सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

७४ · दशकुमारचरितम् । [ पूर्वपीठिकायां

७४ · दशकुमारचरितम् । [ पूर्वपीठिकायां
तदनु दारुवर्मा वाक्यानीत्थंविधानि श्रावं श्रावं तूष्णीं यदि भिया स्थास्यति
तर्हि वरम्, यदि वा दौर्जन्येन त्वया सङ्गमङ्गीकरिष्यति, तदा स भवदी-
यैरित्थं वाच्यः—
( १६ ) 'सौम्य, दर्पसारवसुधाधिपामात्यस्य भवतोऽस्मन्निवासे साहसं
करणमनुचितम्। पौरजनसाक्षिकं भवन्मन्दिरमानीतया अनया तोयजाक्ष्या
सह क्रीडन्नायुष्मान्यदि भविष्यति तदा परिणीय तरुणीं मनोरथान्निर्विश'
इति । सोऽप्येतदङ्गीकरिष्यति । त्वं सखीवेषधारिणा मया सह तस्य
मन्दिरं गच्छ । अहमेकान्तनिकेतने मुष्टिज्ञानुपादाघातैस्तं रभसान्निहत्य
पुनरपि वयस्यामिषेण भवतीमनु निःशङ्कं निर्गमिष्यामि ! तदेनमुपायम-
ङ्गीकृत्य विगतसाध्वसलज्जा भवज्जनकजननीसहोदराणां पुरत आवयोः
असकृत् पुनः पुनः । भिया भयेन । यदि वा पक्षान्तरे । दौर्जन्येन दुर्जन्येनतया हेतु-
ना । त्वया सहेति शेषः । सङ्गमासक्तिम् । अङ्गीकरिष्यति स्वीकरिष्यति । स दारु-
वर्मा । इत्थं वक्ष्यमाणम् । वाच्यः कथनीयः ।
( १९ ) दर्पसारवसुधाधिपस्य दर्पसारनृपतेरमात्यस्य मन्त्रिणः । अस्मन्निवासे
अस्माकं गृहे । साहसकरणं साहसिककार्यानुष्ठानम् । पौरजनाः साक्षिणो यस्मिंस्तत्तथा
तथेति क्रियाविशेषणम् । पुरजनानां समक्षमित्यर्थः । भवतो मन्दिरं गृहम् । तोयजे
कमले इवाक्षिणी यस्यास्तया । क्रीडन् विहरन् । आयुष्मान् कुशली । परिणीय वि-
बाह्य । निर्विश उपभुंक्ष्व । सोऽपि दारुवर्माऽपि । एतत् यन्मयोक्तमिति भावः । त्वं
बालचन्द्रिका । मया पुष्पोद्भवेनेत्यर्थः । तस्य दारुवर्मणः । एकान्तनिकेतने निर्जने
गृहे । मुष्ट्या जानुना पादेन च ये आघाताः प्रहारास्तैः । रभसाद् वेगात् । वयस्या-
मिषेण सखीव्याजेन । भवतीमनु तव पश्चात् । विगते अपगते साध्वसलज्जे भयत्रपे
चाहिये। यदि दारुवर्मा इस बातसे भयान्र्वित हो जाय तो ठीक है। और यदि वह न मानें
तथा उत्पति मचावे तो तुम्हारे घरके लोग उससे यह कह दें—
( १९) हे सौम्य ! आप राजा दर्पसारके अमात्य हैं। हमारे गृहपर आपको ऐसा करना
अनुचित है। नगरवासियोंके सामने इस पद्मलोचनाको अपने यहां ले जाकर यदि सुखसे रह
सकें तो रहें और इसके साथ परिणय भी वहीं कर लें तथा मनोभिलाष पूर्ण करें। वह अवश्य
इस बातको स्वीकार कर लेगा तब उस समय सखीके वेषमें मैं तुम्हारे साथ चलूंगा तुम मेरे
साथ उसके यहां चलनेको राजी हो जाना। समय पाकर एकान्तमें मैं उसे मुक्कों-लातों-थप्पड़ों
आदिके प्रहारोंसे मार डालूंगा। फिर उसी वेषमें तुम्हारी सखीके रूपमें बाहर चला आऊंगा।
मेरी इस युक्तिको तुम स्वीकार कर लो और अपने जननी-जनक-भाई आदिसे अपनी प्रगाढ़

