सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

४३२ दशकुमारचरितम् ! [ उत्तरपीठिकायां

४३२ दशकुमारचरितम् ! [ उत्तरपीठिकायां
कलासु वैचक्षण्यम्, अलब्धोपलब्धिलब्धानुरक्षणरक्षितोपभोगभुक्तानुसं-
धानरुष्टानुनयादिष्वजस्रमभ्युपायरचनया बुद्धिवाचोः पाटवम्, उत्कृष्ट-
शरीरसंस्कारात्सुभगवेषतया लोकसम्भावनीयतया परं सुहृत्प्रियत्वम्,
गरीयसी परिजनव्यपेक्षा, स्मितपूर्वाभिभाषित्त्वम्, उद्रिक्तसत्त्वता, दाक्षि-
ण्यानुवर्तनम् । अपत्योत्पादनेनोभयलोकश्रेयस्करत्वमिति ।
(२०) पानेऽपि नानाविधरोगभङ्गपटीयसामासवानामासेवनात्स्पृ-
हणीयवयोव्यवस्थापनम्, अहंकारप्रकर्षादशेषदुःखतिरस्करणम्, अङ्ग-
जरागदीपनादङ्गानोपभोगशक्तिसंधुक्षणम्, अपराधप्रमार्जनान्मनःशल्यो-
अभ्युपायरचनया बुद्धिवाचोः मतिवचनयोः पाटवं कौशलम् । शरीरस्य संस्कारः
शुद्धिः सम्भावनीयता सम्माननीयता । परिजनव्यपेक्षा परिजनेषु दाक्षिण्यम् ।
उद्रिक्तसत्त्वता समधिकसारत्वम् ।
(२०) पाने मद्यपाने । नानाविधानां रागाणां विषयाभिलाषाणां भङ्गे तरङ्गे
विच्छित्तौ वा पटीयसाम् । आसवानां मद्यानाम् । आसेवनात् पानात् । स्पृहणी-
यवयो यौवनं तस्य व्यवस्थापनं संरक्षणम् । अङ्गजस्य कामस्य रागः इच्छा तस्य
दीपनाद् वृद्धेः । सन्धुक्षणमुत्तेजनम् । अपराधस्य अन्यकृतापराधस्य मार्जनाद्
दूसरोंके मानसिक भावोंका ज्ञान होता हैं । निर्लोभ काममें प्रवृत्तिके भाव जागते हैं ।
सभी कलाओंमें नैपुण्य प्राप्त होता है । लब्ध वस्तुकी रक्षा', अलब्ध वस्तुके लाभका,
रक्षित वस्तुके उपभोग का एवं भोगी हुई वस्तुओंसे उत्पन्न सुख-दुःखोंके विवेचनका ज्ञान
प्राप्त होता है । रूठे हुए प्राणियोंके मनानेमें नित्य जो अनुनय-विनय करना पड़ता हैं
उससे बुद्धि और वचनमें प्रगल्भता आती हैं । ऐसी स्थितिमें शारीरिक संस्कारों की
ओर पूर्ण ध्यान रखना चाहिये तथा वेश-भूषा की ओर भी पर्याप्त ध्यान रखना चाहिये ।
इससे सर्व-साधारणके समक्ष सम्मान-प्राप्तिका अवसर मिलता है । मित्रोंमें अनुराग
बढ़ता है तथा प्रीतिकी भी प्राप्ति होती है। हँस-हँस कर बातें करने का अभ्यास होता हैं ।
परिजनों पर संकोच न करनेका ज्ञान होता है । औदार्यका उदय एवं बलकी अभिवृद्धि
होती है । सन्तानोत्पत्तिका लाभ होता है जिससे दोनों लोकोंमें कीर्ति बढ़ती है । यह मार्ग
भी श्रेयस्कर है ।
(३२) इसी प्रकारसे मद्यपानसे भी अनेक लाभ होते हैं । मद्यपानसे विविध प्रकारके
रोग दूर हो जाते हैं। मद्योंके सेवनसे मनुष्य मनचाही अवस्था प्राप्त कर लेता है । मद्यसे
अहंकार बढ़ जाता है तिससे सभी तरहके क्लेश नष्ट हो जाते हैं । मदिरापानसे
वासनाएँ उद्दीपित होती हैं जिससे स्त्रियोंके साथ सम्भोग करनेकी शक्ति प्रबल होती है !

