सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

२७४ दशकुमारचरितम् । [ उत्तरपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
२७४ दशकुमारचरितम् । [ उत्तरपीठिकायां
यद्बन्धुरबन्धुर्वा दुष्टः स निरपेक्षं निग्राह्य इति । स्त्रीधर्मश्चैष यददुष्टस्य
दुष्टस्य वा भर्तुर्गतिर्गन्तव्येति । तदहममुनैव सह चिताग्निमारोक्ष्यामि ।
युवतिजनानुकूलः पश्चिमो विधिरनुज्ञातव्यः' इति ।
( १६ ) स एवं निवेदितो नियतमनुज्ञास्यति । ततः स्वमेवागारमानीय
काण्डपटीपरिक्षिप्ते विविक्तोद्देशे दर्भसंस्तरणमधिशाय्य स्वयं कृतानुम-
रणमण्डनया त्वया च तत्र संनिधेयम् । अहं च बाह्यकक्षागतस्त्वया प्रवे-
शयिष्ये । ततः पितरमुज्जीव्य तदभिरुचितेनाभ्युपायेन चेष्टिष्यामहे'
सिंहघोषाय । प्रेषणीयं वाचिकं सन्देष्टव्यम् । क्षात्रधर्मः क्षत्रियाणां नियमः । निर-
पेक्षं निर्विचारम् । निग्राह्यः निग्रहीतव्यः दण्डनीय इति यावत् । गतिः पदवी ।
गन्तव्या अनुसत्र्त्तव्या । अमुना मद्भर्त्रा कामपालेन । युवतिजनानुकूलः स्त्री-
जनोचितः । पश्चिमः अन्त्यश्चरम इति यावत् । विधिः दाहादिः । अनुज्ञातव्यः-
आदेष्टव्यः ।
( १६ ) सः सिंहघोषः निवेदितः ज्ञापितः । नियतमवश्यम् । अनुज्ञास्यति-
अनुमोदिष्यते । काण्डपटीति-जवनिकापरिवृते । विविक्तोद्देशे—निर्जनप्रदेशे ।
दर्भसंस्तरणं-कुशरचितशय्याम् । अधिशाय्य-शाययित्वा । स्वयंकृतेति-स्वयमेव
नखन्धेन कृतं रचितमनुमरणस्य सहमरणस्य मण्डनं भूषणं यया तथाभूतया।
त्वया-कान्तिमत्या । संनिधेयं-संनिधौ स्थातव्यम् । अहं अर्थपालः । बाह्यकक्षा-
गतः-बहिः प्रकोष्ठस्थितः । प्रवेशयिष्ये-प्रविष्टो भविष्यामि । प्रपूर्वकविशधातोर्र्णि
जन्तात्कर्मणि लृट् । पितरं-कामपालम् । उज्जीव्य-जीवयित्वा । तदभिरुचितेन-
आप (माताजी) राजाके समीप निर्भय हो करके यह कहला दीजिये कि 'यही क्षत्रियोंका
धर्म है कि बन्धु हो अथवा अबन्धु हो, जो भी दुष्ट कार्य करे उसे दण्ड देना चाहिये ।
महिलाओंका भी यह धर्म है कि उनका पति योग्य हो अथवा अयोग्य, उसकी मृत्युके
पश्चात् उसीकी गतिका अनुगमन करें । अत एव मैं अपने पतिके साथ चिताग्निमें प्रवेश
करूंगी । युवतियोंके लिये श्रेयस्कर इस पिछली विधिको करनेकी आप मुझे आज्ञा दें ।'
( १६ ) वह राजा ऐसे निवेदनपर अवश्य आज्ञा दे देगा । इसके अनन्तर सर्पसे
दंशित पिताजीको अपने गृहमें ला करके परदेके अन्दर एकान्त स्थलमें कुशोंके आसनों-
पर सुला दूंगा । आप भी (माताजी) उस समय सती होनेवाले योग्य वेशको सजा करके
उसो स्थलके समीपमें उपस्थित रहें । मैं भी उसी स्थलके बाहरी दरवाजेपर बैठा रहूँगा,
आप मुझे भीतर करा लीजियेगा । तत्पश्चात् मैं पिताजीको जिला करके उनकी इच्छाके
अनुसार जो उचित यत्न होगा सो करूंगा । वह पूर्णभद्र 'तथा' स्वीकार है ऐसा कह कर के
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

