दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
४८ दशकुमारचरितम् । [ पूर्वपीठिकायां
४८ दशकुमारचरितम् । [ पूर्वपीठिकायां
( १४ ) लोकैकवीरेण कुमारेण रक्ष्यमाणः संतुष्टान्तरङ्गो मातङ्गोऽपि
बिलं शशिशेखरकथिताभिज्ञानपरिज्ञातं निःशङ्कं प्रविश्य गृहीतताम्रशासनो
रसातलं पथा तेनैवोपेतय तत्र कस्यचित्पत्तनस्य निकटं केलीकाननका-
सारस्य विततसारसस्य समीपे नानाविधेनेशशासनविधानोपपादितेन
हविषा होमं विरच्य प्रत्यूहपरिहारिणि सविस्मयं विलोकयति राजवाहने
समिदाज्यसमुज्ज्वलिते ज्वलने पुण्यगेहं देहं मन्त्रपूर्वकमहुतीकृत्य तडि-
त्समानकान्ति दिव्यां तनुमलभत ।
( १५ ) तदनु मणिमयमण्डनमण्डलमण्डिता सकललोकललनाकुल-
( १४ ) लोकेषु भुवनेषु एकोऽद्वितीयो वीरो योधस्तेन । सन्तुष्टान्तरङ्गः हृष्टमा-
नसः । शशिशेखरेण शिवेन कथितात् आदिष्टात् अभिज्ञानात् चिह्नात् परिज्ञातमव-
गतम् । निःशङ्कं निर्भयम् । रसातलं पातालम् । पथा मार्गेण । पत्तनस्य नगरस्य ।
केलीकानने क्रीडोद्याने यत्कासारं सरोवरं तस्य । वितताः सर्वतः प्रमृताः सारसाः
पक्षिविशेषा यत्र तस्य । ईशस्य शिवस्य यत् शासनविधानं आज्ञाविधिस्तेनोपपादि-
तेन सम्पादितेन । हविषा हवनीयद्रव्येण आज्यादिनेत्यर्थः । प्रत्यूहपरिहारिणि
विघ्ननिवारके । समिद्भिः काष्ठैः आज्यैर्घृतैश्च समुज्ज्वलिते उद्दीपिते । ज्वलने वह्नौ ।
पुण्यस्य सुकृतस्य गेहमाधारभूतं देहस्य विशेषणमेतत् । मन्त्रपूर्वकं समन्त्रकम् ।
आहुतीकृत्य ज्वलने क्षिप्त्वा । तडिता विद्युता समाना तुल्या कान्तिः प्रभा यस्या-
स्ताम् । दिव्यां स्वर्गीयाम् । तनुं देहम् ।
( १५ ) मणिमयै रत्नप्रचुरैर्मण्डनमण्डलभूषणगणैर्मण्डिताऽलंकृता । सकल-
उन अतिसहिष्णु कुमारों ने पुनः आकर मिलने के लिए एक संकेतस्थल भी निश्चित कर
दिया । इसके पश्चात् वे लोग अलग-अलग दिशाओं में खोजने चल पड़े ।
( १४ ) विश्व के प्रमुख योधाराजवाहन द्वारा रक्षित होने से प्रसन्न चित्त उस मातंगने
भी शिवजीसे निर्देशित किये गये लक्षणोंवाले चिह्नोंसे परिज्ञात विवर में निःशंक होकर प्रवेश
किया और वहाँसे ताम्रपत्रको लेकर फिर उसी मार्गसे पातालमें चला गया । वहाँ किसी नगर
के समीप सारस पक्षियोंसे युक्त क्रीडोद्यानके तालाब के पास परमेश्वरकी आज्ञा-विधिके अनु-
कूल सम्पादित अनेक प्रकार के हवनीय द्रव्य को होम करके विघ्नों को दूर करनेवाले राज-
वाहन के, आश्चर्यपूर्वक, देखते देखते समिधा एवं घृत से उद्दीप्त अग्नि में पुण्यगेह-देह की
आहुति दे दी । तथा बिजली के सदृश देदीप्यमान शरीर प्राप्त किया ।
