दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
३६० दशकुमारचरितम् । [ उत्तरपीठिकायां
३६० दशकुमारचरितम् । [ उत्तरपीठिकायां
कुलवधूनाम् । तस्याहमस्म्युदाहरणभूता । मातृप्रमुखोऽपि ज्ञातिवर्गो माम-
वज्ञयैव पश्यति । तेन सुदृष्टां मां कुरु । न चेत्त्यजेयमद्यैव निष्प्रयोजना-
न्प्राणान् । आविश्रामाच्च मे रहस्यं न श्राव्यम्' इति पादयोः पपात ।
(३७) सैनामुत्थाप्योद्वाष्पोवाच - 'वत्से माध्यवस्यः साहसम् ।
इयमस्मि त्वन्निदेशवर्तिनी । यावति मयोपयोगस्तावति भवाम्यनन्याधी-
ना । यद्येवासि निर्विण्णा तपश्चर त्वं मदधिष्ठिता पारलौकिकाय कल्या-
णाय । नन्वयमुदर्कः प्राक्तनस्य दुष्कृतस्य, यदनेनाकारेणेदृशेन शीलेन
स्वरूपा । मातृप्रमुखः जनन्यादिः । अवज्ञयैव अनादरेणैव । यदा जनन्यपि मामु-
पेक्षते तदा का कथाऽन्येषामिति भावः । तेन ज्ञातृवर्गेण स्वभर्त्रा वा । सुदृष्टां सौम-
नस्येनावलोकिताम् । यथाहं पत्युर्ज्ञातृवर्गस्य च वल्लभा भवेयं तथा विधेहीति
भावः न चेत्-अन्यथा । यदि तथा न करिष्यसीत्यर्थः । त्यजेयं त्यक्ष्यामि । निष्प्र-
योजनान् अकिञ्चित्करान् । आविरामात्-यावत्कालपर्यन्तं मे विरामः प्राणत्यागो
नभवेत्तावत् । रहस्यं गोप्यम् । न श्राव्यं न कस्यापि पुरतः श्रावणीयं न कथनी-
यमिति यावत् । पादयोः प्रव्राजिकायाश्चरणयोः ।
(३७) सा प्रव्राजिका । एनां निम्ब्रुवतीम् । उद्बाष्पा उद्गताश्रुः । मा अध्य-
वस्यः मा कार्षीः । अधि-अवपूर्वक सो धातोलँङि रूपमडागमाभावश्च मा योगात् ।
साहसं प्राणत्यागरूपं साहसुकर्म । इयम्-अहम् । त्वन्निदेशवर्तिनी-तवाज्ञाका-
रिणी । यत्त्वं वदिष्यसि तदेव करिष्यामीत्यर्थः । यावति यत्पर्यन्ते प्रजोजने इति
शेषः । मयोपयोगः-मदुपयोगित्वम् । तावति तत्पर्यन्ते । अनन्याधीना-अन्यस्या-
धीना न भवतीति तथा । स्वन्मात्राधीनेति भावः । निर्विण्णा-विरागवती । तप-
श्चर तपस्यां कुरु । मदधिष्ठिता-मयोपदिष्टा । पारलौकिकाय-परलोके भवं पार-
लौकिकं तस्मै । कल्याणाय मङ्गलार्थम् । अयं एतादृशः । उदर्कः परिणामः । प्राक्त-
नस्य-पूर्वजन्मकृतस्य । दुष्कृतस्य पापस्य । अनेन-एतादृशेन । आकारेण स्वरू-
अपनी कृपादृष्टि मुझपर डालें, अन्यथा मै इन निष्फल प्राणोंको त्याग दूँगी । मैं
मरनेतक अपने रहस्य ( गुप्त ) बातोंको न सुनाऊंगी।' ऐसा कहकर वह संन्यासिनीके
पैरों पड़ गयी ।
(३७) उस संन्यासिनीने उसे उठाकर अपनी आँखोंमें आँसू भरकर कहा-हे
पुत्री ! ऐसा आत्महत्यारूपी साहसका कार्य मत करो। यह मैं तुम्हारी आज्ञाकारिणी
हूँ। जब तक तुम्हारा कार्य मेरे द्वारा हो सकेगा तबतक मैं तुम्हारे अधीन हूँ ! यदि
तुम्हें विराग ही उत्पन्न हो गया है, तो तुम परलोकके कल्याण प्राप्त्यर्थ मेरे साथ मेरे
