दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
६२ दशकुमारचरितम्। [ पूर्वपीठिकायां
६२ दशकुमारचरितम्। [ पूर्वपीठिकायां
मिति निश्चित्य मदनवेषणाय कुत्र गतवान् । भवानेकाकी कुत्र गतः' इति ।
सोऽपि ललाटतटचुम्बदञ्जलिपुटः सविनयमल्पत् ।
इति श्रीदण्डिनः कृतौ दशकुमारचरिते सोमदत्तचरितं नाम
तृतीय उच्छ्वासः ।
चतुर्थोच्छ्वासः
(१) 'देव, महीसुरोपकारायैव देवो गतवानिति निश्चित्यापि देवेन
गन्तव्यं देशं निर्णेतुमशक्नुवानो मित्रगणः परस्परं वियुज्य दिक्षु देवम-
न्वेष्टुमगच्छत् ।
विषयः । अन्तरायं विघ्नम् । प्रबुद्धो जागरितः । भवान् पुष्पोद्भव इत्यर्थः । ललाट-
तटं चुम्बद् अञ्जलिपुटं यस्य सः शिरसि अञ्जलिं बद्ध्वेत्यर्थः ।
इति श्रीताराचरणभट्टाचार्यकृतायां बालविबोधिनीसमाख्याया
दशकुमारचरितव्याख्यायां तृतीय उच्छ्वासः ।
( १ ) महीसुरोपकारायैव ब्राह्मणस्य साहाय्यं कर्तुमेव । देवो भवान् राजवाहन
इत्यर्थः । निश्चित्यापि निर्णीयापि । देवेन भवता। निर्णेतुमवधारयितुम् । वियुज्य
पृथग्भूय । दिक्षु विभिन्नदेशेषु ।
बाधक होंगे और इसी कारण आप लोगोंको सोते छोड़कर मै उस विप्रके साथ चला गया ।
उस ब्राह्मणके साथ चले जानेपर आप लोग जब जगे और मुझे न पाया तब क्या निश्चय
किया और कहां-कहां आप लोग गये और आप अकेले कहां गये सो सब कहें । यह सुनकर
विनयपूर्वक श्रद्धाञ्जलि होकर तथा हाथोंको अपने शिरपर लगाकर वह पुष्पोद्भव कहने लगा ।
इस प्रकार से तृतीय उच्छ्वासकी बालकीड़ा हिन्दी टीका समाप्त हुई ।
( १ ) हे देव ! आप ब्राह्मणके ही उपकारार्थ गये होंगे। यह निश्चय होनेपर भी हम
लोग यह न ज्ञात कर सके कि आप किस देशमें गये हैं। और जब यह अनिश्चित ही रहा
तब हम लोग परस्पर संकेतस्थलका (पुनः आकर मिलनेके स्थानका) निश्चय करके
आपके अन्वेषणार्थ अलग-अलग देशोंमें गये ।
चतुर्थोच्छ्वासः ] व्याख्याद्वयोपेतम् । ६३
( २ ) अहमपि देवस्यान्वेषणाय महीमटन्कदाचिदम्बरमध्यगतस्या-
म्बरमणेः किरणमसहिष्णुरेकस्य गिरितटमहीरुहस्य प्रच्छायशीतले तले
क्षणमुपाविशम् । मम पुरोभागे दिनमध्यसंकुचितसर्वावयवां कूर्माकृतिं
मानुषच्छायां निरीक्ष्योन्मुखो गगनतलान्महारयेण पतन्तं पुरुषं कंचिदन्त-
राल एव दयोपनतहृदयोऽहमवलम्ब्य शनैरवनितले निक्षिप्य दूरापातवी-
तसंज्ञं तं शिशिरोपचारेण विबोध्य शोकातिरेकेणोद्गतबाष्पलोचनं तं भृगु-
पतनकारणमपृच्छम् ।
( ३ ) सोऽपि कररुहैरश्रुकणानपनयन्नभाषत-‘सौम्य; मगधाधिना-
( २ ) अहम् पुष्पोद्भवः । महीमटन् भुवं भ्रमन् । अम्बरमध्यगतस्य आकाशम-
ध्यमारूढस्य अम्बरमणेः सूर्यस्य । किरणं तापम् । पुरोभागे सम्मुखे । दिनस्य दिव-
सस्य मध्ये मध्यभागे मध्याह्न इत्यर्थः । संकुचिताः संक्षिप्ताः सर्वे निखिला अवयवा
अङ्गानि यस्यास्ताम् । मध्याह्ने सूर्यस्योपरिस्थितिः छायासंकोचश्च प्रसिद्ध एव
कूर्माकृतिं कच्छपाकाराम् । उन्मुख ऊर्ध्वमुखः अहमिति शेषः । महारयेण अति-
वेगेन । अन्तराले मध्ये भूमिपतनात्पूर्वमेवेत्यर्थः । दयया करुणया उपनतं नम्रं
हृदयं चित्तं यस्य सः अवलम्ब्य गृहीत्वा । निक्षिप्य संस्थाप्य । दूराद् दूरदेशादा-
पातः पतनं तेन वीताऽपगता संज्ञा चेतना यस्य तम् । तं पतन्तं पुरुषम् । शिशिरो-
पचारेण जलसेकादिना । विबोध्य प्रकृतिस्थं कृत्वा । शोकातिरेकेण दुःखातिशयेन ।
उद्गतं निर्गतं बाष्पमश्रु याभ्यां तादृशी लोचने यस्य तम् । भृगोः प्रपातात् पतनस्य
कारणं हेतुम् । प्रपातस्त्वतटो भृगुरित्यमरः । प्रच्छधातोर्द्विकर्मकत्वात्कर्मद्वयम् ।
( ३ ) सोऽपि पुरुषोऽपि । कररुहैर्नखैरङ्गुलिभिरिति भावः । अश्रुकणान् नेत्रजल-
( २ ) भ्रमण करते हुए पृथिवीपर घूमते-घूमते एक दिन सूर्यके प्रखर तेजसे व्याकुल
होकर एक पर्वतके किनारे एक सघन छायावाले तरुके नीचे एक क्षण विश्रामार्थ बैठ गया ।
उस छायामें बैठते ही क्षण भरमें कुछ आहट मालूम पड़ा और सामने मध्याह्नके होनेके
कारण संकुचित सर्वावयव कछुएके समान एक पुरुषाकृति दिखाई दी । मैने ऊपरकी ओर
मुँह करके देखा तो ज्ञात हुआ कि कोई पुरुष आकाशकी ओरसे गिरकर नीचे आ रहा है ।
यह देखकर मेरे अन्तःकरणमें दया आ गयी । और मैने उसे बीचमें ही रोककर नीचे उतार
दिया । पृथिवीतलपर धीरेसे रखकर शीतोपचारसे उसे प्रबुद्ध किया-क्योंकि वह मूच्छित
हो गया था । अति शोकके कारण उसकी आँखोंसे आँसू बह रहे थे । मैने उससे पहाड़परसे
कूदनेका कारण पूछा-
( ३ ) वह अपने हाथोंसे आँसुओंको पोछकर कहने लगा-हे सौम्य ! मै मगधदेशाधि-