दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
२३० दशकुमारचरितम् । [ उत्तरपीठिकायां
२३० दशकुमारचरितम् । [ उत्तरपीठिकायां
स्वस्य ममाचार्यकमिव कर्तुमुत्थिते गुरुपरिग्रहश्लाघिनि ग्रहाग्रेसरे क्षपाकरे
कल्पसुन्दरीवदनपुण्डरीकेणेव मद्दर्शनातिरागप्रथमोपनतेन स्मयमानेन
चन्द्रमण्डलेन संधुक्ष्यमाणतेजसि भुवनविजिगीषोद्यते देवे कुसुमधन्वनि,
यथोचितं शयनीयमभजे । व्यचीचरं च—'सिद्धप्राय एवायमर्थः । किंतु
परकलत्रलङ्घनाद्धर्मपीडा भवेत्, साप्यर्थकामयोर्द्वयोरुपलम्भे शास्त्रकारैर-
नुमतैवेति गुरुजनबन्धमोक्षोपायसंधिना मया चैष व्यतिक्रमः कृतः,
तमो यस्मिन्-पूर्णान्धकारे । नभसि गगने । विजृम्भिते-विकासं गते । परदारेति-
परस्य दाराः परस्त्री तस्याः परामर्शाऽभिगमनं तत्रोन्मुखस्य प्रवृत्तस्य । आचार्यकं-
आचार्यकर्म-उपदेशकत्वमिति यावत् । उत्थिते-उदिते । गुरुपरिग्रहेति-गुरोर्बृहस्पतेः
परिग्रहः स्त्री तारा तां श्लाघतेऽभिलषतीति तच्छीले । ग्रहाग्रेसरे-ग्रहप्रधाने । क्षपा-
करे चन्द्रे । कल्पसुन्दरीति-कल्पसुन्दर्या राजपत्न्या वदनपुण्डरीकेण मुखकमलेनेवे-
त्युपमा । कीदृशेन-मद्दर्शनेति मद्दर्शनाय मदवलोकनाय योऽतिरागः प्रबलेच्छा
तेन प्रथमोपनतेन प्रागेव उपस्थितेन । पुनः कीदृशेन स्मयमानेन-ईषद्धसता विक-
सतेति भावः । सन्धुक्ष्यमाणतेजसि-प्रवृद्धप्रकाशे । भुवनेति-भुवनस्य जगतो विजि-
गीषया जयेच्छया उद्यते प्रवृत्ते । कुसुमधन्वनि-कामे । यथोचितं यथायोग्यम् ।
शयनीयं तल्पम् । अभजे आश्रितवानहमिति शेषः । व्यचीचरम् अचिन्तयम् ।
सिद्धप्रायः प्रायेण बाहुल्येन सिद्धः सम्पन्नः । अर्थः प्रयोजनम् । कल्पसुन्दरीप्राप्ति-
पूर्वकपितृराज्यप्राप्तिरूपम् । परकलत्रलङ्घनात् परस्त्रीपरामर्शात् । धर्मपीडा-धर्मबा-
धा-धर्मनाशो वा । सापि धर्मपीडापि । उपलम्भे प्राप्तौ । शास्त्रकारैर्मन्वादिधर्म-
शास्त्रकारैः । अनुमता न निषिद्धा । गुरुजनेति गुरुजनयोः पित्रोर्बन्धाद्वन्धनान्मो-
क्षे मोचने सन्धिरभिसन्धिर्यस्य तेन तथाभूतेन । व्यतिक्रमः धर्मलङ्घनम् । तदपि
पापं परस्त्रीधर्षणरूपम् । निर्हृत्य दूरीकृत्य । कियत्या स्वल्पया । धर्मकलया पितृ-
करनेमें निपुण मेरे आचार्यके समान ( परस्त्रीगमनमें मेरे गुरुके सदृश ) अपनी
गुरुपत्नीके साथ व्यभिचार करनेका स्वभाव रखनेवाले ग्रहोंमें श्रेष्ठ चन्द्रमाका उदय
हुआ तब, तथा मेरे दर्शनकी अभिलाषाके पूर्वमें ही प्राप्त कल्पसुन्दरी देवीके मुखकमलसे
विस्मित चन्द्रमाके मण्डलसे वृद्धिको प्राप्त तेजवाला तथा तीनों लोकोंके विजयकी इच्छासे
पूर्ण कुसुमधन्वा कामदेवके उद्यत होते ही मैंने यथोचित शय्याका ग्रहण किया । मैं
विचारने लगा कि यह कार्य कल्पसुन्दरीकी प्राप्ति आदि तो अब बहुत करके सिद्ध ही
हाँ, परन्तु परस्त्रीगमनसे धर्मका नाश होगा । किन्तु मनु आदि शास्त्रवेत्ताओंने उस