अष्टमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ४३३
न्मार्जनम् , अश्राव्यशंसिभिरनर्गलप्रलापैर्विश्वासोपबृंहणम् , मत्सराननु-
बन्धादानन्दैकतानता, शब्दादीनामिन्द्रियार्थानां सातत्येनानुभवः, संवि-
भागशीलतया सुहृद्वर्गसंवर्गणम् , अनुपमानमङ्गलावण्यम् , अनुत्तराणि
विलसितानि, भयार्तिहरणाच्च साङ्ग्रामिकत्वमिति ।
( २१ ) वाक्पारुष्यं दण्डो दारुणो दूषणानि चार्थनामेव यथावका-
शमौपकारिकाणि । नहि मुनिरिव नरपतिरुपशमरतिरभिभवितुमरिकुल-
मलम् , अवलम्बितं च लोकतन्त्रम्' इति ।
विस्मरणात् । अश्राव्यं श्रावयितुमयोग्यं यत्तस्यापि शंसिभिः सूचकैः । अनर्गल-
प्रलापैर्यथेच्छमनर्थकवचनैः । विश्वासस्योपबृंहणं वर्द्धनम् । मत्तः सन्नश्राव्यमपि
श्रावयति तेन च जनानां विश्वासः समुत्पद्यते । यदयं सारल्येनास्माभिरश्राव्यमपि
वक्तीति भावः । मत्सरस्य मात्सर्यस्य अननुबन्धादधारणात् । आसवपानेन मात्सर्ये
न तिष्ठतीति प्रसिद्धिः । एकतानता तत्परता । इन्द्रियार्थानां चक्षुरादीन्द्रियविषया-
णाम् । सातत्येन नैरन्तर्येण । आगतेभ्यः सर्वेभ्योऽपि मद्यस्य सम्यग् वण्टनं संवि-
भागः तच्छीलतया सुहृद्वर्गस्य संवर्गणमेकत्रीकरणम् । अनुत्तराणि अलौकिकानि ।
संग्रामे साधुः सांग्रामिकः तस्य भावः । युद्धपटुत्वमित्यर्थः ।
( २१ ) एतावता व्यसनसप्तके मृगयादीनां चतुर्णामुपकारकत्वं प्रतिपादित-
मघुना अवशिष्टं वाक्पारुष्यादित्रयमपि राज्ञामुपकारकमिति वक्ति वाक्पारुष्येति—
वाक्पारुष्यमेकं, दारुणो दण्डो दण्डपारुष्यं द्वितीयम्, अर्थानां दूषणानि चेति तृतीयं,
तान्यपि यथावकाशं यथावसरमुपकारकाणीति । नहीति—उपशमे शान्तौ रतिरनु-
रागो यस्यासौ—तादृशो मुनिर्यथा अरिकुलं कामादिशत्रुवर्गं जेतुं समर्थस्तथा शान्तो
नरपतिररिकुलं पराजेतुं लोकतन्त्रं राष्ट्रसाधनमवलम्बितुं धारयितुञ्च नालमित्यर्थः ।
अनेकों अपराधोंको क्षमा करनेके कारण चित्तके उद्वेग दूर हो जाते हैं। रहस्य एवं गुप्त
बातों की सूचनासे और व्यर्थकी बकवादसे भी विश्वास उत्पन्न करा देनेकी क्षमता आ
जाती है । राग-द्वेष दूर हो जानेके कारण परमानन्द ही परमानन्द दिखायी पड़ता है ।
शब्द स्पर्श रूप रस आदिके अनुभव होते रहते हैं । परस्पर बाँट कर खाने-पीनेसे अपने
परिजनों और सगे-सम्बन्धियोंमें एकता बनी रहती है । शरीरकी सुन्दरता भी असाधारण-
तया बढ़ जाती है । भोग-विलासों का सर्वोत्कृष्ट सुख प्राप्त होता रहता है । युद्ध-कौशल
भी प्राप्त होता है तथा भयके कारण उत्पन्न होनेवाला सकट टालते रहनेसे समर-नैपुण्य
भी प्राप्त होता है ।
( २१ ) इसी प्रकारसे कटु वचन, कठोर दण्ड और अर्थापहरण ( दूसरेके धनके

