सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

४०६ दशकुमारचरितम् । [ उत्तरपीठिकायां

४०६ दशकुमारचरितम् । [ उत्तरपीठिकायां
गजस्कन्धगतः सितच्छत्रादिसकलराजचिह्नराजितश्चण्डतरदण्डिदण्डता-
डनत्रस्तजनदत्तान्तरालया राजवीथ्या यातस्तां निशां रसनयननिरस्त-
निद्रारतिरनैशम् । नीते च जनाक्षिलक्ष्यतां लाक्षारसदिग्धदिग्गजशिरः-
सदृक्षे शक्रदिगङ्गनारत्नादर्शोऽर्कचक्रे कृतकरणीयः किरणजालकरालरत्नरा-
जिराजितराजार्हासनाध्यासी यथासदृशा वारदर्शिनःशङ्कायन्त्रिताङ्गान्सन्नि-
अस्यचित्रीयत-अस्याश्चर्यजनकमभवत् । गजस्कन्धगतः हस्तिशिरःस्थितः । सितेति
सितच्छत्रादि येषां तानि सितच्छत्रादीनि श्वेतातपत्रप्रभृतीनि यानि सकलानि
निखिलानि राजचिह्नानि नृपलक्षणानि तैः राजितः शोभितः । विशेषणद्वयं अह-
मित्यस्य मन्त्रगुप्तवाक्यस्य । चण्डतरेति-चण्डतराणामतिप्रचण्डानां दण्डिनां
दण्डधारिदौवारिकाणां दण्डैर्लगुडैस्ताडनेन प्रहारेण त्रस्ता भीता ये जनास्तैर्दत्त-
मन्तरालमवकाशो यस्यां तया । राजवीथ्या राजमार्गॆण । यातश्चलितः । अहमिति
शेषः । रसेति-रसेन अत्यधिकानन्दे कनकलेखानुरागेण वा नयनाभ्यां-पञ्चमी-
द्विवचनमेतत्-निरस्ता अपगता निद्रारतिः शयनप्रीतिः यस्य तादृशोऽहम् अनै-
षम् अत्यवाहयम् निशामिति पूर्वोक्तेनान्वयः। नीते चेत्यादि-लाक्षारसेन याव-
केन दिग्धमनुलिप्तं यद् दिग्गजस्य दिङ्मातङ्गस्य शिरो मस्तकं तत्सदृशे तत्सम्ये
रक्तवर्णे इति भावः, शक्रस्य दिक् पूर्वाशा-सैवाङ्गना कामिनी तस्या रत्नादर्शे मणि-
दर्पणस्वरूपे अर्कचक्रे सूर्यमण्डले जनाक्षिलक्ष्यतां नरनयनगोचरतां नीते प्रापिते
सति-सूर्ये उदिते सतीत्यर्थः। कृतकरणीयः विहितनित्यक्रियः। किरणजालेति-
किरणजालेन मयूखमण्डलेन कराला व्याप्ता या रत्नराजिः रत्नसमूहस्तया राजितं
शोभितं यद् राजाहं राज्योग्यमासनं तदध्यास्ते इति तच्छीलः । अहमिति शेषः ।
यथेति-यथासदृशं स्वस्वाधिकारोचितं आचारं राजमर्यादादिकं दर्शयन्ति ये
तान्। शङ्केति-शङ्कया-यथा राज्ञः आकृतिपरिवर्त्तनं जातं तथैव प्रकृतेरपि
क्रिया । हाथीके ऊपर चढ़कर सफेद छत्र आदि सभी राजचिन्होंसे सुशोभित मै
राजमार्गसे चला । उस राजमार्गको अत्यन्त प्रबल दण्डधारी सेवकगण आगे आगे
दण्डोंके प्रहार द्वारा जनोंको भय दिखाकर खाली करा देते थे। उस रात कनकावतीके
प्रबलानुरागसे मुझे आँखोंमें निद्रा न आयी-वह रात मैंने जागकर बिता दी। प्रभातमें
जब लाक्षारससे परिन्याप्त हुए दिग्गजोंके मस्तकोंके तुल्य, इन्द्रकी दिशा-( पूर्वदिशा-)
रूपी अंगनाके मणिदर्पणके सदृश, सूर्यमण्डल लोगोंकी आखोंके सामने लक्षित हुआ।
उस समय मै नित्यक्रियासे निवृत्त होकर, किरणजालसे परिपूर्ण एवं रत्नराशिसे देदी-
प्यमान, राजाओंके अनुरूप श्रेष्ठ (सिंहासन) पर आरूढ़ होकर बैठा । उस समय
यथानुरूप अपने नियमाचरणोंको प्रदर्शित करनेवाले, भयसे शरीरोंको संकुचित

