सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

१६८ दशकुमारचरितम् । [ उत्तरपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
१६८ दशकुमारचरितम् । [ उत्तरपीठिकायां
( ३६ ) मयोक्तम्—'अवज्ञासोदर्यं दारिद्र्यम्' इति । स पुनरेवं कृपा-
लुरन्वग्रहीत्—'तात, मूढोऽसि । नान्यत्पापिष्ठतमात्मत्यागात् । आत्मा-
नमात्मनानवसाद्यैवोद्धरन्ति सन्तः । सन्त्युपाया धनार्जनस्य बहवः नैको-
ऽपि च्छिन्नकण्ठप्रतिसन्धानपूर्वस्य प्राणलाभस्य । किमनेन । सोऽस्म्यहं
मन्त्रसिद्धः । साधितेयं लक्षग्राहिणी चर्मरत्नभस्त्रिका । चिरमहमस्याः
प्रसादात्कामरूपेषु कामप्रदः प्रजानामवात्सम् । मत्सरिण्यां जरसि भूमि-
( ३६ ) अवज्ञेति—अवज्ञा अवहेलना सोदर्या सहोदरा यस्य तत् । अव-
ज्ञायाः सोदर्यं बन्धुभूतमिति वा । अनादरसहितमित्यर्थः ईदृशं दारिद्र्यमेव मम
साहसस्य मूलमिति प्रश्नोत्तरम् । स-जटाधरः । अन्वग्रहीत्—अनुगृहीतवान् मा-
मिति शेषः । तात-वत्स । नान्यदिति-आत्मत्यागाद् आत्महत्यातः अन्यदपरं
पापिष्ठतमं पापवत्तरमतिपातकं नास्तीत्यर्थः । आत्मानमिति-सन्तः साधवः आ-
त्मना स्वयमात्मानमनवसाद्य अविनाश्य आत्मानमुद्धरन्ति मुक्तिं लभन्ते ।
छिन्नकण्ठेति-छिन्नः कर्त्तितो यः कण्ठः तस्य प्रतिसंधानं पुनः संयोगस्तदेव पूर्वं
यस्य तथाभूतस्य । प्राणलाभस्य जीवनप्राप्तेः । धनार्जनस्य बहव उपायाः सन्ति
किन्तु प्राणलाभस्यैकोऽप्युपायो नास्तीत्यर्थः । अनेन प्राणत्यागेन । साधिता
सम्पादिता लब्धेति यावत् । लक्षं ग्राहयतीति लक्षग्राहिणी-लक्षमुद्राप्रसविनी ।
चिरं दीर्घकालं यावत् । अस्याः चर्मरत्नभस्त्रिकायाः । कामरूपेषु तदाख्यप्रदेशे ।
कामप्रदः अभीष्टदाता प्रजानामिति शेषः । अवात्सं वसतिमकरवम् । मत्सरि-
ण्यां विद्वेषिण्याम् । जरसि-जरायां वार्द्धके इति यावत् । मयि जराग्रस्ते सती-
( ३६ ) मैंने कहा-'अवज्ञा और दरिद्रता ही मेरे दुःसाहसका कारण है।' उस दयालुने
मेरेपर अनुग्रह करके कहा—'हे तात ! तुम बड़े नासमझ हो । आत्महत्यासे बढ़कर और
कोई पाप नहीं हो सकता । भले लोग अपनी आत्माको कुछ कष्ट दिये बिना ही अपना
निस्तार कर लिया करते हैं । धन अर्जन करनेके बहुतेरे उपाय हैं । लेकिन कटे हुए गलेको
जोड़नेका एक भी उपाय नहीं है । सो, ऐसा करनेकी क्या आवश्यकता । मैं एक मन्त्रसिद्ध-
पुरुष हूं । मैंने लाखोंकी सम्पत्ति प्रदान करनेवाली यह चर्मरत्नभस्त्रिका साध ली हैं । इसकी
कृपासे कामरूप देशमें सब लोगोंकी कामनाए पूर्ण करता हुआ बहुत समयतक रहा हूँ ।
