दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
२८४ दशकुमारचरितम् । [ उत्तरपीठिकायां
२८४ दशकुमारचरितम् । [ उत्तरपीठिकायां
सत्यर्थे निजगृहान्नृपगृहं सुरङ्गयोपसरन्निहान्तरे वो दृष्टवान् । कथयत
काः स्थ-यूयम् । कथमिह निवसथ' इति प्राब्रवम् । सोदञ्जलिरुदीरित-
वती—'भर्तृदारक, भाग्यवत्यो वयम्, यास्त्वामेभिरेव चक्षुर्भिरनघम-
द्राक्ष्म । श्रूयताम् । यस्तव मातामहश्चण्डसिंहः, तेनास्यां देव्यां लीला-
वत्यां चण्डघोषः कान्तिमतीत्यपत्यद्वयमुदपादि । चण्डघोषस्तु युवराजोऽ-
त्यासङ्गादङ्गनासु राजयक्ष्मणा सुरक्षयमगादन्तर्वर्त्न्यां देव्यामाचारव-
त्याम् । अमुया चेयं मणिकर्णिका नाम कन्या प्रसूता । अथ प्रसववेद-
नया मुक्तजीविताचारवती पत्युरन्तिकमगमत् ।
(२६) अथ देवश्चण्डसिंहो मामाहूयोपह्वरे समाज्ञापयत्—'ऋद्धि-
वृषात्-ब्राह्मणश्रेष्ठात् । सत्यर्थे-अर्थे प्रयोजने सति = उपस्थिते । सुरङ्गया-बिल-
मार्गेण । उपसरन्-गच्छन् । अन्तरे मध्ये । वो युष्मान् । स्थ-भवथ । सा वृद्धा ।
भर्तृदारक-स्वामिकुमार । याः वयम् । अनघं निष्पापम् । अद्राक्ष्म-दृष्टवत्यः ।
देव्यां महिष्याम् । अपत्यद्वयं-सन्ततियुगलम् । उदपादि-जनितम् । अङ्गनासु
कामिनीषु अत्यासङ्गात् अत्यासक्तेः कारणात् । राजयक्ष्मणा-रोगविशेषेण । सुर-
क्षयं-देवपुरं स्वर्गमिति यावत् । अन्तर्वर्त्न्यां-गर्भवत्याम् । देव्यामाचारवत्यां-
आचारवत्याख्यायां देव्याम् । अमुया-आचारवत्या । इयं-पुरो दृश्यमाना । मुक्त-
जीविता-त्यक्तप्राणा । पत्युरन्तिकं पतिसमीपं स्वर्गमिति भावः ।
(२६) अथ-आचारवतीमरणानन्तरम् । मां वृद्धामित्यर्थः । उपह्वरे-रहसि ।
गर्भसे उद्भूत अर्थपाल नामक कुमार हूँ। किसी प्रयोजनके हेतु सुरङ्गके द्वारा अपने
घरसे राजमन्दिरमें जा रहा हूँ रास्तेमें आपको देखा है । आप लोग बतायें कि, आप
सब कौन हैं और क्यों यहाँ रहती हैं ? इस बातपर वृद्धाने अञ्जलि बांधकर हमसे निवेदन
किया—'हे स्वामिपुत्र ! हम सब भाग्यशालनी हैं जो इन्हों आँखोंके द्वारा आप ऐसे
निष्कलङ्कित कुमारका दर्शन कर रही हैं। सुनिये ! जो आपके नाना चण्डसिंह नामवाले
थे, उन्होंने इस लीलावती देवीके द्वारा दो सन्तानें उत्पन्न कीं—एक पुत्र चण्डघोष तथा
दूसरी कन्या कान्तिमती । चण्डघोषने युवराजपद प्राप्त किया और अनेकों नारियोंके
साथ रमणकर राजयक्ष्मा रोगसे पीड़ित हो गया । तथा इसी कारणसे यह अपनी पत्नी
आचारवतीको गर्भवती छोड़कर स्वर्गवासी हो गया । उसी आचारवती देवीने इस मणि-
कर्णिका कन्या को उत्पन्न किया है । और प्रसववेदनाके न सह सकनेके कारण वह
आचारवती भी मुक्तजीवित होकर अपने पतिके समीप स्वर्गको चली गयीं ।
(२६) तत्पश्चात् (आचारवतीके स्वर्गगमनके अनन्तर) राजा चण्डसिंहने मुझ
चतुर्थोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २८५
मति, कन्यकेयं कल्याणलक्षणा । तामिमां मालवेन्द्रनन्दनाय दर्पसाराय
विधिवद्वर्धयित्वा दित्सामि । बिभेमि च कान्तिमतीवृत्तान्तादारभ्य कन्य-
कानां प्रकाशावस्थापनात् । अत इयमरातिव्यसनाय कारिते महति भूमि-
गृहे कृत्रिमशैलगर्भोत्कीर्णनानामण्डपप्रेक्षागृहे प्रचुरपरिबर्हया भवत्या
संवर्ध्यताम् । अस्त्यत्र भोग्यवस्तु वर्षशतेनाप्यक्षय्यम्' इति । स तथो-
क्त्वा निजवासगृहस्य द्व्यङ्गुलभित्तावधंपाटं किष्कुविष्कम्भमुद्धृत्य तेनैव
द्वारेण स्थानमिदमस्मानवीविशत् । इह च नो वसन्तीनां द्वादशसमाः
ऋद्धिमतीति वृद्धाया नाम। कल्याणलक्षणा-शोभनावयवा । इमां कन्याम् ।
विधिवत्-यथाविधि । वर्धयित्वा-परिपाल्य । दित्सामि-दातुमिच्छामि । बिभेमि-
शङ्के। कान्तिमती वृत्तान्तादारभ्य-यदैव कान्तिमत्याः गुप्तरूपेण कामपालसंसर्गा-
त्पुत्रोत्पत्तिर्जाता तस्मादेव दिनादित्यर्थः । प्रकाशावस्थापनात्-प्रकाशं सर्वजनस-
मक्षं यदवस्थापनं संस्थापनं संरक्षणमिति यावत् तस्मात्-बिभेमीति भीत्यर्थानां
भयहेतुरिति पञ्चमी । इयं-कन्या । अरातिव्यसनाय-अरातिभ्यः शत्रुभ्यो यद् व्य-
सनं विपत् तदर्थं-तन्निवारयितुमित्यर्थः । कारिते-निर्मापिते । महति-विशाले भूमि-
गृहे-भूतलान्तर्गृहे । कृत्रिमेति-कृत्रिमो रचितो यः शैलः पर्वतस्तस्य गर्भे मध्ये
उ त्कीर्णानि विन्यस्तानि नानाविधानि मण्डपानि प्रेक्षागृहाणि नर्त्तनशाला यत्र
तस्मिन् । प्रचुरपरिवर्हया-प्रभूतपरिच्छदया । भवत्या-वृद्धयेत्यर्थः । संवर्ध्यताम्
पाल्यताम् इयं कन्यकेति शेषः । अत्र-भूमिगृहे । भोग्यवस्तु-खाद्यपरिधेयादिकम् ।
अक्षम्यं-क्षयानर्हम् । स चण्डघोषः द्व्यङ्गुलभित्तौ अङ्गुलिद्वयपरिमितकुड्ये। अर्धपादं-
पाषाणनिर्मितपिधानम् । किष्कुविष्कम्भं-वितस्तिमात्रपरिणाहम् । उद्धृत्य-उत्पाट्य ।
वृद्धाको एकान्तमें बुलाकर कहा-'हे वृद्धे ! (ऋद्धिमति !) इस पुत्रीमें सभी लक्षण
अच्छे पड़े हुए हैं। अत एव इसका यथाविधि पालन-पोषणकर मालवाधिपतिके राजकुमार
दर्पसारको इसे समर्पण करनेकी इच्छा करता हूँ। कान्तिमतीके दुर्वृत्तान्तको ज्ञात करके
(उसी कालसे) बालिकाओंको प्रकाशरूपेण बाहर रखनेमें मुझे डर लगता है। इस हेतुसे
शत्रुगणोंके भयसे मेरेद्वारा बनवाया हुआ अत्यन्त विशाल भूमिगृह (भूतलान्तर्गृह) है।
उस भूमिगृहके ऊपर एक बनावटी पर्वत है उस पर्वतको खोद करके उस गृहमें जाना
होता है वहांपर नाना प्रकारके मण्डपगृह और नाचघर देखने योग्य बने हुए हैं। वहीं
पर सपरिवार रहकर इस कुमारीका पालन आप उचित रीतिसे करें। वहाँपर भोग्य वस्तुएँ
इतनी प्रचुरमात्रामें रखी हैं कि वे सौ वर्षों तक भी प्रयोगमें लानेसे समाप्त नहीं हो सकती
हैं।' ऐसा कहकर उस राजाने अपने वासगृहसे दो अंगुलकी दूरीपर बनी एक दीवालपर से