सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

१७२ | दशकुमारचरितम् । | [ उत्तरपीठिकायां

१७२ | दशकुमारचरितम् । | [ उत्तरपीठिकायां
शरो भावरसानां सामग्र्यात्समुदितबल इव मामतिमात्रमव्यथयत् ।
(४०) अथासौ नगरदेवतेव नगरमोषरोषिता लीलाकटाक्षमाला-
शृङ्खलाभिर्नीलोत्पलपलाशश्यामलाभिर्मामबध्नात् । नृत्योत्थिता च सा
सिद्धिलाभशोभिनी-'किं विलासात्, किमभिलाषात्, किमकस्मादेव वा,
न जाने, — असकृन्मां सखीभिरप्यनुपलक्षितेनापाङ्गप्रेक्षितेन सविभ्रमा-
रेचितभ्रूलतमभिवीक्ष्य, सापदेशं च किंचिदाविष्कृतदशनचन्द्रिकं स्मित्वा,
लोकलोचनमानसानुयाता प्रातिष्ठत ।
सामग्र्यात् सम्पूर्णतया । समुदितबलः प्राप्तसामर्थ्यः । अतिमात्रं गाढम् अव्य-
थयत् अपीडयत् ।
(४०) अथ कामपीडनानन्तरम् । असौ रागमञ्जरी । लीलेति-लीलया
विलासेन याः कटाक्षमालाः दृष्टिपंक्तयस्ता एव शृङ्खला बन्धनानि साधनानि ता-
भिः। नीलोत्पलेति-नीलोत्पलानां यानि पलाशानि पत्राणि तद्वत् श्यामलाभिः
कृष्णवर्णाभिः । शृङ्खला विशेषणमेतत् । अबध्नात् बबन्ध । नृत्योत्थिता नर्तना-
द्विरता । सिद्धिलाभशोभिनी-मनोरथप्राप्तिशालिनी । सिद्धमनोरथेति यावत् ।
विलासाद् विभ्रमात् । अभिलाषात् स्वेच्छया । अकस्मात् विना कारणमित्यर्थः ।
असकृत् वारं वारम् । मामिति अभिवीक्ष्येत्यस्य कर्म । अनुपलक्षितेन अनवलो-
कितेन । गुप्तरूपेणेति भावः । अपाङ्ग प्रेक्षितेन-कटाक्षावलोकनेन । सविभ्रमेति-
सविभ्रमं सविलासं यथा तथा आरेचिते वक्रीकृते भ्रूलते भ्रूद्वयं यस्मिंस्तत्तथा
तथा । अभिवीक्ष्य दृष्ट्वा । सापदेशं सकपटम् । किञ्चिदिति-किञ्चिदीषत्-आविष्कृता
प्रकटिता दशनचन्द्रिका दन्तप्रभा यत्र तद्यथा तथा । स्मित्वा ईषद्विहस्य । लोके-
ति-लोकानां जनानां लोचनैर्नेत्रैः मानसैश्चित्तैश्च अनुयाता अनुसृता । जनानां
दूसरी रङ्गभूमि बन गया। उसकी सैनके कमलवनका निवासी कामदेव सभी भावों और
सभी रसोंसे सम्पन्न एवं बलवान बनकर बहुत बुरी तरह सताने लगा ।
(४०) तदनन्तर नगरमें चोरीके करनेके कारण रोषिता नगरदेवीके सदृश उस सुन्दरी
काममंजरीने अपने नीले कमलके पत्रोंके तुल्य आभावाले विलासी श्यामल कटाक्षोंकी
श्रृंखला-(सीकड़ी-) से मुझे बद्ध कर लिया तथा नृत्यसे विरत होकर वह मनोरथप्राप्ति-
शालिनी रागमञ्जरी अपने विलाससे या अभिलाषसे वा अकस्मात् (बिना कारण ही) न
मालूम क्यों सखियोंसे भी छिपाकर अपने अपांगोंसे मुझे बार-बार देखती हुई एवं विलासके
व्याजसे अपनी भौंहोंको तरेरती हुई और गुप्तरीत्या (कपटसे) अपनी दन्तप्रभा दिखाती
हुई-मुस्कुराती हुई-जनोंके नेत्रों और चित्तोंको अपने साथ लेती हुई घरको चली गयी ।

