दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
६६ दशकुमारचरितम् । [ पूर्वपीठिकायां
६६ दशकुमारचरितम् । [ पूर्वपीठिकायां
दुरवस्थानुभूयते । कथ्यताम्' इति ।
(७) सा सगद्गदमवादीत्—'पुत्र, कालयवनद्वीपे कालगुप्तनाम्नो व-
णिजः कस्यचिदेषा सुता सुवृत्ता नाम रत्नोद्भवेन निजकान्तेनागच्छन्ती
जलधौ मग्ने प्रवहणे निजधात्र्या मया सह फलकमेकमवलम्ब्य दैवयोगेन
कूलमुपेतासन्नप्रसवसमया कस्याञ्चिदटव्यामात्मजमसूत । मम तु मन्दभा-
ग्यतया बाले वनमातङ्गेन गृहीते मद्द्वितीया परिभ्रमन्ती 'षोडशवर्षानन्तरं
भर्तृपुत्रसङ्गमो भविष्यति' इति सिद्धवाक्यविश्वासादेकस्मिन्पुण्याश्रमे
तावन्तं समयं नीत्वा शोकमपारं सोढुमक्षमा समुज्ज्वलिते वैश्वानरे शरी-
रमाहुतीकर्तुमुद्युक्तासीत्' इति ।
कारणेन । दुरवस्था एतादृशी दुर्दशा । अनुभूयते भवतीभ्यामिति शेषः ।
(७) सा वृद्धा। सगद्गदं बाष्परुद्धकण्ठम् । निजकान्तेन स्वभर्त्रा । फलकं काष्ठ-
खण्डम् । कूलं तीरमुपेता प्राप्ता । आसन्नः प्राप्तः प्रसवसमयो यया सा । मन्दभाग्य-
तया दुरदृष्टवशेन । बाले शिशौ । वनमातङ्गेन आरण्यगजेन । मद्द्वितीया अहं
द्वितीया यस्याः सा मच्छरणेत्यर्थः । तावन्तं षोडशवर्षमितम् । नीत्वा यापयित्वा ।
अपारं अनन्तम् । अक्षमा असमर्था । समुज्ज्वलिते प्रज्वलिते । आहुतीकर्त्तुं प्रक्षेप्तुं
भस्मसात्कर्तुमित्यर्थः ।
बैठी थी उसे और उस वनिताको लेकर अपने पिताके पास आया और पिता के सामने ही
वृद्धासे उसके अग्निप्रवेशका कारण पूछा- हे वृद्धे ! तुम दोनों कौन हो तथा क्योंकर आगमें
यहाँ प्रविष्ट हो रही थीं ? और तुम लोग कहाँकी निवासिनी हो । इस अरण्यमें क्यों कष्ट
सह रही हो ?
(७) वह वृद्धा गद्गद स्वरमें बोली-'हे पुत्र ! कालयवनद्वीपमें कालगुप्त नामक एक
वणिक् रहता था। उसकी सुवृत्ता नामक यह कन्या है । यह कन्या अपने पति रत्नोद्भवके
साथ नावपर आ रही थी। दैववश नाव, बीच समुद्रमें, टूटकर डूब गयी । धात्रीभावसे
नियुक्त मैं और यह कन्या एक काठके सहारे समुद्रतटपर आ लगीं । यह आसन्नप्रसवा थी ।
अतः इसने पास ही के विपिनमें एक पुत्र उत्पन्न किया । दुर्भाग्यसे एक जंगली हाथी उस
बालकको उठा ले गया । मेरे साथ विलपती हुई यह एक तपस्वीके समीप गयी । उनके उप-
देशपूर्ण कथनपर कि १६ वर्षमें तुम्हारे पति-पुत्र मिल जायेंगे यह कन्या मेरे साथ एक पवित्र
आश्रममें निवासकर जीवन-यापन करने लगी । परन्तु १६ वर्ष होनेपर भी जब इसे पति-
पुत्र न मिले तो यह अपार शोक-सागर पार करनेमें ,चिन्तित हो गयी और इस जलती
हुई आगमें प्रवेश करनेके लिए तैयार हो गयी ।
चतुर्थोच्छ्वासः ] व्याख्याद्वयोपेतम् । ६७
( ८ ) तदाकर्ण्य निजजननीं ज्ञात्वा तामहं दण्डवत्प्रणम्य तस्यै
मदुदन्तमखिलमाख्याय धात्रीभाषणफुल्लवदनं विस्मयविकसिताक्षं जन-
कमदर्शयम् । पितरौ तौ साभिज्ञानमन्योन्यं ज्ञात्वा मुदितान्तरात्मानौ
विनीतं मामानन्दाश्रुवर्षेणाभिषिच्य गाढमाश्लिष्य शिरस्युपाघ्राय कस्यां-
चिन्महीरुहच्छायायामुपाविशताम् ।
( ६ ) 'कथं निवसति महीवल्लभो राजहंसः' इति जनकेन पृष्टोऽहं
तस्य राज्यच्युतिं त्वदीयजननं सकलकुमारावाप्तिं तव दिग्विजययारम्भं भ-
वतो मातङ्गानुयानमस्माकं युष्मदन्वेषणकारणं सकलमभ्यधाम् । ततस्तौ
कस्यचिदाश्रमे मुनेरस्थापयम् । ततो देवस्यान्वेषणपरायणोऽहमखिलका-
( ८ ) निजजननीं ज्ञात्वा इयमेव मे मातेति निश्चित्य तस्यै मात्रे मदुदन्तं
मद्वृत्तान्तम् । धात्र्या वृद्धायाः भाषणेन वचनश्रवणेन फुल्लं हर्षविकसितं वदन-
माननं यस्य तम् । विस्मयेन आश्चर्य्यरसेन विकसिते उत्फुल्ले अक्षिणी नेत्रे यस्य
तम् । अदर्शयं दर्शितवानहमिति शेषः । माता च पिता चेति पितरौ । साभिज्ञानं
परस्परपरिचयसूचकचिह्नेन । मुदितो हृष्टोऽन्तरात्मा ययोस्तौ । विनीतं प्रश्रयावन-
तम् । आनन्दाश्रुवर्षेण हर्षजनितनेत्रजलवर्षणेन । गाढं दृढम् । आश्लिष्य आलिङ्ग्य ।
शिरसि मस्तके । उपाघ्राय घ्राणं कृत्वा । महीरुहच्छायायां वृक्षच्छायायाम् । उपा-
विशताम् उपविष्टौ ताविति शेषः ।
( ९ ) कथं केन प्रकारेण महीवल्लभो राजा । तस्य राजहंसस्य । राज्यच्युतिं
राज्यभ्रंशं । त्वदीयजननं स्वकीयोत्पत्तिम् । मातङ्गानुयानं तदाख्यब्राह्मणस्यानुसर-
णम् । अभ्यधाम् अकथयम् । तौ मातापितरौ । देवस्य भवतः । अखिलानि सम्पू-
र्णानि कार्याणि तेषां निमित्तं साधनम् । वित्तं धनम् । साधकत्वस्य सिद्धादेशक-
( ८ ) इन बातोंको सुनकर मैने समझ लिया कि यह महिला मेरी मां है । अतः मैने
उसे प्रणाम किया और अपनी पूरी कथा कह सुनायी । फिर धात्रीकी वार्ता सुनकर प्रफुल्लित
मुखवाले और विस्मयसे प्रफुल्ल नयनोंवाले अपने पिता को उनके दर्शन कराये । पुनः माता-
पिताने परस्पर अपने परिज्ञानोंसे अन्योन्यको समझ लिया और प्रसन्न होकर उन दोनोंने
मुझे अपने हृदयमें लगा लिया तथा अश्रुओंसे मुझे भिगोकर विनीतभावसे मेरा माथा सूंघा
तथा पासके एक वृक्षकी छायामें हम लोग बैठे ।
( ९ ) पिताजीके यह पूछनेपर कि, महाराज राजहंसका क्या समाचार है ? मैंने उनके
राज्यच्युतिका, आपके जन्मका, सब कुमारोंके सम्मेलनका, आपके दिग्विजयके लिए
प्रस्थानका, आपके मातंगके निमित्त पातालप्रवेशका और आपके अन्वेषणार्थ हम लोगोंके