मत्सर ( ईर्ष्या ) उत्पन्न करनेवाली वृद्धावस्थामें इस भूमिको स्वर्ग समझकर मैं घूमता-
फिरता आ निकला । सो, आप इसे स्वीकार करें । यह बात नहीं है कि, यह (चर्मभस्त्रिका)
हमारी ही कामना पूर्ण करती हो, बल्कि, यह तो वैश्यों और वेश्याओंकी भी इच्छा पूर्ण
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

स्वर्गमत्रोद्देशे प्रवेक्ष्यन्नागतः। तामिमां प्रतिगृहाण। मदन्यत्र चेयं
वणिग्भ्यो वारमुख्याभ्यो वा दुग्धे इति हि तद्गता प्रतीतिः। किन्तु
यत्सकाशादन्यायापहृतं तत्तस्मै प्रत्यर्पणीयम्। न्यायार्जितं तु देवब्राह्म-
णेभ्यस्त्याज्यम्।
(३७) अथेयं देवतेव शुचौ देशे निवेश्यार्च्यमाना प्रातः-प्रातः सुव-
र्णपूर्णेव दृश्यते। स एष कल्पः' इति बद्धाञ्जलये मह्यमेनां दत्त्वा किमपि
ग्रावच्छिद्रं प्राविशत्। इयं च रत्नभूता चर्मभस्त्रिका देवायानिवेद्य नोप-
जीव्येत्यानीता। परन्तु देवः प्रमाणम्' इति। राजा च नियतमेव वक्ष्य-

त्यर्थः। भूमिस्र्वगं भूमौ पृथिव्यां स्वर्गं इव तम्। स्वर्गतुल्यं किमपि स्थानमि-
त्यर्थः। भूमितः स्वर्गगमनार्थं किमपि बिलं वा। प्रवेक्ष्यन्नित्यस्य कर्म । उद्देशे
प्रदेशे। इमां चर्मरत्नभस्त्रिकाम्। मदन्यत्र मां विहाय अपरत्र। इयं चर्मरत्न-
भस्त्रिका। वणिग्भ्यो वैश्येभ्यः। वारमुख्याभ्यः वाराङ्गनाभ्यः। चतुर्थी बहुवच-
नम्। दुग्धे रत्नानि प्रसूते। तद्गता-चर्मरत्नभस्त्रिकाविषयिणी। प्रतीतिः प्रसि-
द्धिः। यत्सकाशात्-यस्य जनस्य सकाशात्समीपात्। अन्यायापहृतं-अन्यायेना-
नीतं तद् वस्तु तस्मै-यत्सकाशादानीताभ्यर्थः। त्याज्यं दातव्यम्।
(३७) अथ-त्यागानन्तरम् । इयं-भस्त्री । शुचौ-पवित्रे । निवेश्य संस्था-
प्य। अर्च्यमाना-पूज्यमाना। प्रातः प्रातः-प्रतिप्रातः कालम्। कल्पः प्रकारः।
बद्धाञ्जलये-कृतप्रणामाय । एनां अस्त्रिकाम् । ग्रावच्छिद्रं पर्वतविवरम् । रत्न-
भूता-रत्नस्वरूपा। देवाय भवते। अनिवेद्य अनुक्त्वा। नोपजीव्या न भोक्तव्या।
प्रमाणं निर्णायकः। नियतमवश्यमेव । वक्ष्यति कथयिष्यति । यथेष्टम्-स्वेच्छा-

करती है। यह बात विख्यात हो चुकी है। लेकिन यह बात भी ध्यानमें रखनी चाहिए
कि, यदि अन्यायसे किसीका कुछ अपहरण कर लिया जाय तो, वह उसे लौटा देना
चाहिए। और न्यायसंगत रीतिसे जो उपलब्ध हो उसे देवताओं और ब्राह्मणोंके काम खर्च
करना उचित है।
(३७) यदि किसी पवित्र स्थानपर रखकर देवताकी भांति इसका पूजन किया जाय
तो, प्रतिदिन यह सुवर्णसे पूर्ण दीखेगी। यही इसका विधान है।' अञ्जलि बांधकर खड़े मुझ
दाससे यों कह कर वह जटाधारी किसी पर्वतकी कन्दरामें घुस गया। यह रत्नस्वरूपा
भस्त्रिका आपको अर्पण किये बिना अपने काममें लाना अनुचित जानकर ही आपके समीप
ले आया हूँ। अब आप जो उचित समझें सो, करें। इसपर राजा अवश्य कहेगा-

ति-'भद्र, प्रीतोऽस्मि । गच्छ । यथेष्टमिमामुपभुङ्क्ष्व' इति । भूयश्च
ब्रूहि—'यथा न कश्चिदेनां मुष्णाति तथानुगृह्यताम्' इति । तदप्यवश्य-
मसावभ्युपैष्यति । ततः स्वगृहमेत्य यथोक्तमर्थत्यागं कृत्वा दिने दिने
वरिवस्यमानां स्तेयलब्धैरर्थैर्नक्तमापूर्य प्राह्णे लोकाय दर्शयिष्यसि ।
ततः कुबेरदत्तस्तृणाय मत्वार्थपतिमर्थलुब्धः कन्यकया स्वयमेव त्वा-
मुपस्थास्यति ।
( ३८ ) अथ कुपितोऽर्थपतिर्व्यवहर्तुमर्थगर्वाद्भियोत्स्यते । तं च
भूयश्चित्रैरुपायैः कौपीनावशेषं करिष्यावः । स्वकं चौर्यमनेनैवाभ्युपायेन
सुप्रच्छन्नं भविष्यति' इति ' हृष्टश्च धनमित्रो यथोक्तमन्वतिष्ठत् । तदहरेव
नुरूपम् । इमां भस्त्रिकाम् । भूयः पुनरपि । मुष्णाति चोरयति । असौ राजा ।
अभ्युपैष्यति स्वीकरिष्यति । अर्थत्यागं धनदानम् । वरिवस्यमानाम् अर्च्यमा-
नाम् । भस्त्रिकामिति शेषः । स्तेयलब्धैः चौर्येणाधिगतैः । नक्तं रात्रौ । आपूर्य
रत्नैः पूरयित्वा । प्राह्णे प्रभाते । तृणाय मत्वा तृणवज्ज्ञात्वा अवज्ञायेत्यर्थः।
उपस्थास्यति-आराघयिष्यति ।
( ३८ ) व्यवहर्त्तुं विवादं कर्त्तुम् । अर्थगर्वात् धनमदात् । अभियोत्स्यते-राज-
द्वारे अभियोगं करिष्यति । एनम् अर्थपतिम् । चित्रैर्नानाविधैः । स्वकं स्वकीयम्।
अनेन-पूर्वोक्तेन । सुप्रच्छन्नं गुप्तम् । तदहः तस्मिन् दिने । मन्नियोगात्-ममा-
'भद्र ! मैं तुमपर प्रसन्न हूँ । जाओ और इच्छानुसार इसका उपयोग करो।
तब तुम कहना कि, 'कृपा करके श्रीमान् कोई ऐसा प्रबन्ध कर दें कि, जिससे
इसे कोई चुरा न सके ।' राजा तुम्हारी बात अवश्य मानेगा । तदनन्तर अपने
घर आकर पूर्वोक्त रीतिसे धन दान करके सतत पूजित इस भस्त्रिकाको रातके
समय चोरी करके प्राप्त धन से भर दिया करना । और सबेरे लोगोंको दिखाना ।
तब धनका लोभी कुबेरदत्त अर्थपतिको तृणकी भांति समझकर अपनी कन्याको साथ लेकर
तुम्हारे पास आयेगा ।
( ३८ ) इस बातसे अर्थपति क्रुद्ध होगा और धनके गर्ववश वह तुमसे द्वेष करने
लगेगा । उसे हम दोनों विविध उपायोंसे कौपीनावशेष कर डालेंगे । चोरीका अपना
दुष्कर्म इसी उपाय से छिपेगा ।' धनमित्रने प्रसन्न मनसे मेरे कहे हुए सब कार्य सम्पन्न