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १७३

( ४१ ) सोऽहं स्वगृहमेत्य दुर्निवारयोत्कण्ठया दूरीकृताहारस्पृहः
शिरःशूलस्पर्शनमपदिशन्विविक्ते तल्पे मुक्तैरवयवैरशयिषि । अतिनि-
ष्णाताश्च मदनतन्त्रे मामभ्युपेत्य धनमित्रो रहस्यकथयत्—'सखे, सैव
धन्या गणिकादारिका, यामेवं भवन्मनोऽभिनिविशते । तस्याश्च मया सु-
लक्षिता भाववृत्तिः । तामप्यचिरादयुग्मशरः शरशयने शाययिष्यति ।
स्थानाभिनिवेशिनोश्च वामयत्नसाध्यः समागमः । किन्तु सा किल वार-
कन्यका गणिकास्वधर्मप्रतीपगामिना भद्रोदारेणाशयेन समगिरत—'गुण-

नेत्राणि तामेव अनुसरन्तिस्म मानसानि प्रस्थानानन्तरमपि तामेव ध्यायन्तिस्मेति
भावः । प्रातिष्ठत-गृहं प्रति प्रतस्थे ।
( ४१ ) दुर्निवारया निवारयितुमशक्यया । दूरीकृताहारस्पृहः-परित्यक्तभो-
जनाभिलाषः । शिरःशूलेति-शिरःशूलं शिरोवेदना रोगविशेषस्तस्य स्पर्शन-
मनुभवं अपदिशन् ख्यापयन् । तद्व्याजेनेत्यर्थः । विविक्ते विजने तल्पे शय्या-
याम् । मुक्तैः प्रसारितैरवयवैरङ्गैः । अशयिषि शयितोऽभवम् । अतिनिष्णाततः
अतिपटुः । मदनतन्त्रे कामशास्त्रे । रहसि निर्जने । गणिकाद्वारिका-वेश्याकन्या ।
एवं-अनेन प्रकारेण । भवन्मनः त्वच्चित्तम् । अभिनिविशते आकांक्षति । सुलक्षिता
दृष्टा । भाववृत्तिः अनुरागावेशः । अयुग्मशर. कामः । शरशयने शरशय्यायाम् ।
शाययिष्यति णिजन्तमेतत् । स्थानाभिनिवेशिनोः युक्ताभिलाषवतोः । वां युवयोः ।
अयत्नसाध्यः अनायाससाध्यः । समागमः सम्मेलनम् । किंतु इत्यनेन किञ्चिद्वै-
शिष्ट्यं सूचितम् । तदेवाह-गणिकेति-गणिकायाः वेश्यायाः यः शुल्कग्रहणरूपः
स्वधर्मस्तस्मात् प्रतीपगामिना विरुद्धेन । भद्रोदारेण-भद्रः कल्याणजनक उदारो
महांश्च तेन । आशयेन अभिप्रायेण । समगिरत-प्रतिज्ञातवती । गुणः शुल्कं मुख्यं

( ४१) मैं भी अपने गृहमें आकर, उस रागमञ्जरीकी उत्कण्ठाको निवारण करनेमें
असमर्थ हो ( उसीसे ) भोजनादिकी इच्छासे रहित होकर शिरोवेदना के बहानेसे एकान्तमें
जा करके, हाथ पैर फैला करके शय्यापर सो गया ।' अतिपटु धनमित्रने, मुझे कामशास्त्रमें
( कामजालमें ) फंसे हुए ( डूबे हुए ) समझकर एकान्तमें, आकर कहा—'हे मित्र ! वह
वेश्याकी कन्या धन्य हैं, जो तुम्हारे चित्तमें आ बसी है । जिसके अनुरागविशेषको मैंने देख
लिया है । कामदेव अपनी बाणशय्यापर, उसे भी शीघ्र सुलायेगा । युक्ताभिलाषियोंका
( पारस्परिक प्रेमियोंका ) सम्मेलन अनायाससाध्य ( सुख-साध्य ) होता है । परन्तु, उस
वेश्याकन्याने अपने वेश्याधर्मसे विरुद्ध कल्याणजनक उदार आशयवाली प्रतिज्ञा की है।

Nepal Sanskrit University, Balmeeki Campus, Kathmandu