( २२ ) असावपि गुरूपदेशमिवात्यादरेण तस्य मतमन्ववर्तत ।
तच्छीलानुसारिण्यश्च प्रकृतयो विशृङ्खलमसेवन्त व्यसनानि । सर्वश्च
समानदोषतया न कस्यचिच्छिद्रान्वेषणायायतिष्ट । समानभर्तृप्रकृतय-
स्तन्त्राध्यक्षाः स्वानि कर्मफलान्यभक्षयन् । ततः क्रमादायद्वाराणि व्यशी-
र्यन्त । व्ययमुखानि विटवैधेयतया विभोरहरहर्व्यवर्धन्त । सामन्तपौर-
जानपदमुख्याश्च समानशीलतयोपारूढविश्रम्भेण राज्ञा सजायाः पानगो-
ष्ठीष्वभ्यन्तरीकृताः स्वं स्वमाचारमत्यचारिषुः ।
( २३ ) तदङ्गनासु चानेकापदेशपूर्वमपाचरन्नरेन्द्रः । तदन्तःपुरेषु
( २२ ) असौ अनन्तवर्मापि । तस्य चन्द्रपालितस्य । अन्ववर्त्तत अन्वसरत् ।
तच्छीलानुसारिण्यः नृपस्वभावानुवर्त्तिन्यः । छिद्रान्वेषणाय दोषानुसन्धानाय ।
समाना भर्तुः प्रकृतिर्येषां ते तन्त्राध्यक्षाः सेनापतयः । कर्मफलानि पूर्वसुकृतफल-
न्यभक्षयन् खादितवन्तः—तेऽपि दुर्वृत्ता अभवन्नित्यर्थः । आयद्वाराणि अर्थागमो-
पायाः । व्यशीर्यन्त क्षीणाः बभूवुः । विटेति—विटत्वेन परदारासक्तत्वेन वैधेयतया
मूर्खतया च विभोः स्वामिनः । विटविधेयतयेति पाठे विटानां धूर्त्तानां विधेयतया
वशीभूततया । उपारूढविश्रम्भेण उत्पन्नविश्वासेन । सजायाः सस्त्रीकाः । पानगोष्ठीषु
मद्यपानसभासु । अभ्यन्तरीकृताः प्रवेशिताः । अत्यचारिषुः लंघयामासुः ।
( २३ ) तदङ्गनेति—तेषां सामन्तादीनामङ्गनासु स्त्रीषु । अनेकापदेशपूर्वं
ाहरण ) से भी लाभ होता है । ऋषिके समान शान्तिप्रिय राजा न कभी अपने शत्रुओं
को ही जीत सकता है और न प्रजाकी स्थिति ही अपने काबूमें रख सकता है ।
( २२ ) उस धूर्त्त की सम्मति महाराज ने स्वीकार कर ली और उसीके अनुसार काम
करने लगे । 'यथा राजा तथा प्रजा' के अनुसार राजाके अनुसरणसे प्रजा भी सुरा-पान आदि
करने लगी । इस प्रकारसे राजासे लेकर नौकर तक सभी लोग उस राज्यवर्गके दुराचारी,
स्वेच्छाचारी तथा मद्यप हो गये अतः ऐसी दशामें कोई किसीका दोष कैसे कहे । जब राजा
तथा राजसेवक समान-व्यसनी हो गये तब राज्यके अधिकारी प्रजासे धन लेकर स्वयं
लूटने-खाने लगे । धीरे-धीरे आयके सारे दरवाजे बन्द हो गये । इधर धूर्तोंके वशीभूत,
मदिरापान तथा वेश्यागमनमें अनुरक्त रहनेसे राजाका व्यय बढ़ता गया । उस धूर्तने
राज्यके सामन्तों, धनिकों तथा रईसोंकी भी स्त्रियोंको विश्वास दिलाकर अपनी ओर मिला
लिया और अपने जमावड़े, पानगोष्ठी एवं रंगशालामें सम्मिलित कर लिया । यहाँ तक
कि उन स्त्रियोंसे भी विविध प्रकारके दुराचार करने-कराने लगा ।
( २३ ) जब अगणित प्रकारके छलोंसे उस धूर्त्तने अपने सामन्तों की स्त्रियोंको भी न

