दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
१६६ दशकुमारचरितम् । [ उत्तरपीठिकायां
१६६ दशकुमारचरितम् । [ उत्तरपीठिकायां
क्वचन जीर्णोद्याने शाखाग्राहिकया चावातराव । स्वगृहगतौ च स्नातौ
शयनमध्यशिश्रियाव ।
( ३५ ) तावदेवोदगादुदधेरुदयाचलेन्द्रपद्मरागशृङ्गकल्पं कल्पद्रुमहे-
मपल्लवापीडपाटलं पतङ्गमण्डलम् । उत्थाय च धौतवक्त्रौ प्रगेतनानि
मङ्गलान्यनुष्ठायास्मत्कर्मतुमुलं पुरमनु विचरन्तावशृणुव वरवधूगृहेषु
कोलाहलम् । अथार्थैरर्थपतिः कुबेरदत्तमाश्वास्य कुलपालिकाविवाहं मासा-
अध्वंसयावः-आवां ध्वंसितवन्तौ । अमुना-गजेन । अपवाह्य-नीत्वा । शाखाग्राहि-
कया वृक्षशाखाग्रहणेन । अवातराव अवतीर्णौ । स्नातौ कृतस्नानौ । शयनं
शय्याम् । अध्यशिश्रियाव अधिष्ठितवन्तौ आवामिति शेषः ।
(३५) तावदेव-तस्मिन्नेवकाले । उदगाद् उत्थितमभवत् । उदधेः-साग-
रात् उद्येति-उदयाचलेन्द्रस्य उदयपर्वतराजस्य यत् पद्मरागशृङ्गं शोणमणिशि-
खरं तस्मादीषदूनं तत्सदृशमित्यर्थः । कल्पद्रुमस्य देवतरोर्ये हेमपल्लवाः सुवर्णकि-
सलयानि तेषामापीडः समूहस्तद्वत्पाटलं श्वेतरक्तवर्णम् । पतङ्गमण्डलं सूर्यवि-
म्बम् । उदगादित्यस्य कर्तृपदम् । उत्थाय शयनादिति शेषः । धौतवक्त्रौ प्रक्षा-
लितमुखौ आवामिति शेषः । प्रगेतनानि-प्रभातोचितानि । प्रगे इत्येकारान्तमव्ययं
तस्मात् 'सायं चिरमि'त्यादिना ट्युल् प्रत्ययस्तुडागमश्च । अनुष्ठाय परिसमाप्य ।
अस्मदिति-अस्माकं कर्मणा चौर्येण तुमुलं भयसङ्कुलम् । पुरस्य विशेषणम् ।
वरवधूगृहेषु-वरस्यार्थपतेर्वध्वाः कुबेरदत्तकन्यायाश्च गृहेषु । उभयत्रैव सर्वद्रव्या-
पहरणं जातमिति भावः । कोलाहलमार्त्तनादम् । अथैर्धनैः । कुबेरदत्तं कन्या-
रक्षकोंके झुण्डकी ओर झपटा । उसी हाथीके द्वारा मैंने अर्थपतिका भवन ढहा दिया ।
जब वह हम दोनोंको अपनी पीठपर लादकर कुछ दूर ले गया तो, एक उजाड़ उपवनमें
वृक्षकी शाखा पकड़कर उतर आया । अन्तमें अपने घर जाकर हम दोनोंने स्नान किया
और सो गये ।
(३५) इसी समय उदयाचलके पद्मरागमणिके शिखर सदृश एवं कल्पवृक्षके स्वर्णपल्लव
समूहकी भाँति रक्तवर्णका सूर्यमण्डल समुद्रसे निकल आया। तब उठकर हम दोनोंने
मुँह धोया प्रातःकालोचित सब कार्य सम्पन्न किये । तदनन्तर घूमने निकले तो, वहीं एक
वर-वधू के घरोंमें कोलाहल सुना । इसके बाद अर्थपति-( वर-) ने बहुत सा धन
देकर कुबेरदत्त- ( कन्याके पिता-) को आश्वासन दिया और महीनेभर बाद कुलपालिका-
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १६७
वधिकमकल्पयत् । उपह्वरे पुनरित्थमशिक्षयं धनमित्रम्—'उपतिष्ठ सखे,
एकान्त एव चर्मरत्नभस्त्रिकामिमां पुरस्कृत्याङ्गराजम् । आचक्ष्व च जाना-
त्येव देवो नैककोटिसारस्य वसुमित्रस्य मां धनमित्रं नामैकपुत्रम् । सोऽहं
मूलहरत्वमेत्यार्थिवर्गादस्म्यवज्ञातः । मदर्थमेव संवर्धितायां कुलपालि-
कायां महद्दारिद्र्यदोषात्पुनः कुबेरदत्तेन दुहितर्यर्थपतये दित्सितायामुद्वेगा-
दुज्झितुम सूनुपनगरभवं जरद्वनमवगाह्य कण्ठन्यस्तशस्त्रिकः केनापि जटा-
धरेण निवार्यैवमुक्तः—'किं ते साहसस्य मूलम्' इति ।
पितरम् । आश्वास्य सान्त्वयित्वा । कुलपालिका कुबेरदत्तकन्या तस्या विवाह-
स्तम् । मासावधिकं-मासोऽवधिर्यस्य तम् । एकमासाभ्यन्तरे कदापि भविष्यतीति
अकल्पयत्-निरधारयत् । उपह्वरे एकान्ते । इति-वक्ष्यमाणम् । अशिक्षयं शिक्षि-
तवानस्मि । उपतिष्ठ-भजस्व । चर्मेति-चर्मणा निर्मिता रत्नभस्त्रिका रत्नप्रसविनी
भस्त्रा ताम् अथवा चर्मरत्नेन उत्तमचर्मणा निर्मिता भस्त्रिका ताम् । पुरस्कृत्य
अग्रे धृत्वा । अङ्गराजं अङ्गदेशाधिपतिम् । आचक्ष्व-ब्रूहि । देवो-भवान् । नैकको-
टिसारस्य अनेककोटिद्रव्यवतः, महाधनिकस्येत्यर्थः । मूलहरत्वं लुप्तमूलधनत्वम्-
दारिद्र्यमित्यर्थः । एत्य-प्राप्य-अर्थिवर्गादितिशेषः । अवज्ञातः निःस्वतया तिर-
स्कृतः मदर्थं सन्निमित्तम् । संवर्धितायां पालितायाम् । कुलपालिकां कन्याम् । दुहि-
तरि-कन्यायाम् । दित्सितायां दातुमिष्टायाम् । उद्वेगात् शोकात् । उज्झितुं
त्यक्तुम् । असून् प्राणान् । उपनगरभवं नगरसन्निकटस्थम् । जरद्वनं जीर्णारण्यम् ।
लोकप्रचाररहितमिति यावत् । अवगाह्य प्रविश्य । कण्ठेति-कण्ठे गलदेशे
न्यस्ता निहिता शस्त्रिका छुरिका येन सः । केनापि-अज्ञातनाम्ना । निवार्य
निषिध्य । साहसस्य एतादृशोद्योगस्य । मूलं निदानम् ।
( कन्या- ) के साथ उसका विवाह निश्चित हो गया । इसके बाद एकान्तमें मैंने धनमित्रको
यह शिक्षा दी-मित्र ! तुम यह उत्तम चर्मकी बनी भाथी लेकर अङ्गराजसे मिलो । उनसे
कहना कि, आप यह जानते ही होंगे कि, मैं अनेक करोड़ धनके अधिपति व सुमित्रका
एक पुत्र धनमित्र हूँ । अब मेरी सब पूँजी समाप्त हो गयी है, इसलिए भिखारी लोग भी
मेरा तिरस्कार करते हैं । यद्यपि कुबेरदत्तने मुझे अर्पण करनेके लिए ही अपनी कन्याका
पालन किया था, किन्तु, मेरी दरिद्रताके कारण वह उसे अर्थपतिको देना चाहता है । यह
समाचार सुनकर मुझे इतना सन्ताप हुआ कि, मैं नगरके समीप ही सुनसान जङ्गलमें
चला गया और अपने गलेपर तलवार चलानी चाही, इसी समय एक जटाधारी सन्तने मुझे
रोककर कहा—'तुम ऐसा दुःसाहस किस लिए कर रहे हो ?'
Nepal Sanskrit University, Balmeeki Campus, Kathmandu