चतुर्थोच्छ्वासः ] व्याख्याद्वयोपेतम् । ७५
प्रेमातिशयमाख्याय सर्वथास्मत्परिणयकरणे ताननुनयेः । तेऽपि वंशसंप-
ल्लावण्याढ्याय यूने मह्यं त्वां दास्यन्त्येव । दारुवर्मणो मारणोपायं तेभ्यः
कथयित्वा तेषामुत्तरमाख्येयं मह्यम्' इति ।
(२०) सापि किञ्चिदुत्फुल्लसरसिजानना मामब्रवीत्—'सुभग, क्रूर-
कर्माणं दारुवर्माणं भवानेव हन्तुमर्हति । तस्मिन्हते सर्वथा युष्मन्मनो-
रथः फलिष्यति । एवं क्रियताम् । भवदुक्तं सर्वमहमपि तथा करिष्ये'
इति मामसकृद्विवृत्तवदना विलोकयन्ती मन्दं मन्दमगारमगात् । अहमपि
बन्धुपालमुपेत्य शकुनज्ञात्तस्मात् 'त्रिंशदिवसानन्तरमेव भवत्सङ्गः संभवि-
ष्यति' इत्यश्रृणवम् । तदनु मदनु मदनुगम्यमानो बन्धुपालो निजावासं
प्रविश्य मामपि निलयाय विससर्ज ।
यस्याः सा । त्वमिति शेषः । प्रेम्णोऽनुरागस्य अतिशयमाधिक्यम् । सर्वथा सर्वप्रका-
रेण । तान् जनकादीन् । अनुनयेः प्रीणयेः । वंशसम्पदा कुलगौरवेण लावण्येन
सौन्दर्येण चाढ्याय सम्पन्नाय । यूने तरुणाय । तेभ्यो जनकादिभ्यः । तेषामुत्तरं—
ते एतत् सर्वं श्रुत्वा यत् कथयिष्यन्ति तत् । आख्येयं कथनीयम् ।
(२०) किञ्चिदुत्फुल्लमीषद्विकसितं सरसिजं कमलमित्राननं वदनं यस्याः सा ।
सुभग सौम्येति सम्बोधनम् । युष्मन्मनोरथः मत्पाणिग्रहणरूपः । तथा=यथा भवतो-
पदिष्टम् । असकृत्पुनः पुनः । विवृत्तं परावृत्तं वदनं यया सा । पश्चात् स्थितं मामव-
लोकयितुमिति भावः । अगारं गृहम् । शकुनज्ञात् निमित्तज्ञानकुशलात् । तस्मात्
बन्धुपालात् । भवत्सङ्गः भवता सह मिलनम् । मदनुगम्यमानः मया अनुस्रिय-
माणः । निजावासं स्वगृहम् । निलयाय ( मम ) निलयं गन्तुम् । निलयो गृहम् ।
विससर्ज विसृष्टवान् प्रेषयामासेति यावत् ।
प्रीतिका वृत्त सुनाकर हम लोगोंमे विवाह हो जाय ऐसी विनती करो । वे लोग तुम्हारी
विनयपर तथा मेरी कुलीनता और सौन्दर्यपर प्रसन्न हो जायेंगे और तुम्हारा विवाह मेरे
साथ कर देंगे । उन लोगोंसे दारुवर्माके मारनेकी युक्ति भी बतला दो और मेरी इस
युक्तिपर जो उनके विचार हों वे भी मुझे बतला देना ।
(२०) यह सुनकर उसने मुखकमलको विकसित करके कहा—हे सुभग ! उस क्रूरकर्मी
दारुवर्माको आप ही मार सकते हैं । आप यदि उस दुराचारीको मार डालें तो सभी मनो-
कामनाएँ आपकी पूर्ण होवें । इसी रीतिपर सब कार्य आप करें । मैं भी आपके आदेशानुसार
सारे कार्य कर दूँगी । ऐसा कहकर वह विकसित नयनोंसे मुझे अनेकवार अवलोकन करती हुई
वहांसे चली गयी । मैं भी वहांसे लौटकर शकुनज्ञ बन्धुपालके समीप आया तथा उसने शुभ
शकुन देखकर मुझसे कहा-तीस दिवसोंके पश्चात् आपके सहयोगियोंका आपसे सम्मिलन होने