दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
उत्तरपीठिकायाम्
॥ श्रीः ॥
दशकुमारचरितम्
उत्तरपीठिकायाम्
प्रथमोच्छ्वासः
(१) श्रुत्वा तु भुवनवृत्तान्तमुत्तमाङ्गना विस्मयविकसिताक्षी सस्मि-
तमिदमभाषत-‘दयित, त्वत्प्रसादादद्य मे चरितार्था श्रोत्रवृत्तिः। अद्य मे
मनसि तमोपहस्त्वया दत्तो ज्ञानप्रदीपः। पक्वमिदानीं त्वत्पादपद्मपरिचर्या-
फलम्। अस्य च त्वत्प्रसादस्य किमुपकृत्य प्रत्युपकृतवती भवेयम्।
अभवदीयं हि नैव किञ्चिन्मत्सम्बद्धम्। अथवास्त्येवास्यापि जनस्य
(१) उत्तमा निखिलनायिकागुणभूषिता अङ्गना कामिनी अवन्तिसुन्दरीति
शेषः। विस्मयेन नानाविधाख्यायिकाश्रवणजनिताश्चर्यरसेन विकसिते प्रफुल्ले
अक्षिणी नयने यस्याः सा। सस्मितं सहासम्। चरितार्था सफला। श्रोत्रवृत्तिः
श्रवणेन्द्रियमित्यर्थः। तमः अपहन्तीति तमोपहोऽज्ञाननाशकः। ज्ञानमेव प्रदीपः।
तव पादपद्मयोश्चरणकमलयोः परिचर्यायाः सेवायाः फलम् परिपाकः। त्वत्प्रसादस्य
भुवनवृत्तान्तश्रावणरूपस्येत्यर्थः। किमुपकृत्य कीदृशमुपकारं कृत्वा। प्रत्युपकृ-
तवती कृतप्रत्युपकारा। अभवदीयं न भवदीयम्। मत्सम्बद्धं मदीयम्-यतोऽहमपि
भवत एवातो यदेव मदीयं तदपि भवदीयमेवेति भावः। अथवा पक्षान्तरे पूर्वाप-
रितोषे इत्याशयः। अस्यापि जनस्य ममेत्यर्थः। क्वचित् कुत्रापि। प्रभुत्वं
(१) समस्त लोकोंके सुन्दर वृत्तान्तोंको श्रवण कर उस परमसुन्दरी महिलाके नयन
विस्मयान्वित हो गये और उस महिलाने मुसकुराकर कहा-‘हे दयित ! आपकी दयासे
आज मेरे कर्ण सफल हो गये—मैंने आपकी सभी बातें सुन लीं। आपने आज मेरे
अन्धकाराच्छन्न हृदयमें ज्ञानका दीपक जला दिया है। आपकी चरणसेवा का फल आज
परिपक्व हुआ। आपने इस जनपर जो कृपा की है उसका प्रत्युपकार मैं क्या कर सकती
हूँ। मेरे समीप कोई भी ऐसी वस्तु नहीं बची है जिसके स्वामी आप न होवें। परन्तु,
अन्वेषणपूर्ण दृष्टिसे देखनेपर मुझे यह ध्यान हो आया कि मेरा प्रभुत्व भी किसी वस्तुपर
८ द० कु० उ०
क्वचित्प्रभुत्वम् । अशक्यं हि मदिच्छया विना सरस्वतीमुखग्रहणोच्छेष-
गीकृतो दशनच्छद एष चुम्बयितुम् ।
(२) 'अम्बुजासनास्तनतटोपभुक्तमुरःस्थलं चेदमालिङ्गयितुम्' इति
प्रियोरसि प्रावृडिव नभस्युपास्तीर्णगुरुपयोधरमण्डला प्रौढकन्दलीकुड्म-
लमिव रूढरागरूषितं चक्षुरुल्लासयन्ती बर्हिबर्हावलीविडम्बयता कुसुम-