Here is the line-by-line transcription of the text from the image:
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
षष्ठोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३६१
जात्या चैवंभूतया समनुगता सती अकस्मादेव भर्तृद्वेष्यतां गतासि। यदि
कश्चिदस्त्युपायः पतिद्रोहप्रतिक्रियायै दर्शयामुम्, मातर्हि ते पटीयसी' इति।
( ३८ ) अथासौ कथञ्चित्क्षणमधोमुखी ध्यात्वा दीर्घोष्णश्वासपूर्व-
मवोचत्—'भगवति, पतिरेकदैवतं वनितानाम्, विशेषतः कुलजानाम्।
अतस्तच्छुश्रूषणाभ्युपायहेतुभूतं किंचिदाचरणीयम्। अस्त्यस्मत्प्रातिवेश्यो
वणिगभिजनेन विभवेन राजान्तरङ्गभावेन च सर्वपौरानतीत्य वर्तते।
तस्य कन्या कनकवती नाम मत्समानरूपावयवा ममातिस्निग्धा सखी।
पेण। शीलेन स्वभावेन। जात्या वंशेन। समनुगता युक्ता। भर्तृद्वेष्यतां पत्युरप्रि-
यताम्। पतिद्रोहप्रतिक्रियायै भर्तृद्वेष्यता दूरीकरणाय। अमुम् उपायम्। मति-
र्बुद्धिः। पटीयसी-अतिनिपुणा।
(३८) असौ रत्नवती। दीर्घोष्णश्वासपूर्वं-दीर्घमुष्णञ्च निःश्वस्य। एकदैवतं
एकमात्रदेवता। वनितानां स्त्रीणाम्। कुलजानां सत्कुलोत्पन्नानाम्। तच्छुश्रूषणेति-
तस्य पत्युः शुश्रूषणस्य सेवनस्य यः अभ्युपायस्तस्य हेतुभूतं कारणभूतम् येन
मे पतिशुश्रूषा भवेदिति भावः। आचरणीयं विधातव्यम् त्वयेति शेषः। अस्मत्प्रा-
तिवेश्यः अस्माकं प्रतिवेशी। अभिजनेन वंशेन। विभवेन धनेन। राजान्तरङ्गभा-
वेन-राजवल्लभतया। अतीत्य-अतिक्रम्य। तस्य प्रतिवेशिनः। मत्समानेति मया
सामानं तुल्यं रूपं सौन्दर्यमवयवमङ्गञ्च यस्याः सा। अतिस्निग्धा अतिशयस्नेह-
शालिनी। तया कनकवत्या। तद्धिमानहर्म्यतले तस्याः सौधकुट्टिमे। ततोऽपि
कथनानुसार तप करो। निश्चय ही यह तुम्हारे प्राचीन पापोंके फल हैं कि इतनी
सुन्दर आकृति, अच्छा स्वभाव, अच्छी जाति प्राप्त करके भी पतिकी सहसा अप्रिया हो
गई हो। यदि पतिके द्रोहको दूर करनेका कोई यत्न होवे तो मुझसे कहो, क्योंकि तुम्हारी
बुद्धि प्रखर है।
(३८) तत्पश्चात् रत्नवती कुछ देरतक नीचे मुंह करके विचार करने लगी और
फिर लम्बी और गरम सांस खींचकर बोली—'हे भगवति ! स्त्रियोंको केवल एक पतिही
परमेश्वर हैं। प्रधानतः कुलवतियोंके अधिकरूपेण। अतः ऐसा कोई उपाय करना चाहिये
जिससे मेरे पतिकी मुझसे सेवा हो सके। एक वैश्य मेरा पड़ोसी है जो वंशसे, धनसे और
राजाका पार्श्ववर्ती होनेसे सभी नगरवासियोंसे बढ़ चढ़कर है। उस वैश्यकी एक पुत्री
कनकवती नामकी है जो मेरे अनुरूप अंगवाली है तथा मेरी घनिष्ठ सहचरी भी है।
उसके साथ गगनचुम्बी गृहकी छतपर उससे द्विगुणित सजकर विहार करूंगी। आप
Nepal Sanskrit University, Balmeeki Campus, Kathmandu