दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 107, कुल 474 में से
संदर्भ में पढ़ें( ३ ) तदारम्भस्फुरितया च रागवृत्त्या भूयोऽप्यावर्ततातिमात्रचित्रो-
पचारशीफरो रतिप्रबन्धः । सुरतखेदसुप्तयोस्तु तयोः स्वप्ने बिसगुणनि-
गडितपादो जरठः कश्चिज्जालपादोऽदृश्यत । प्रत्यबुध्येतां चोभौ ।
( ४ ) अथ तस्य राजकुमारस्य कमलमूढशशिकिरणरज्जुदामनिगृ-
तत्केशकलापस्य विशेषणम् ! केशकलापेनेति उपलक्षणे तृतीया । तथाविधकेशपाशो-
पलक्षिता अवन्तिसुन्दरीत्यर्थः । स्फुरदिति—स्फुरन्तः शोभमाना अरुणा रक्तवर्णाः
किरणा एव केसराणि किञ्जल्कास्तैः करालं दन्तुरम् । अतएव कदम्बसाम्यमस्य ।
अधरमणेर्विशेषणमेतत् । कदम्बमुकुलं नीपकलिकामिव । कान्तस्य दयितस्य
राजवाहनस्येत्यर्थः । अधरो मणिरिव तम् अधरमणिमधरबिम्बम् । अधीरमवशं
यथा तथा आचुचुम्ब चुम्बितवती ।
( ३ ) तदारम्भेति—तस्यारम्भस्तदारम्भस्तेन चुम्बनारम्भेण स्फुरितया
उद्दीप्तया । रागवृत्त्या अनुरागसमृद्धया । भूयोऽपि बाहुल्येनेति भावः । आवर्त्तत
प्रवृत्तोऽभवत् । अतिमात्रमत्यर्थं चित्रेण नानाविधेन विस्मयोत्पादकेन वा उपचारेण
सुरतसाधनेन शीफरो रमणीयः । सुरतस्य खेदः श्रमस्तेन सुप्तयोः निद्रितयोः ।
तयोः अवन्तिसुन्दरीराजवाहनयोः । स्वप्ने स्वप्नावस्थायाम् । बिसगुणेन मृणालत-
न्तुना निगडितौ बद्धौ पादौ चरणौ यस्य सः । जरठो वृद्धः । जालपादो हंसः ।
अदृश्यत ताभ्यां दृष्टोऽभवदित्यर्थः । प्रत्यबुध्येतां जागरितौ ।
( ४ ) अथ हंसदर्शनानन्तरम् । कमलेन पद्मेन मूढो भ्रान्तो यः शशी चन्द्र-
स्तस्य किरणा एव रज्जुदाम गुणसमूहस्तेन निगृहीतं बद्धमिव—इदं कमलमिवि
भ्रान्त्या चन्द्रः स्वमयूखजालेन रज्ज्वा चरणयुगलं बबन्धेति भावः । चन्द्रपद्मयोः
क्षण भावावेशसे विह्वला होकर उसने कदम्बकी कोंपलोंके सदृश लाल-लाल अपने प्रियतमके
अधरोष्ठोंको चूम लिया ।
( ३ ) इस चुम्बन-क्रियासे उसकी कामवासना जागृत हो गयी और उसने उसके
साथ आमोद-प्रमोद करना प्रारम्भ कर दिया । दीर्घ समयतक भोग-विलास करके श्रान्त
हों जानेपर जब वे दोनों सो गये तो उन लोगोंने स्वप्नमें एक बूढ़े हंस पक्षीको देखा जिसके
दोनों पाँव मृणाल-तन्तुसे परिवद्ध थे । उसी समय उन लोगोंकी आँखे खुल गयीं—वे
जाग पड़े ।
( ४ ) राजकुमारने उठकर देखा कि कमलके भ्रमसे चन्द्रमाकी किरणोंके तुल्य
चाँदीकी जंजीरोंसे उसके दोनों पाँव बँधे हुए हैं। राजकुमारीने अपने वल्लभको ज्योंही
ऐसी दुर्दशामें देखा त्योंही वे चिल्लाकर चीत्कार करने लगी । उस चीत्कारके कोलाहलसे