चन्द्रकशारेण मधुकरकुलव्याकुलेन केशकलापेन स्फुरदरुणकिरणकेसर-
करालं कदम्बमुकुलमिव कान्तस्याधरमणिमधीर साचुचुम्ब ।
स्वातन्त्र्यम्-मदाज्ञया विना तत्तद्भवतापि कर्तुं न शक्यत इति भावः । तदेव वि-
शदीकरोति-अशक्यमित्यादिना । सरस्वत्या वाण्या मुखग्रहणेन आननाधिकारेण
उच्छेषणीकृत उच्छिष्टीकृतः । दशनच्छदस्य विशेषणम् । सरस्वत्या तु प्रागेव भव-
तो वदनकमलमधिकृतम्-मुखमधिष्ठाय सा वसतीत्यर्थः । दशनच्छद ओष्ठः ।
चुम्बयितुमिति णिजन्तम् । अन्यया कामिन्येति शेषः ।
(२) अम्बुजासना लक्ष्मीस्तस्याः स्तनतटाभ्यां पयोधराभ्यामुपभुक्तं समा-
लिङ्गितमित्यर्थः । उरःस्थलं वक्षःस्थलं राजवाहनस्येत्यर्थः । आलिङ्गयितुमित्यपि
णिजन्तम्-अन्ययेति शेषः । इति उक्तेवेति शेषः । प्रावृट् वर्षाः तद्वत् । नभसि
आकाशे । उपास्तीर्णं विस्तारितमिति प्रावृट्पक्षे अवन्तिसुन्दरीपक्षे तु स्थापितं गुरु
विशालमुभयत्र समानम् पयोधरमण्डलमेकत्र मेघसमूहोऽन्यत्र स्तनयुगलं यया
सा । प्रौढायाः पुष्टायाः कन्दल्या द्रोणपर्णीति प्रसिद्धायाः कुड्मलं मुकुलमिव । रूढः
उत्पन्नो यो रागो रक्तिमा अनुरागश्च तेन रूषितं भूषितम् । चक्षुर्विशेषणमिदम् ।
तादृशं चक्षुरुल्लासयन्ती विशदीकुर्वाणा; बर्ही मयूरस्तस्य बर्हावलीः पिच्छपंक्तीः
विडम्बयता अनुकुर्वता । कुसुमानि शिरःस्थितपुष्पाण्येव चन्द्रिका मेचकास्तैः
शारेण विचित्रेण । मधुकरकुलव्याकुलेन कुसुमामोदलुब्धभ्रमरव्याप्तेन । सर्वने-
अवश्य है । वह वस्तु क्या आपके होठ हैं जिन्हें सरस्वती देवीके अतिरिक्त अद्यावधि कोई
भी नहीं उच्छिष्ट कर सका है । उन अधरोष्ठोंको मेरे अतिरिक्त कोई भी महिला नहीं
चूम सकती है-क्योंकि उनपर मेरा आधिपत्य है ।
(२) तथा च लक्ष्मीजीके कुचोंसे संस्पर्शित आपके इस वक्षःस्थलका आलिंगन मेरे
अतिरिक्त अन्य कोई भी नहीं कर सकता है ।' इतना कहकर उस बालाने श्रावणमासके
साथ वर्षाकालके समान उन्नत स्तनोंवाली अपनी छाती उसके अन्तस्तलपर चिपका दी
तथा द्रोणपर्णीके कोंपलोंके सदृश प्रेमातिरेकसे कुछ-कुछ रक्तिमापूर्ण नेत्रोंसे एकटक उसे
देखने लगी । उसके केशकलापोंमें जो पुष्प गुम्फित थे वे मोरपंखोंके समान चमकीले
लग रहे थे । लोलुप मधुपोंका झुण्ड उन पुष्पोंके परागोंके पानार्थ मँडरा रहा था । इसी
( ३ ) तदारम्भस्फुरितया च रागवृत्त्या भूयोऽप्यावर्ततातिमात्रचित्रो-