द्वितीयाेच्छ्वासः ] व्याखाद्वयाेपेतम् । १०१
मन्नियोगाद्विमर्दकोऽर्थपतिसेवाभियुक्तस्तस्योदारके वैरमभ्यवर्धयत् । अर्थ-
लुब्धश्च कुबेरदत्तो निवृत्त्यार्थपतेर्धनमित्रायैव तनयां सानुनयं प्रादित्सत ।
प्रत्यबध्नाच्चार्थपतिः ।
( ३६ ) एष्वेव दिवसेषु काममञ्जर्याः स्वसा यवीयसी रागमञ्जरी नाम
पञ्चवीरगोष्ठे संगीतकमनुष्ठास्यतीति सान्द्रादरः समागमन्नागरजनः । स
चाहं सह सख्या धनमित्रेण तत्र संन्यधिषि । प्रवृत्तनृत्यायां च तस्यां
द्वितीयं रङ्गपीठं ममाभून्मनः । तद्दृष्टिविभ्रमोत्पलवनसञ्चापाश्रयश्च पञ्च-
ज्ञया । विमर्दकः एतन्नामकः कश्चित् । अर्थपतीति-अर्थपतेः सेवायामाराधनेऽ-
भियुक्तः संलग्नः । तस्य अर्थपतेः । उदारके धनमित्रे । वैरं द्वेषम् । अभ्यवर्धयत्
वर्धयामास । निवृत्त्य परावृत्य । अर्थपतेः । सकाशात् । प्रादित्सत-प्रदातुमैच्छत् ।
प्रत्यबध्नात् प्रतिबन्धं विरोधमिति यावत् चकार ।
( ३९ ) स्वसा भगिनी । यवीयसी कनिष्ठा । पञ्चवीरगोष्ठे जनपदसभायाम्
'तत्पञ्चवीरगोष्ठं तु यत्तु जानपदं सद' इति कोषसारः । सङ्गीतकं गानादि । यदाह-
'गीतं वाद्यं च नृत्यञ्च त्रिभिः सङ्गीतमुच्यते ।' इति अनुष्ठास्यति विधास्यति । सा-
न्द्रादरः-तद्गानश्रवणे गाढस्पृहः । समागमत्-सम्मिलितोऽभवत् । अहम् । अप-
हारवर्मेत्यर्थः । संन्यधिषि सन्निहितोऽभवम् । सन्नित्पूर्वकाद्धाधातोर्लुङि आत्म-
नेपदस्योत्तमपुरुषैकवचने रूपम् । प्रवृत्तनृत्यायां प्रारब्धनर्तनायाम् । तस्यां रागम-
ञ्जर्याम् । रङ्गपीठं नृत्यस्थानम् । निरन्तरस्मर्यमाणतया मन्मानसे नृत्यमकरोदिति
भावः । तद्दृष्टीति-तस्या रागमञ्जर्या दृष्टिविभ्रमः कटाक्ष एवोत्पलवनं नीलकमल-
माला तदेव सदुत्तमं चापं धनुराश्रयो यस्य तादृशः । पञ्चशरः कामः । भावरसानां
आवानां प्राधान्येनाङ्गितव्यभिचारिणां निर्वेदादीनां रसानां शृङ्गारादीनाञ्च ।
कर दिये । उसी दिन मेरी प्रेरणानुसार विमर्दकने अर्थपतिके यहां नौकरी कर ली और
धनमित्रमें बैर बढ़ाने लगा । ऐसा करनेसे लोभी कुबेरदत्तका मन अर्थपतिकी ओरसे फिर
गया और उसने धनमित्रको ही अपनी कन्या प्रदान की । अर्थपतिने भी इस कार्यमें सभी
सम्भव विघ्न डाले ।
( ३९ ) इन्हीं दिनों काममञ्जरीकी छोटी बहिन रागमञ्जरीका नागरिक समामें नाच-
गाना होनेवाला है, यह सुनकर बड़े आदरके साथ बहुतेरे नागरिक एकत्र हुए । मैं भी
अपने मित्र धनमित्रके साथ वहां जा पहुँचा । जब वह गणिका नाचने लगी तब मेरा मन
१२ द० कृ० उ०
Nepal Sanskrit University, Balmeeki Campus, Kathmandu