दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
३२ दशकुमारचरितम् । [ पूर्वपीठिकायां
३२ दशकुमारचरितम् । [ पूर्वपीठिकायां
जनपदगामिनं मार्गमन्वेष्टुमुद्युक्तया मया विवशायास्तस्याः समीपे बालकं
निक्षिप्य गन्तुमनुचितमिति कुमारोऽप्यानायि' इति ।
(७०) तस्मिन्नेव क्षणे वन्यो वारणः कश्चिददृश्यत । तं विलोक्य
भीता सा बालकं निपात्य प्राद्रवत् । अहं समीपलतागुल्मके प्रविश्य परी-
क्षमाणोऽतिष्ठम्, निपतितं बालकं पल्लवकवलमिवाददति गजपतौ कण्ठी-
रवो महाग्रहेण न्यपतत् । भयाकुलेन दन्तावलेन झटिति वियति समुत्पा-
त्यमानो बालको न्यपतत् । चिरायुष्मत्तया स चोन्नततरुशाखासमासी-
नेन वानरेण केनचित्पक्वफलबुद्ध्या परिगृह्य फलेतरतया विततस्कन्ध-
मूले निक्षिप्तोऽभूत् । सोऽपि मर्कटः क्वचिदगात् ।
रे । जनपदगामिनं लोकालयप्रापकम् । विवशाया विकलायाः । आनायि आनीतो
मयेति शेषः ।
(७०) वने भव इति वन्य आरण्यक इत्यर्थः । वारणो गजः । सा धात्री ।
प्राद्रवत् पलायत । अहं वामदेवशिष्यः । समीपलतागुल्मके समीपस्थलतागृहे ।
परीक्षमाणः परितो विलोकयन् । पल्लवकवलं किसलयग्रासम् । आददति गृह्णति
सतीति शेषः । कण्ठीरवः सिंहः । भीमो भयङ्करो रवो गर्जितं यस्य सः । महाग्रहेण
अधिकावेशेन दन्तावलेन हस्तिना । वियति आकाशे । समुत्पात्यमानः समुत्क्षिप्य-
माणः । चिरायुष्मत्तया दीर्घजीविततया । स बालकः । उन्नतस्योच्छ्रितस्य तरोर्वृक्ष-
स्य शाखायां सभासीनेनोपविष्टेन । पक्वफलबुद्ध्या पक्वफलभ्रान्त्या । फलेतरतया
इदं फलं नेति हेतोः । वितते विस्तृते स्कन्धस्य वृक्षप्रकाण्डस्य मूले मूलदेशे । मर्कटो
वानरः ।
अनुचित होगा । अतः नगरकी ओर जाने वाले मार्गका अन्वेषण करनेमें मैं व्यस्त हूं । वेदनासे
मूर्च्छित उस रमणीके समीप बालक छोड़ना ठीक न समझ मैं इसे अपने साथ लिये हुए हूँ ।
(७०) इसी समय एक मतवाला जंगली हाथी वहां दीख पड़ा । उसे देखते ही वह वृद्धा
इस बालकको वहींपर रखकर भाग गयीं । मैं वहींपर पासके लताकुन्जमें बैठकर यह देखने
लगा कि देखें अब क्या होता है । ज्योंही वह गजराज भूमिपर निपतित इस बालकको नये
पल्लवके ग्रासके समान उठानेको तत्पर हुआ त्योंही भयंकर शब्द करते हुए एक शेरने उस
हाथीपर आक्रमण कर दिया ।' उस व्याघ्रके भयसे त्रस्त उस हाथीने उस बालकको
ऊपरकी ओर उछालकर फेंक दिया । दीर्घायु होनेके कारण उस बालकको एक बन्दरने,
जो एक विशाल पेड़की शाखापर बैठा था, पका हुआ फल समझकर लोक लिया । और फल
न होनेसे उस बन्दरने इसे एक चौड़ी घनी डालपर रख दिया इस कारण यह बालक