पचारशीफरो रतिप्रबन्धः । सुरतखेदसुप्तयोस्तु तयोः स्वप्ने बिसगुणनि-
गडितपादो जरठः कश्चिज्जालपादोऽदृश्यत । प्रत्यबुध्येतां चोभौ ।
( ४ ) अथ तस्य राजकुमारस्य कमलमूढशशिकिरणरज्जुदामनिगृ-
तत्केशकलापस्य विशेषणम् ! केशकलापेनेति उपलक्षणे तृतीया । तथाविधकेशपाशो-
पलक्षिता अवन्तिसुन्दरीत्यर्थः । स्फुरदिति—स्फुरन्तः शोभमाना अरुणा रक्तवर्णाः
किरणा एव केसराणि किञ्जल्कास्तैः करालं दन्तुरम् । अतएव कदम्बसाम्यमस्य ।
अधरमणेर्विशेषणमेतत् । कदम्बमुकुलं नीपकलिकामिव । कान्तस्य दयितस्य
राजवाहनस्येत्यर्थः । अधरो मणिरिव तम् अधरमणिमधरबिम्बम् । अधीरमवशं
यथा तथा आचुचुम्ब चुम्बितवती ।
( ३ ) तदारम्भेति—तस्यारम्भस्तदारम्भस्तेन चुम्बनारम्भेण स्फुरितया
उद्दीप्तया । रागवृत्त्या अनुरागसमृद्धया । भूयोऽपि बाहुल्येनेति भावः । आवर्त्तत
प्रवृत्तोऽभवत् । अतिमात्रमत्यर्थं चित्रेण नानाविधेन विस्मयोत्पादकेन वा उपचारेण
सुरतसाधनेन शीफरो रमणीयः । सुरतस्य खेदः श्रमस्तेन सुप्तयोः निद्रितयोः ।
तयोः अवन्तिसुन्दरीराजवाहनयोः । स्वप्ने स्वप्नावस्थायाम् । बिसगुणेन मृणालत-
न्तुना निगडितौ बद्धौ पादौ चरणौ यस्य सः । जरठो वृद्धः । जालपादो हंसः ।
अदृश्यत ताभ्यां दृष्टोऽभवदित्यर्थः । प्रत्यबुध्येतां जागरितौ ।
( ४ ) अथ हंसदर्शनानन्तरम् । कमलेन पद्मेन मूढो भ्रान्तो यः शशी चन्द्र-
स्तस्य किरणा एव रज्जुदाम गुणसमूहस्तेन निगृहीतं बद्धमिव—इदं कमलमिवि
भ्रान्त्या चन्द्रः स्वमयूखजालेन रज्ज्वा चरणयुगलं बबन्धेति भावः । चन्द्रपद्मयोः
क्षण भावावेशसे विह्वला होकर उसने कदम्बकी कोंपलोंके सदृश लाल-लाल अपने प्रियतमके
अधरोष्ठोंको चूम लिया ।
( ३ ) इस चुम्बन-क्रियासे उसकी कामवासना जागृत हो गयी और उसने उसके
साथ आमोद-प्रमोद करना प्रारम्भ कर दिया । दीर्घ समयतक भोग-विलास करके श्रान्त
हों जानेपर जब वे दोनों सो गये तो उन लोगोंने स्वप्नमें एक बूढ़े हंस पक्षीको देखा जिसके
दोनों पाँव मृणाल-तन्तुसे परिवद्ध थे । उसी समय उन लोगोंकी आँखे खुल गयीं—वे
जाग पड़े ।
( ४ ) राजकुमारने उठकर देखा कि कमलके भ्रमसे चन्द्रमाकी किरणोंके तुल्य
चाँदीकी जंजीरोंसे उसके दोनों पाँव बँधे हुए हैं। राजकुमारीने अपने वल्लभको ज्योंही
ऐसी दुर्दशामें देखा त्योंही वे चिल्लाकर चीत्कार करने लगी । उस चीत्कारके कोलाहलसे