[Header]
चतुर्थोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २७५

इति । स 'तथा' इति हृष्टतरस्तूर्णमगमत् । अहं तु घोषणस्थाने चिञ्चावृक्षं
घनतरविपुलशाखमारुह्य गूढतनुरतिष्ठम् । आरूढश्च लोको यथायथमुच्चैः-
स्थानानि । उच्चावचप्रलापाः प्रस्तुताः ।
(१७) तावन्मे पितरं तस्करमिव पश्चाद्बद्धभुजमुद्धुरध्वनिमहाजना-
नुयातमानीय मदभ्याश एव स्थापयित्वा मातङ्गास्त्रिरघोषयत् — 'एष मन्त्री
कामपालो राज्यलोभाद्भर्तारं चण्डसिंहम्, युवराजं चण्डघोषं च विषा-
न्नेनोपांशु हत्वा पुनर्देवोऽपि सिंहघोषः पूर्णयौवन इत्यमुष्मिन्पापमाच-
रिष्यन्विश्वासाद्रहस्यभूमौ पुनरमात्यं शिवनागमाहूय स्थूणमङ्गारवर्षं च

पितुरभिमतेन । इत्यन्तं मातरमुद्दिश्य पूर्णभद्रं प्रति अर्थपालवचनम् । स पूर्ण-
भद्रः । अहं-अर्थपालः । घोषणस्थाने-यत्र डिण्डिमेन घोषणा क्रियते तत्र । चिञ्चा-
वृक्षं-तिन्तिडीवृक्षम् । घनतरविपुलशाखम्-सान्द्रतरविशालविटपम् । चिञ्चावृक्ष-
विशेषणमेतत् । गूढतनुः-गुप्तशरीरः । लोकः-दर्शकजनः । उच्चावचप्रलापाः-नाना-
विधालापाः । प्रस्तुता आरब्धाः ।
(१७) तावत् एतदभ्यन्तरे । उद्धुरेति-उद्धुरः संकुलो ध्वनिः शब्दो यस्य
तादृशो यो महाजनो जनसमूहस्तेनानुयातमनुसृतम् । मदभ्याशे-मत्समीपे ।
मातङ्गः-चण्डालः । त्रिः-त्रिवारम् । उपांशु-निर्जने । अमुष्मिन्-सिंहघोषे । विश्वा-
सात्-विश्वासमास्थायेति ल्यब्लोपे पंचमी । रहस्यभूमौ-निर्जनप्रदेशे । स्थूणोऽ-
ङ्गारवर्षश्चेति द्वौ राजानुचरौ उपजप्य-भेदयित्वा । तैः शिवनागादिभिः । विवृत-

तत्क्षण ही प्रसन्न वदन होकर उस जगहसे चला गया। मैं गुप्त रीतिसे साँपको लेकर
एक विशाल तथा घनी शाखावाले तिन्तिडीवृक्षके ऊपर जा बैठा। इसी स्थानपर मेरे
पिताके नेत्र निकालनेकी घोषणा की गयी थी। अनेक स्त्री-पुरुष यथायोग्य ऊँचे-ऊँचे
स्थानोंपर बैठकर तमाशा देखनेके लिये एकत्र हो गये थे। नाना रूपोंमें नाना वार्त्ताएँ
सुनाई देती थीं।
(१७) इतनेमें ही भीड़के साथ आगे-आगे मेरे पिता कामपालको चोरके समान
पीछे हाथ करके बाँधे हुए बड़े कोलाहलके साथ (चाण्डाल) वहाँपर मेरे समीपमें ही
ले आये और वहाँपर पिताको खड़ाकर चाण्डालोंने तीन बार जोरसे चिल्लाकर कहा—
'इस सचिव कामपालने राज्यके लोभसे राजा चण्डसिंह और उनके बड़े लड़के चण्डघोषको
विषसे मिश्रित अन्न खिला करके मार डाला। अब इसने पूर्ण तरुणावस्थासे परिव्याप्त
महाराज सिंहघोषको मारनेका पापाचरण किया और विश्वास दिलाकर महाराजके मन्त्री
शिवनाग तथा अनुचरण स्थूण अङ्गारवर्षका राजासे भेदभाव करा दिया और उन लोगोंसे