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF

सप्तमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ४०७

धिनिषादिनः सहायानगादिषम्—'दृश्यतां शक्तिरार्षी, यत्तस्य यतेर-
जेयस्येन्द्रियाणां संस्कारेण नीरजसा नीरजसांनिध्यशालिनि सहर्षालिनि
सरसि सरसिजदलसन्निकाशच्छायास्याधिकतरदर्शनीयस्याकारान्तरस्य
सिद्धिरासीत् । अद्य सकलनास्तिकानां जायेत लज्जानतं शिरः। तदि-
दानीं चन्द्रशेखरनरकशासनसरसिजासनादीनां त्रिदशानां स्थानान्या-
दररचितनृत्यगीताराधनानि क्रियन्ताम्। ह्रियन्तां च गृहादितः क्लेश-
निरसनसहान्यर्थिसार्थैर्धनानि' इति ।

परिवर्तनं जातं स्यादिति भयेन यन्त्रितानि सङ्कुचितानि अङ्गानि गात्राणि येषां
तान् । सन्निधिनिषादिनः सन्निधौ समीपे निषीदन्ति ये तान् पार्श्वचरानित्यर्थः ।
सहायान् सचिवादीन् । अगादिषम् अवोचम् । शक्तिः प्रभावः । आर्षी ऋषि-
सम्बन्धिनी । यत्तस्येत्यादि—इन्द्रियाणां चक्षुरादीनां करणानां अजेयस्य जेतुम-
शक्यस्य तस्य पूर्वोक्तस्य यतेर्मुनेः नीरजसा रजोगुणरहितेन पवित्रेणेत्यर्थः
संस्कारेण मन्त्रानुष्ठानेन नीरजानां कमलानां सान्निध्येन सम्पर्केण शालते शोभते
एवं शीले—तथा सहर्षाः सानन्दा अलिनो भ्रमरा यत्र तथाभूते सरसि सरोवरे
सरसिजदलैः कमलदलैः सन्निकाशा तुल्या छाया कान्तिर्यस्य तादृशस्य तथा
अधिकतरदर्शनीयस्य परमरमणीयस्य आकारान्तरस्य अन्यशरीरस्य सिद्धिः
प्राप्तिरभूत् । ममेति शेषः । अद्य साम्प्रतम् सकलनास्तिकानां मन्त्रतन्त्रादिप्रभाव-
मस्वीकुर्वताम् पाषण्डानामित्यर्थः । जायेत भवेत् । तत् तस्मात् । चन्द्रशेखरो
महेश्वरः, नरकशासनो विष्णुः सरसिजासनो ब्रह्मा तदादीनां त्रिदशानां देवा-
नाम् । स्थानानि मन्दिराणि । आदरेति—आदरेण श्रद्धया भक्त्या वा रचितमनु-
ष्ठितं नृत्यगीताभ्यां आराधनं पूजनं येषु तानि । ह्रियन्तां नीयन्ताम् । गृहात् इतः
अस्माद् राजसदनात् । क्लेशनिरसनसहानि-दारिद्र्यदुःखनाशसमर्थानि धनानि ।
अर्थिसार्थैः याचकसमूहैः । दरिद्रा आगत्य यथेष्टं स्वाभिलषितं धनं गृह्णन्त्विति भावः ।

करनेवाले, पार्श्वचरो और सहायकोंसे मैंने कहा—ऋषियोंकी शक्ति देखिये । इन्द्रियोंसे
अजेय उस तपस्वीके पवित्र (रजोगुण रहित) संस्कारद्वारा उस तालाबमें, मैंने कमल-
दलतुल्य क्या उससे भी अधिक दर्शनीय देह प्राप्त की । जिस तालाबमें कमलोंके
समीप रहनेवाले प्रमुदित भौंरे कमल पर शोभा पा रहे हैं। (अपूर्व सिद्धि प्राप्त
की । आज सभी नास्तिकोंका (आर्यधर्मविहीनोंका) शिर लज्जासे झुक गया है।
अतः सम्प्रति सभी, महादेव, विष्णु, ब्रह्मा तथा अन्य देवताओंके मन्दिरोंमें श्रद्धाके
साथ नाच-गाना एवं पूजा-अर्चा होवे । दारिद्र्यके दुःखको नाश करनेवाली लक्ष्मी
(धन, वस्त्र आदि) याचक जनोंको इस राजप्रासादसे दिये जायें ।

Nepal Sanskrit University, Balmeeki Campus, Kathmandu