( १५ ) इसके पश्चात् रत्नोंके अलंकारोंसे अलंकृत समस्त रमणियोंमें श्रेष्ठ एक कुमारीने
द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । ४६
ललामभूतकन्यका काचन विनीतानेक सखीजनानुकम्प्यमाना कलहंसगत्या
शनैरागत्यावनिसुरोत्तमाय मणिमेकमुज्ज्वलाकारमुपायनीकृत्य तेन 'का
त्वम्' इति पृष्टा सोत्कण्ठाकलकण्ठस्वनेन मन्दं मन्दमुदञ्जलिरभाषत—
( १६ ) 'भूसुरोत्तम, अहमसुरोत्तमन्दिनी कालिन्दी नाम । मम
पितास्य लोकस्य शासिता महानुभावो निजपराक्रमासहिष्णुना विष्णुना
दूरीकृतामरे समरे यमनगरातिथिर्कारि । तद्वियोगशोकसागरमग्नां माम-
वेक्ष्य कोऽपि कारुणिकः सिद्धतापसोऽभाषत—
( १७ ) 'बाले, कश्चिद्दिव्यदेहधारी मानवो नवो वल्लभस्तव भूत्वा
सकलं रसातलं पालयिष्यति' इति । तदादेशं निशम्य घनशब्दोन्मुखी चा-
लोकस्य निखिलसंसारस्य ललनाकुलेषु कामिनीगणेषु ललामभूता भूषणस्वरूपा
कन्यका । विनीता नम्रा । अनेकैर्बहुभिः सखीजनैः सहचरीवर्गैरनुगम्यमानाऽनुस्रि-
यमाणा । कलहंसगत्या राजहंसवन्मन्थरगमनेन । अवनिसुरोत्तमाय ब्राह्मणवराय
मातङ्गायेत्यर्थः । उपायनीकृत्य उपहारीकृत्य । तेन मातङ्गेन । सोत्कण्ठा सोत्सुका ।
कलकण्ठस्वनेन कोकिलस्वरेण । उदञ्जलिर्बद्धाञ्जलिः ।
( १६ ) लोकस्य पातालस्य । शासिता पालयिता । महानुभावो महाप्रतापः ।
निजस्य स्वस्य ( मत्पितुरित्यर्थः ) पराक्रमस्य असहिष्णुना सहनाशक्तेन । दूरीकृताः
पराजिताः अमरा देवा यस्मिंस्तस्मिन् । यमनगरस्य यमालयस्यातिथिर्ब्यागतः ।
अकारि कृतः हत इत्यर्थः । तस्य पितुर्वियोगो विनाशस्तस्माद्यः शोक एव सागरस्तत्र
मग्ना तामू । कारुणिको दयालुः ।
( १७ ) वल्लभः पतिः । तस्य सिद्धतापसस्यादेशमाज्ञाम् । घनस्य मेघस्य शब्देन
गर्जनेन उन्मुखी ऊर्ध्वमुखी । मेघध्वनि श्रुत्वोर्ध्वाननेत्यर्थः । तवालोकनकाङ्क्षिणी
विनीत सखियों के साथ कलहंसकी चालसे आकर उक्त देदीप्यमान शरीरधारी ब्राह्मणके
समीप जाकर एक समुज्ज्वल मणि उसे भेंट की । ब्राह्मणके द्वारा पूछी जानेपर कि 'तुम
कौन हो ?' उसने कोयलसी मीठी वाणीमें धीमे स्वरसे उत्तर दिया—
( १६ ) हे भूसुरोत्तम ! मेरा नाम कालिन्दी है और मैं असुरराजकी पुत्री हूँ । जब इस
लोकके अधिपति मेरे पिताने, इस लोकका शासन करते हुए अपने महापराक्रमके विक्रमसे
समरमें देवताओंको भी पराजित कर दिया, तब इस महापराक्रमको न सहकर विष्णु
भगवान्ने मेरे पिताको संग्राममें मार डाला । उनके वियोगरूपी शोक-सागरमें निमग्न मुझे
देखकर जटाधारी एक कारुणिक साधुने मुझसे कहा—
( १७ ) 'जो तुम्हारा वल्लभ होगा वही समस्त पातालके राज्यका स्वामी भी होगा ।'
४ द० कु० पू०