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
अष्टमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ४३५

चामी भिन्नवृत्तेषु मन्दत्रासो बहुसुखैरवर्तन्त । सर्वश्च कुलाङ्गनाजनः
सुलभभङ्गिभाषणरतो भग्नचारित्र्यन्त्रणस्तृणायापि न गणयित्वा भर्तृ-
न्धातृगणमन्त्रणान्यशृणोत् । तन्मूलाश्च कलहाः सामर्षाणामुदभवन् ।
अहन्यन्त दुर्बला बलिभिः । अपहृतानि धनवतां धनानि तस्करादिभिः ।
अपहृतपरिभूतयः प्रहताश्च पातकपथाः । हतबान्धवा हतवित्ता वध-
बन्धातुराश्च मुक्तकण्ठमाक्रोशन्नश्रुकण्ठ्यः प्रजाः ।
(२४) दण्डश्चायथाप्रणीतो भयक्रोधावजनयत् । कृशकुटुम्बेषु लोभः
पदमधत्त । विमानिताश्च तेजस्विनोऽमानेनादह्यन्त । तेषु तेषु चाकृत्येषु

बहुकपटपूर्वकम् । अपाचरत् असदाचरत् । तदन्तःपुरेति-तस्य नृपस्यान्तःपुरेषु
स्त्रीषु । अमी सामन्तादयः । भिन्नं विनष्टं वृत्तं चरित्रं येषां तेषु भिन्नवृत्तेष्विति
तदन्तःपुरेश्विरस्यस्य विशेषणम् । मन्दत्रासा निर्भयाः-अमी इत्यस्य विशेषणम् ।
भग्नं भिन्नं चारित्र्यन्त्रणं वृत्तबन्धनं यस्येति कुलाङ्गनाजन इत्यस्य विशेषणम् ।
धातॄणां जाराणां गणः समूहस्तस्य मन्त्रणानि वचनानि । धाता जारे विधातरि इति
कोषः । सामर्षाणाम् असहिष्णूनाम् । अपहृता दूरीकृता परिभूतिस्तिरस्क्रिया येभ्य-
स्ते । प्रहता वितताः विस्तारं गता वा पातकपथाः पापमार्गाः । पापमार्गप्रवृत्ता-
नपि न कश्चित्तिरस्करोतीत्यर्थः । आक्रोशन् चक्रन्दुः । अश्रुकण्ठ्यः बाष्पगद्गदस्वराः ।
(२४) अयथाप्रणीतोऽन्यायकृतः । लघुपापेन गुरुदण्डो गुरुपापेन च लघु-
दण्ड इत्यर्थः । कृशकुटुम्बेषु दरिद्रपरिवारेषु । पदं स्थानम् । अकृत्येषु अन्यायेषु ।

छोड़ा तब सामन्तगण भी कुमार्गी होकर निर्भीकभावसे अन्तःपुरकी सुन्दरियोंके साथ
भोग-विलास करने लगे । कुछ ही दिनोंमें अन्तःपुरकी सब महिलाएं चरित्रहीन होकर
राजाको तृणवत् भी न गिनकर उन धूर्तोंके कथनानुसार आचरण करने लगीं। इसके
पश्चात् उन छैलोंमें कलह की आग भड़की जिससे सबल निर्बल को मारने-पीटने लगे ।
चोर-डाकू धनिकोंका धन लूटने लगे । राज्य की सारी सम्पत्ति तहस-नहस हो गयी ।
पापके सभी दरवाजे खुल गये । उसकी सारी प्रजाके बन्धु-बान्धव मार डाले गये । उनका
बहुत सा द्रव्य हर लिया गया । उच्छृङ्खल अधिकारियों द्वारा कितने ही सीधे-सादे भी मार
डाले गये तथा कारागार में ठूंस दिये गये । खुलकर अराजकता फैल गयी । ऐसी दशामें
बची-खुची प्रजा सौ-सौ आँसू बहाकर क्रन्दन करने लगी ।
(२४) जब अपराधियों को उचित रूप में दण्ड न मिला तो प्रजामें भय, क्रोधका
सञ्चार बढ़ गया । धनहीन परिवारोंमें लोभ फैल गया । राज्यके स्वाभिमानी पुरुषोंके

Nepal Sanskrit University, Balmeeki Campus, Kathmandu