धर्मनाशको निषिद्ध नहीं माना है जिसमें अर्थ और कामकी प्राप्ति होती हो । मैं
जननी-जनकको कारागारसे छुड़ानेके लिए यह धर्मनाश कर रहा हूँ। यह परस्त्रीगमन
CC-0. In Public Domain Digitization by eGangotri. Funding: MIDF
तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २३१
तदपि पापं निर्हृत्य कियत्यापि धर्मकलया मां समग्रयेदिति ।
( १७ ) अपि त्वेतदाकर्ण्य देवो राजवाहनः सुहृदो वा किं नु वक्ष्य-
न्ति' इति चिन्तापराधीन एव निद्रया परामृश्ये । अदृश्यत च स्वप्ने
हस्तिवक्त्रो*भगवान् । आहस्म च-'सौम्य उपहारवर्मन्, मा स्म ते दुर्वि-
कल्पो भूत् । यस्त्वमसि सदंशः । † शङ्करजटाभारलालनोचिता सुरसरि-
मोक्षरूपधर्मांशेन । समग्रयेत् पूरयेत् । समग्रयेदित्यस्याः क्रियायाः कर्तृपद्म
'एष व्यतिक्रम' इति ।
( १७ ) अपि तु-किन्तु । एतत्-मम परस्त्रीपरामर्शम् । चिन्तापराधीनः चिन्ता-
ग्रस्तः । परामृश्ये अस्पृश्ये·निद्रितोऽभवमित्यर्थः । हस्तिवक्त्रः-गणेशः । आहस्म
स्वप्ने गजाननः कथयामास । मास्म भूत्-न भवतु । मास्मयोगे लुङ् रूडागम-
प्रतिषेधश्च । दुर्विकल्पः-दुर्विचारः मदंशः-ममावतारः । शङ्करेति-शङ्करस्य शिवस्य
जटाभारेण जटाजूटेन यत्क्षालनं धारणं तत्रोचिता अभ्यस्ता । सुरसरित्-गङ्गा ।
रूपी पाप, मेरेद्वारा किये माता-पिताके उद्धाररूपी पुण्यके, स्वल्पांशसे धुल जायगा ।
और मुझे पुण्यशाली बनावेगा ।
( १७ ) परन्तु, यह परस्त्रीगमन आदिका वृत्त सुन करके देव राजवाहन तथा अन्य
मित्रगण क्या कहेंगे । इसी विचार-विमर्शमें चिन्ताग्रस्त हो करके मैं निद्राके वशीभूत
हो गया । और स्वप्नगत होकर मैने श्रीगजानन भगवान् के दर्शन किये। उन गणेश
भगवान्ने कहा-'हे सौम्य ! उपहारवर्मन् !! तुम दुर्विचारग्रस्त मत हो । तुम तो मेरे
* अदृश्यत च स्वप्ने भगवान् भर्गः । इति पाठान्तरम् ।
† मज्जटाभारलालनोचितामरसरिदसौ वरवर्णिनी, ताञ्च कदाचिद् गजाननो जलक्रीडां
कुर्वन्नतिव्यगाहत । सा च सपत्नीतनयविहितां विलोडनामसहमाना तमशपत् एहि मर्त्यत्व-
मिति । सोऽपि अहेतुकशापप्रदानात् क्रुद्धस्तामशपत्-यथेह बहुभोग्या तथा प्राप्यापि
मानुष्यकमनेकसाधारणी भवेति । ततस्तेन प्रतिशप्ता सा विलक्ष्य मामुपसृत्य सगद्गदमगदत
स्वामिन् अहमनवरत भवच्चरणपरिचर्याविधायिनी न शापार्हेति । आकर्ण्य कृपाक्रान्तमनसा
मयोक्तं प्रिये नास्य शापोऽन्यथा भवितुमर्हति, परं त्वदनुग्रहार्थमहमात्मनोंऽशं द्विधा विभज्य
विकटवर्मनृपरूपेण मिथिलापतिप्रहारवर्मात्मनोपहारवर्मात्मना च मर्त्यलोकेऽवतरिष्यामि त्वञ्च
कामरूपाधिपतेः कलिङ्गवर्मनाम्नः कन्या कल्पसुन्दरी नाम भूत्वा ज्यायसा मदंशेन विकट-
वर्मणा प्रथममल्पीयांसमनेहसं संगता तस्मिन् विकटवर्मनि मन्मूर्त्तावेवलयमुपगते पुनरुपहार-
वर्मात्मकं कनीयांसं मदंशमुपलभ्य तेन साकं विविधसुखोपभोगमनुभविष्यसि । इति पा० ।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu