दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 171, कुल 474 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १७३
( ४१ ) सोऽहं स्वगृहमेत्य दुर्निवारयोत्कण्ठया दूरीकृताहारस्पृहः
शिरःशूलस्पर्शनमपदिशन्विविक्ते तल्पे मुक्तैरवयवैरशयिषि । अतिनि-
ष्णाताश्च मदनतन्त्रे मामभ्युपेत्य धनमित्रो रहस्यकथयत्—'सखे, सैव
धन्या गणिकादारिका, यामेवं भवन्मनोऽभिनिविशते । तस्याश्च मया सु-
लक्षिता भाववृत्तिः । तामप्यचिरादयुग्मशरः शरशयने शाययिष्यति ।
स्थानाभिनिवेशिनोश्च वामयत्नसाध्यः समागमः । किन्तु सा किल वार-
कन्यका गणिकास्वधर्मप्रतीपगामिना भद्रोदारेणाशयेन समगिरत—'गुण-
नेत्राणि तामेव अनुसरन्तिस्म मानसानि प्रस्थानानन्तरमपि तामेव ध्यायन्तिस्मेति
भावः । प्रातिष्ठत-गृहं प्रति प्रतस्थे ।
( ४१ ) दुर्निवारया निवारयितुमशक्यया । दूरीकृताहारस्पृहः-परित्यक्तभो-
जनाभिलाषः । शिरःशूलेति-शिरःशूलं शिरोवेदना रोगविशेषस्तस्य स्पर्शन-
मनुभवं अपदिशन् ख्यापयन् । तद्व्याजेनेत्यर्थः । विविक्ते विजने तल्पे शय्या-
याम् । मुक्तैः प्रसारितैरवयवैरङ्गैः । अशयिषि शयितोऽभवम् । अतिनिष्णाततः
अतिपटुः । मदनतन्त्रे कामशास्त्रे । रहसि निर्जने । गणिकाद्वारिका-वेश्याकन्या ।
एवं-अनेन प्रकारेण । भवन्मनः त्वच्चित्तम् । अभिनिविशते आकांक्षति । सुलक्षिता
दृष्टा । भाववृत्तिः अनुरागावेशः । अयुग्मशर. कामः । शरशयने शरशय्यायाम् ।
शाययिष्यति णिजन्तमेतत् । स्थानाभिनिवेशिनोः युक्ताभिलाषवतोः । वां युवयोः ।
अयत्नसाध्यः अनायाससाध्यः । समागमः सम्मेलनम् । किंतु इत्यनेन किञ्चिद्वै-
शिष्ट्यं सूचितम् । तदेवाह-गणिकेति-गणिकायाः वेश्यायाः यः शुल्कग्रहणरूपः
स्वधर्मस्तस्मात् प्रतीपगामिना विरुद्धेन । भद्रोदारेण-भद्रः कल्याणजनक उदारो
महांश्च तेन । आशयेन अभिप्रायेण । समगिरत-प्रतिज्ञातवती । गुणः शुल्कं मुख्यं
( ४१) मैं भी अपने गृहमें आकर, उस रागमञ्जरीकी उत्कण्ठाको निवारण करनेमें
असमर्थ हो ( उसीसे ) भोजनादिकी इच्छासे रहित होकर शिरोवेदना के बहानेसे एकान्तमें
जा करके, हाथ पैर फैला करके शय्यापर सो गया ।' अतिपटु धनमित्रने, मुझे कामशास्त्रमें
( कामजालमें ) फंसे हुए ( डूबे हुए ) समझकर एकान्तमें, आकर कहा—'हे मित्र ! वह
वेश्याकी कन्या धन्य हैं, जो तुम्हारे चित्तमें आ बसी है । जिसके अनुरागविशेषको मैंने देख
लिया है । कामदेव अपनी बाणशय्यापर, उसे भी शीघ्र सुलायेगा । युक्ताभिलाषियोंका
( पारस्परिक प्रेमियोंका ) सम्मेलन अनायाससाध्य ( सुख-साध्य ) होता है । परन्तु, उस
वेश्याकन्याने अपने वेश्याधर्मसे विरुद्ध कल्याणजनक उदार आशयवाली प्रतिज्ञा की है।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu