सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

५२ दशकुमारचरितम् । [ पूर्वपीठिकायां

५२ दशकुमारचरितम् । [ पूर्वपीठिकायां
( २१ ) प्रमोदाश्रुपूर्णो राजा पुलकिताङ्गं तं गाढमालिङ्ग्य 'अये सौम्य
सोमदत्त !' इति व्याजहार । ततः कस्यापि पुन्नागभूरुहस्य छायाशीतले
तले संविष्टेन मनुजनाथेन सप्रणयमभाणि—'सखे ! कालमेतावन्तं,
देशे कस्मिन्, प्रकारेण केनास्थायि भवता, संप्रति कुत्र गम्यते, तरुणी
केयम्, एष परिजनः संपादितः कथम्, कथय' इति ।
( २२ ) सोऽपि मित्रसंदर्शनव्यतिकरापगतचिन्ताज्वरातिशयो मुकु-
लितकरकमलः सविनयमात्मीयप्रचारप्रकारमवाचत्—
इति श्रीदण्डिनः कृतौ दशकुमारचरिते द्विजोपकृतिर्नाम द्वितीय उच्छ्वासः ॥
( २१ ) प्रमोदाश्रुभिः सुहृदवलोकनानन्दजनितनेत्रवारिभिः पूर्णः । पुलकिताङ्गं
रोमाञ्चितशरीरम् । सौम्य सुन्दर मनोहरेति यावत् । व्याजहार उवाच । पुन्नागभू-
रुहस्य नागकेसरवृक्षस्य । संविष्टेनोपविष्टेन । मनुजनाथेन राज्ञा । सम्पादितः प्राप्तः ।
( २२ ) सोऽपि सोमदत्तोऽपि । मित्रस्य सुहृदः सन्दर्शनव्यतिकरेण अवलोकन-
व्यापारेण अवगतो विनष्टः चिन्ताज्वरातिशयो यस्य सः । मुकुलितकरकमलः
बद्धाञ्जलिः । आत्मीयप्रचारप्रकारं निजभ्रमणवृत्तान्तम् ।
इति श्रीताराचरणभट्टाचार्यकृतायां बालविवोधिनीसमाख्यायां
दशकुमारचरितव्याख्यायां द्वितीयोच्छ्वासः ।
पैरोंका अपने शिरसे स्पर्श किया। चरणोंके स्पर्शके समय उसके शिरसे मल्लिकाकी
मालाएं गिरी पड़ रही थीं।
( २१ ) आनन्दाश्रुसे परिपूर्ण राजवाहनने आनन्दविभोर होकर उस पुलकितांग पुरुषका
गाढ़ांलिंगन छातीसे लगाकर किया और कहा—'अये सौम्य सोमदत्त ।' तब एक पुंनाग
(नागकेसर) वृक्षकी शीतल छाया में बैठकर राजवाहनने कहा—हे सखे ! इतने समय
किस देशमें रहे तथा क्या करते रहे ? अधुना कहाँ जाते हो ? यह तरुणी स्त्री कौन है ?
इन सब परिजनोंसे कैसे भेंट हुई ? सभी बातें समझाओ ।
( २२ ) यह सुनकर सोमदत्त भी बड़ा प्रसन्न हुआ तथा मित्रसमागमसे उत्पन्न हर्षके
द्वारा चिन्तायुक्त ज्वरसे रहित होकर अपने करकमलोंकी अञ्जलि बांधकर विनयसे बतलाने
लगा ।
इस प्रकारसे द्वितीय उच्छ्वासकी बालक्रीड़ा हिन्दी टीका समाप्त हुई ।

तृतीयोच्छ्वासः
(१) 'देव, भवच्चरणकमलसेवाभिलाषीभूतोऽहं भ्रमन्नेकस्यां वना-
वनौ पिपासाकुलो लतापरिवृतं शीतलं नदसलिलं पिबन्नुज्ज्वलाकारं रत्नं
तत्रैकमद्राक्षम् । तदादाय गत्वा कंचनाध्वानमम्बरमणेरत्युष्णतया गन्तुम-
क्षमो वनेऽस्मिन्नेव किमपि देवतायतनं प्रविष्टो दीनाननं बहुतनयसमेतं
स्थविरमहीसुरमेकमवलोक्य कुशलमुदितदयोऽहमपृच्छम् ।
(२) कार्पण्यविवर्णवदनो मदाशापूर्णमानसोऽवोचदग्रजन्मा—'महा-
भाग, सुतानेतान्मातृहीनाननेकै रुपायै रक्षन्निदानीमस्मिन्कुदेशे भैक्ष्यं सं-
पाद्य दद्देतेभ्यो वसामि शिवालयेऽस्मिन्' इति ।
(१) सोमदत्तः कथयति देवेति-भवतस्तव चरणकमलयोः पादपद्मयोः सेवायां
शुश्रूषायां अभिलाषीभूतः साभिलाषः । वनाव नौ काननप्रदेशे । तत्र नदसलिले ।
कञ्चन कियन्तम् । अम्बरमणेः सूर्यस्य । देवतायतनं देवमन्दिरम् । दीनं विषण्णं
आननं मुखं यस्य तम् । बहुभिरनेकैस्तनयैः पुत्रैः समेतं युक्तम् । स्थविरमहीसुरं
वृद्धब्राह्मणम् । कुशलं क्षेमम् अपृच्छमित्यस्य कर्म । उदितोत्पन्ना दया करुणा यस्य
सः । अहं सोमदत्त इत्यर्थः ।
(२) कार्पण्येन दैन्येन विवर्णं मलिनं वदनं मुखं यस्य सः । महत्या प्रचु-
रया आशया आकाङ्क्षया उपस्थितोऽयं मह्यं किञ्चिदवश्यं प्रदास्यतीत्येवंरूपया
पूर्णं मानसं यस्य सः । अग्रजन्मा ब्राह्मणः । इदानीं सम्प्रति । कुदेशे निकृष्टस्थाने ।
भैक्ष्यं भिक्षाचरणम् । एतेभ्यः सुतेभ्यः ।
सोमदत्तचरित
(१) हे देव ! आपके पादपद्मोंका सेवाभिलाषी मैं पर्यटन करता हुआ एक दिन एक
वनमें पहुँचा । वहाँ प्याससे आकुलीभूत होकर लताओंसे आच्छादित नदीके जलको पीकर
पर्यटन करने लगा । उसी विपिन स्थलमें एक समुज्ज्वल रत्नको पड़ा हुआ मैंने देखा और
उसे उठा लिया । कुछ दूर आगे बढ़ा तो सूर्य भगवान्के प्रचण्ड तेज आतपको न सह सका
और चलनेमें अशक्त होकर उसी विपिनके एक देव-मन्दिरमें घुस गया । वहाँपर दीन
मुखवाले बहुतसे पुत्रोंके साथ बैठे हुए एक वृद्ध ब्राह्मण—पिताको देखा । मुझे उनपर दया
आ गयी । मैंने उस वृद्धसे कुशल प्रश्न किये ।
(२) दीनताके कारण विवर्णमुख तथा विशाल आशाओंसे परिपूर्ण चित्त होकर उस
वृद्ध विप्रने उत्तर दिया—हे महाभाग ! मातृहीन इन पुत्रोंका पालन अनेक प्रकारके यत्नों
द्वारा इस कुदेशसे भिक्षाटन करके करता हुआ इसी शिवालयमें रहता हूँ ।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu