दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
३६२ दशकुमारचरितम् । [ उत्तरपीठिकायां
३६२ दशकुमारचरितम् । [ उत्तरपीठिकायां
तया सह तद्विमानहर्म्यतले ततोऽपि द्विगुणमण्डिता विहरिष्यामि। त्वया
तु तन्मातृप्रार्थनं सकरुणमभिधाय मत्पतिरेतद्गृहं कथञ्चनानेयः। समी-
पगते च युष्मासु क्रीडामत्ता नाम कन्दुकं भ्रंशयेयम्। अथ तमादाय तस्य
हस्ते दत्त्वा वक्ष्यसि— 'पुत्र, तवेयं भार्योसखी निधिपतिदत्तस्य सर्वश्रेष्ठि-
मुख्यस्य कन्या कनकवती नाम। त्वामियमनवस्थो निष्करुणश्चेति रत्न-
वतीनिमित्तमत्यर्थं निन्दति । तदेष कन्दुको विपक्षधनं प्रत्यर्पणीयम्' इति ।
स तथोक्तो नियतमुन्मुखीभूय तामेव प्रियसखीं मन्यमानो मा बद्धाञ्जलिं
याचमानायै मह्यं भूयस्त्वत्प्रार्थितः साभिलाषमर्पयिष्यति । 'तेन रन्ध्रे-
कनकवत्यपेक्षयापि। द्विगुणमण्डिता-समधिकविभूषिता। त्वया-परिव्राजिकया।
तन्मातृप्रार्थनं तस्याः कनकवत्या मातुर्जनन्याः प्रार्थनं याचनम् । कनकवत्या
जननी त्वां द्रष्टुमिच्छतीति सकरुणमभिधाय तमुक्त्वा। एतद्गृहं कनकवतीगेहम् ।
कथञ्चन-येन केनापि प्रकारेण । आनेयः आनेतव्यः । समीपगते निकटवर्तिनि
मत्पत्याविति शेषः। युष्मासु युष्माकमुपरि । क्रीडामत्ता नाम-क्रीडोन्मादिनीव
भूत्वा । भ्रंशयेयं पातयिष्यामि । तं कन्दुकम् । तस्य मत्पत्युर्बलभद्रस्य । इयं
कनकवती । अनवस्थः अव्यवस्थः चञ्चलमतिरित्यर्थः । तत्तस्मात् । विपक्षधनं
विरोधिजनद्रव्यम् । स बलभद्रः । तथा तेन प्रकारेण कथितः । नियतमवश्यम् ।
उन्मुखीभूय ऊर्ध्वमुखो भूत्वा । मां तामेव प्रियसखीं कनकवतीं मन्यमानः जानन् ।
याचमानायैकन्दुकं प्रार्थयमानायै । भूयः पुनरपि । त्वत्प्रार्थितः त्वया याचितः ।
साभिलाषं सस्पृहम् । रन्ध्रेण व्याजेन । उपश्लिष्य आलिङ्ग्य । रागममुरागम् ।
उसकी (कनकवती की) मातासे करुणापूर्वक प्रार्थना करके मेरे पतिको (कनकवतीकी
माता तुम्हें देखना चाहती हैं) किसी प्रकार उस मेरी सखीके घरपर ले आना। जब
आप लोग कनकवतीके गृहके समीप आ जायंगी तब मैं आप लोगोंके ऊपर क्रीड़ोन्मत्ताके
समान गेंद फेंक दूंगी (गिरा दूंगी)। आप उस गेंदको लेकर मेरे पतिके हाथमें देकर
कहियेगा—"हे पुत्र ! सब वणिकोंमें श्रेष्ठ निधिपति नामक सेठकी पुत्री यह कनकवती
तुम्हारी पत्नीकी सखी है। यह कनकवती निष्करुण, चंचल स्वभाववाली होनेके कारण
तुम्हारी रत्नवतीके प्रेमके बहाने बड़ी निन्दा करती है। अतः इस विपक्षी धनको
(गेंदको) उसे वापस कर दीजिये।' इस प्रकारसे कथन करनेपर वह अवश्य ऊपरकी
ओर मुख करके मुझे कनकवती समझकर देखेगा। तब मैं बद्धाञ्जली होकर उससे गेंद
फेरनेकी प्रार्थना करूंगी और आप भी उससे गेंद फेरनेको कहेंगी तो वह सस्पृह होकर
