकर,
शीघ्र मेरे पास आओ । इस रीति से सोमदत्तको आदेश देकर राजवाहन, पुष्पोद्भव के
साथ-साथ भूमण्डलपर स्वर्गके सदृश सुन्दर अवन्तिकापुरीमें आया । वहाँ आनेपर पुष्पो-
द्भवने अपने मित्रों बन्धुपाल आदिसे कहा— ये मेरे स्वामिपुत्र हैं । इस बातको सुनकर
उन लोगोंने अनेक प्रकारके पदार्थोंके द्वारा राजवाहन का स्वागत सत्कार किया तथा पूजन
किया । अपने नगरमें राजवाहनका परिचय कराते हुए लोगोंसे कहा— ये समस्त कला में
प्रवीण ब्राह्मण हैं— ऐसा कहकर राजवाहनको नगरवासियोंसे गुप्त रखा । फिर अपने बृहद्
राजमन्दिर में उसे स्नान भोजन नित्य कराने लगा तथा सुखसे निवास करने लगा ।
इस प्रकारसे चतुर्थोच्छ्वासकी बालक्रोड़ा नामक हिन्दी टीका समाप्त हुई ।

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
पञ्चमोच्छ्वासः
(१) अथ मीनकेतनसेनानायकेन मलयगिरिमहीरुहनिरन्तरावासि-
भुजङ्गमभुक्तावशिष्टेनेव सूक्ष्मतरेण धृतहरिचन्दनपरिमलभरेणेव मन्दग-
तिना दक्षिणानिलेन वियोगिहृदयस्थं मन्मथानलमुज्ज्वलयन्, सहकारकि-
सलयमकरन्दास्वादनरक्तकण्ठानां मधुकरकलकण्ठानां काकलीकलकलेन
दिक् चक्रं वाचालयन्, मानिनीमानसोत्कलिकामपनयन्, माकन्दसिन्दुवार-
(१) अथेति । अथानन्तरं वसन्तसमयः समाजगामेत्यग्रिमेणान्वयः। मीनेति-
मीनकेतनस्य कामस्य सेनायाः सैन्यस्य नायकः प्रधानवीरः सेनापतिरित्यर्थः, तेन ।
मलया निलस्य अत्यन्तकामोद्दीपकत्वाद्नायकत्वमुक्तम् । मलयगिरेर्मलयपर्वतस्य म-
हीरुहेषु वृक्षेषु निरन्तरं निरवच्छिन्नं निबिडमिति यावत्, आवासिनां वासं कुर्वतां
भुजङ्गमानां सर्पाणां भुक्तस्य खादितस्यावशिष्टेन अतिरिक्तनेव, अत एव सूक्ष्मतरेण
मन्दतरेण । भुजङ्गमानां पवनाशनत्वाद् यावान् वायुर्मलयाचलाच्चलितस्तस्य प्रचु-
रोंऽशस्तैः खादितस्ततोऽवशिष्टः अत एव मन्दतर इति भावः । मन्दतरत्वे हेतुरुत्प्रेक्षि-
तः । धृतेति- धृतः स्वीकृतो हरिचन्दनस्य वृक्षविशेषस्य परिमलभर आमोदातिशयो
येन तेनेव मन्दगतिना धीरेण । भाराक्रान्तत्वं मन्दगतित्वे हेतुः स चोत्प्रेक्षितः । गृ-
हीतभारस्य मन्दगतित्वञ्च स्वभावसिद्धम् । दक्षिणानिलेन मलयवायुना करणेन । वि-
योगिनां विरहिणां हृदयेषु चित्तेषु तिष्ठतीति वियोगिहृदयस्थं विरहिहृद्गतम् । म-
न्मथानलं कामाग्निम् । उज्ज्वलयन् उद्दीपयन्-उज्ज्वलयन्नित्यादि शत्रन्तपदानि
वसन्तसमय इत्यस्य विशेषणानि, सहकारेति - सहकाराणामाम्रतरूणां किसलयम-
करन्दयोः पल्लवपुष्परसयोः स्वादनेन भक्षणेन रक्तो मधुररागयुक्त इति यावत् कण्ठ-
स्वरो येषां तेषाम् । मधुकरा भ्रमराश्च कलकण्ठाः कोकिलाश्च ते तेषाम् । काकली-
कलकलेन काकलीकोलाहलेन । दिशां चक्रं मण्डलम् । वाचालयन् मुखरयन् । मानि-
नीनां मानवतीनां मानसस्य मनस उत्कलिकामुकण्ठामू । अपनयन् प्रापयन् । माक-
न्दः सहकारश्च सिन्दुवारो निर्गुण्डी च रक्ताशोकश्च किंशुकः पलाशश्च तिलकस्तिल-
(१) अनन्तर कुछ समय बाद वसन्त ऋतु आकर उपस्थित हो गयी जिसका सेनाधिप
स्वयं मीनकेतन कामदेव था । मलय पर्वतपरके चन्दनके वृक्षोंपर निवास करनेवाले साँपोंके
पीनेसे अवशिष्ट तथा चन्दनकी सुगन्धसे मिश्रित पवन शनैः शनैः चलता हुआ दक्षिण पवन
के साथ विरहियोंके अन्तःकरणोंमें कामोद्दीपन कर रहा था। आमकी मञ्जरियोंके परागोंका
आस्वादन कर लाल कण्ठवाले कोकिलोंकी मधुर ध्वनिसे तथा भ्रमरोंकी गुञ्जारोंसे कामदेवने
दिशाओंको मुखरित कर दिया था और मानिनी अंगनाओंके हृदयोंको उत्कण्ठित कर दिया
था । आम, निर्गुण्डी, रक्ताशोक, पलाश तथा तिलकादि वृक्षोंको अंकुरित करके मदन-
६ द० कृ० पू०
Nepal Sanskrit University, Balmeeki Campus, Kathmandu