पृथ्वीपर गिरने से बच गया । वह बानर कहीं चला गया ।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ३३
(७१) बालकेन सत्त्वसंपन्नतया सकलक्लेशसहेनाभावि । केस-
रिणा करिपं निहत्य कुत्रचिद्गामि । लतागृहान्निर्गतोऽहमपि तेजःपुञ्जं
बालं शनैरवनीरुहादवतार्य वनान्तरे वनितामन्विष्यावलोकयैनमानीय
गुरवे निवेद्य तन्निदेशेन भवन्निकटमानीतवानस्मि' इति । -
(७२) सर्वेषां सुहृदामेकदैवानुकूलदैवाभावेन महदाश्चर्यं बिभ्राणो
राजा 'रत्नोद्भवः कथमभवत्' इति चिन्तयंस्तन्नन्दनं पुष्पोद्भवनामधेयं
विधाय तदुदन्तं व्याख्याय सुश्रुताय विषादसंतोषावनुभवंस्तदनुजतनयं
समर्पितवान् ।
(७३) अन्येद्युः कंचन बालकमुरसि दधती वसुमती वल्लभमभि-
(७१) सत्त्वसम्पन्नतया बलशालितया । सकलक्लेशसहेन सर्वप्रकारक्लेश-
सहिष्णुना । केसरिणा सिंहेन । तेजसां पुञ्जं राशिं तेजस्विनमित्यर्थः । शनैर्मन्दं
मन्दम् । अवनीरुहाद् वृक्षात् । अविलोक्य अप्राप्येत्यर्थः । एनं बालकम् । निवेद्य
कथयित्वा । तन्निदेशेन गुरोराज्ञया ।
(७२) एकदैव युगपदेव । अनुकूलदैवाभावेन प्रतिकूलदैववशात् । महदाश्चर्यं
परमविस्मयम् । बिभ्राणो धारयन् । कथं सर्वेषामस्माकं सममेव दैवं प्रतिकूलं जात-
मिति विस्मयाकुलः सन्निति भावः। राजा राजवाहनः। रत्नोद्भवः कथमभवत्-रत्नोद्भवस्य का गतिर्जाता, तस्य किं जातमिति तात्पर्यम् । पुष्पोद्भवः नामधेयं
नाम यस्य तम् । तदुदन्तं पूर्वोक्तं वृत्तान्तम् । व्याख्याय उक्त्वा । सुश्रुताय रत्नो-
द्भवस्य ज्येष्ठसहोदराय । विषादसन्तौषौ विषादहर्षौ-रत्नोद्भवस्य विनाशाद् विषादः
तत्पुत्रस्य लाभात्सन्तोष इति भावः ।
(७३) अन्येद्युः अन्यस्मिन् दिने । उरसि वक्षसि । दधती धारयन्ती । वल्लभं
(७१) सत्त्वसम्पन्न शक्तिके प्रभावसे बालकने भी कष्टोंको सह लिया। वह सिंह भी
उस गजपतिको मारकर चला गया। तब मैने लता-कुञ्जसे बाहर आकर तेजःपुञ्जरूपवाले
इस बालकको वृक्षपरसे धीरेसे उतारा और वनमें इधर-उधर उस वृद्धाको खोजा। परन्तु
खोजनेपर भी वह वृद्धा मुझे न मिली और मैंने इस बालकको लाकर गुरुदेवको दे दिया।
फिर उनकी आज्ञा शिरोधार्य करके इसे आपके पास लाया हूँ ।
(७२) राजा हंसवाहन विचारने लगे - दैव प्रतिकूल होनेसे मेरे सभी मित्रोंपर एक
साथ आपत्ति आयी । आश्चर्य है ! अब रत्नोद्भवका क्या हुआ ? ऐसा सोचकर इसपर
चिन्तित भी हो गये। इसके पश्चात् उन्होंने इस लड़केका नाम पुष्पोद्भव रखा और सारा
वृत्त सुश्रुतको सुनाकर विषाद एवं हर्षके साथ उसे समर्पण कर दिया ।
(७३) एक दिन किसी एक बालकको गोदमें लिये हुए महारानी वसुमती महाराज के
३ द० कु० पू०
Nepal Sanskrit University, Balmeeki Campus, Kathmandu