मुझे गेंद दे देगा। फिर मैं उसका व्याज (कपट) के साथ आलिंगन करूंगी एवं प्रेमको
षष्ठोच्छ्वासः ] बालबोधिनीव्याख्यासहितम् । ३६३
णोपश्लिष्य रागमुरुज्वलीकृत्य यथासौ कृतसंकेतो देशान्तरमादाय मां
गमिष्यति तथोपपादनीयम्' इति ।
( ३६ ) हर्षाभ्युपेतया चानया तथैव संपादितम् । अथैतां कनकव-
तीति वृद्धतापसीविप्रलब्धो बलभद्रः सरत्नसाराभरणामादाय निशि नीर-
न्ध्रे तमसि प्रावसत् । सा तु तापसी वार्त्तामापादयत्—'मन्देन मया नि-
र्निमित्तमुपेक्षिता रत्नवती, श्वशुरौ च परिभूतौ, सुहृदश्चातिवर्तिताः । तद्-
त्रैव संसृष्टो जीवितुं जिह्रेमीति बलभद्रः पूर्वेद्युर्मामकथयत् । नूनमसौ तेन
उज्ज्वलीकृत्य-वर्धयित्वा । असौ बलभद्रः । कृतसंकेतः-दत्तेङ्गितः । उपपादनीयं
विधेयम् ।
(४१) हर्षेति-हर्षेणानन्देन अभ्युपेतया तथास्त्विति स्वीकृतया । अनया प्रव्रा-
जिकया । एतां रत्नवतीं कनकवतीति कृत्वा वृद्धतापसीविप्रलब्धः वृद्धप्रव्राजिका-
प्रतारितः । सरत्नसाराभरणांम्-रत्नालङ्काराद्युत्कृष्टधनसहिताम् । नीरन्ध्रे तमसि-
गाढान्धकारे । प्रावसत्-देशान्तरमगच्छत् । वार्त्तामापादयत्-वक्ष्यमाणरूपां कथां
प्राचारयत् । कीदृशीमित्याह-इत्यन्तेन । मन्देन मूढेन । मया-बलभद्रेण । निर्नि-
मित्तं निष्कारणम् । उपेक्षिता त्यक्ता । श्वशुरौ-श्वश्रूश्च श्वशुरश्चेत्येकशेषः । परिभूतौ
तिरस्कृतौ । अवमानिताविति यावत् । अतिवर्त्तिताः अतिक्रान्ताः तेषां वचनमपि
मयोपेक्षितमिति भावः । अत्रैव अस्मिन्नेव नगरे । संसृष्टः श्वशुरादिभिः सङ्गतः ।
जिह्रेमि लज्जे । पूर्वेद्युः गतदिवसे । मां वृद्धतापसीमित्यर्थः । नूनं निश्चितम् । असौ
रत्नवती । तेन बलभद्रेण । नीता देशान्तरमिति शेषः । व्यक्तिः प्रकाशः एतद्वृ-
त्तान्तप्रकटनमिति यावत् । अचिरात् शीघ्रम् । इत्यन्ता वार्त्ता तापस्या प्रचा-
बढ़ाकर उसे देशान्तर चलनेके लिय संकेत करूंगी तथा जिस रीतिसे वह मुझे लेकर अन्य
देशमें भाग चले ऐसे प्रयत्नोंको करूंगी ।
(३९) आनन्दके साथ संन्यासिनी द्वारा वह कार्य मेरे कथनानुसार सम्पादित
कर दिया गया । तदनन्तर संन्यासिनी द्वारा वंचित होकर वह बलभद्र रत्नवतीको ही
कनकवती समझकर मणि, सुवर्ण आदिसे युक्त होकर गाढान्धकारवाली आधी रातमें
वहांसे अन्य देशको चला गया । उस संन्यासिनी द्वारा लोगोंमें बात प्रचारित हुई कि
उस बलभद्रने कल मुझसे कहा—'हे अम्ब ! निष्कारणही मुझ मूर्खजनके द्वारा रत्नवती
उपेक्षिता हुई । श्वसुर-सास आदि भी तिरस्कृत हुए । मित्रोंकी भी सम्मतियां न मानीं ।
अतः अब यहां इन लोगोंके संग मुझे रहनेमें लज्जा आती है।' इस कारणसे वही वलभद्र
अपनी स्त्री रत्नवतीको साथ लेकर परदेश चला गया है । यह बात शीघ्र ही प्रकाशित भी
२४ द० कु० उ०