दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 80, कुल 474 में से
संदर्भ में पढ़ेंसोमदत्तस्य च वृत्तान्तमस्मै निवेद्य सोमदत्तम् 'महाकालेश्वराराधनानन्तरं
भवद्वल्लभां सपरिवारां निजकटकं प्रापय्यागच्छ' इति नियुज्य पुष्पोद्भवेन
सेव्यमानो भूस्वर्गायमानमवन्तिकापुरं विवेश । तत्र 'अयं मम स्वामिकु-
मारः' इति बन्धुपालादये बन्धुजनाय कथयित्वा तेन राजवाहनाय बहु-
विधां सपर्यां कारयन्सकलकलाकुशलो महीसुरवर इति पुरि प्रकटयन्पु-
ष्पोद्भवोऽमुष्य राज्ञो मज्जनभोजनादिकमनुदिनं स्वमन्दिरे कारयामास ।
इति श्रीदण्डिनः कृतौ दशकुमारचरिते पुष्पोद्भवचरितं नाम
चतुर्थ उच्छ्वासः ।
अस्मै पुष्पोद्भवाय । महाकालेश्वरस्य उज्जयिनीस्थमहादेवस्याराधनस्य पूजायाः अ-
नन्तरं पश्चात् । भवतस्तव सोमदत्तस्येति शेषः । वल्लभां पत्नीम् । सपरिवारां सप-
रिजनाम् । निजकटकं स्ववसतिम् । प्रापय्य नीत्वा । नियुज्य आदिश्य सोमदत्तमिति शेषः। भूस्वर्गेति-भुवि पृथिव्यां स्वर्ग इवाचरदिति भूस्वर्गायमाणं=स्वर्गतुल्य-
मित्यर्थः । स्वामिकुमारः प्रभुपुत्रः । बन्धुपाल आदियेस्य तस्मै । तेन बन्धुजनेन =
प्रयोज्यकर्त्रा । सपर्यां पूजाम् । सकलासु कलासु विद्यासु कुशलः पटुः महीसुरवरः
द्विजश्रेष्ठः । इति एतत् । पुरि नगरे । प्रकटयन् प्रकाशयन् । राजवाहनस्य नृपत्वं
गोपयन्निति भावः मज्जनभोजनादिकं स्नानाशनादिकम् । अनुदिनं प्रतिदिनसम ।
स्वमन्दिरे निजगृहे पुष्पोद्भवस्येति शेषः ।
इति श्रीताराचरणभट्टाचार्यकृतायां बालविबोधिनीसमाख्यायां
दशकुमारचरितव्याख्यायां चतुर्थ उच्छ्वासः।
कहा— अपनी पत्नी तथा कुटुम्बी जनोंको महाकालके पूजनके पश्चात्, यथास्थान पहुँचाकर,
शीघ्र मेरे पास आओ । इस रीति से सोमदत्तको आदेश देकर राजवाहन, पुष्पोद्भव के
साथ-साथ भूमण्डलपर स्वर्गके सदृश सुन्दर अवन्तिकापुरीमें आया । वहाँ आनेपर पुष्पो-
द्भवने अपने मित्रों बन्धुपाल आदिसे कहा— ये मेरे स्वामिपुत्र हैं । इस बातको सुनकर
उन लोगोंने अनेक प्रकारके पदार्थोंके द्वारा राजवाहन का स्वागत सत्कार किया तथा पूजन
किया । अपने नगरमें राजवाहनका परिचय कराते हुए लोगोंसे कहा— ये समस्त कला में
प्रवीण ब्राह्मण हैं— ऐसा कहकर राजवाहनको नगरवासियोंसे गुप्त रखा । फिर अपने बृहद्
राजमन्दिर में उसे स्नान भोजन नित्य कराने लगा तथा सुखसे निवास करने लगा ।
इस प्रकारसे चतुर्थोच्छ्वासकी बालक्रोड़ा नामक हिन्दी टीका समाप्त हुई ।