सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

२० दशकुमारचरितम्। [ पूर्वपीठिकायां

२० दशकुमारचरितम्। [ पूर्वपीठिकायां
(४१) 'तत्र निहतसैनिकग्रामे संग्रामे मालवपतिनाराधितपुरारातिना
प्रहितया गदया दयाहीनेन ताड़ितो मूर्च्छामागत्यात्र वने निशान्तपवनेन
बोधितोऽभवम्' इति महीपतिरकथयत् ।
(४२) ततो विरचितमहेन मन्त्रिनिवहेन विरचितदैवानुकूल्येन
कालेन शिबिरमानीयापनीताशेषशल्यो विकसितनिजाननारविन्दो राजा
सहसा विरोपितव्रणोऽकारि ।
(४३) विरोधिवैवाधिककृतपुरुषकारो दैन्यव्याप्ताकारो मगधाधिपतिरधि-
काधिरमात्यसंमत्या मृदुभाषितया तया वसुमत्यिा मत्या कलितया च समबोधि।
(४१) निहतो निःशेषं विनष्टः सैनिकानां योधानां ग्रामः समूहो यस्मिन् तथा-
भूते । आराधितः सन्तोषिताः पुरारातिर्महादेवो येन तथाभूतेन । प्रहितया
प्रक्षिप्तया । दयया हीनो दयाहीनस्तेन निर्दयेनेत्यर्थः । आगत्य प्राप्य । निशाया
रजन्या अन्ततः शेषो निशान्तः प्रभातं तस्य पवनेन तत्सम्बन्धिसमीरणेन बोधितो
लब्धसंज्ञोऽभवम् अह्मिति शेषः ।
(४२) विरचितः कृतो मह उत्सवो येन तथाभूतेन । मन्त्रिनिवहेन अमात्य-
संघेन विरचितं सम्पादितं दैवस्यानुकूल्यं साहाय्यं येन तथाभूतेन । कालेनेत्यस्य वि-
शेषणम्, शुभमुहूर्ते इति भावः । शिबिरं सेनानिवेशम् । अपनीतानि दूरीकृतानि
अशेषाणि सर्वाणि शल्यानि बाणाग्राणि यस्य सः । विकसितं प्रसन्नं निजाननार-
विन्दं स्वमुखकमलं यस्य सः । विरोपिता औषधादिना चिकित्सिता व्रणा यस्य सः।
(४३) विरोधिना प्रतिकूलेन दैवेन भागधेयेन धिक्कृतस्तिरस्कृतः पुरुषकारः
विक्रमो यस्य सः। दैन्येन खेदेन व्याप्त आक्रान्तः आकारः स्वरूपं यस्य सः। अधि-
काधिकोऽतिशयेनाधिक आधिर्मनोव्यथा यस्य सः । पुंस्याधिर्मानसी व्यथेत्यमरः ।
अमात्यानां मन्त्रिणां संमत्याऽनुमोदनक्रमेण। मृदु कोमलं भाषितंवचनं यस्यास्तया ।
मत्या बुद्ध्या । कलितया युक्तया । समबोधि विज्ञापितः। बुध्धातोः कर्मणि लुङ् ।
(४१) महाराजने उत्तर देते हुए कहा—'जब संग्राममें सब सैनिक मार डाले गये
तब मालवेश मानसारने शिव-प्रसादसे प्राप्त गदा मुझे मारी जिससे मैं मूच्छित हो गया
और इस वनके प्रातःकालिक शीतल पवनस्पर्शसे प्रतिबोधित हुआ।'
(४२) तत्पश्चात् अमात्योंने अनेक प्रकारके उत्सव मनाये और राजाकी प्राणरक्षाके
निमित्त देवाराधन किया। तथा राजाको शिबिरमें लाकर अस्त्रोंके व्रणोंकी औषध की।
समुचित उपचारसे राजा शीघ्र ही प्रसन्नमुख-प्रहृष्टवदन—हो गया-शीघ्र अच्छा हो गया।
(४३) दैवके प्रतिकूल होनेसे दीनतासे परिव्याप्त एवं खिन्न प्रकृतिवाले तथा विफल
पौरुषवाले उन मगधराजकी सेवा मन्त्रिगणोंकी सम्मतिसे तथा निज बुद्धिसे रानी वसुमती
करने लगी सान्त्वना देने लगी।

यहाँ पृष्ठ का संपूर्ण पाठ पंक्ति-दर-पंक्ति प्रस्तुत है:

प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । २१
(४४) 'देव, सकलस्य भूपालकुलस्य मध्ये तेजोवरिष्ठो गरिष्ठो भवा-
नद्य विन्ध्यवनमध्यं निवसतीति जलबुद्बुदसमाना विराजमाना संपत्तडि-
ल्लतेव सहसैवोदेति नश्यति च । तन्निखिलं दैवायत्तमेवावधार्य कार्यम् ।
(४५) किञ्च पुरा हरिश्चन्द्ररामचन्द्रमुख्या असंख्या महीन्द्रा ऐश्वर्यो-
पमितमहेन्द्रा दैवतन्त्रं दुःखयन्त्रं सम्यगनुभूय पश्चादनेककालं निजराज्य-
मकुर्वन् । तद्वदेव भवान्भविष्यति । कंचन कालं विरचित दैवसमाधिर्गलि-
ताधिस्तिष्ठतु तावत्' इति ।
(४६) ततः सकलसैन्यसमन्वितो राजहंसस्तपोविभ्राजमानं वाम-
देवनामानं तपोधनं निजाभिलाषावाप्तिसाधनं जगाम ।
(४४) तेजसा प्रतापेन वरिष्ठो महत्तरः । गरिष्ठोऽतिशयेन गुरुः । विन्ध्यव-
नमध्यं निवसति राज्यभ्रष्टोऽरण्यमाश्रित्य तिष्ठति । जलस्य सलिलस्य बुद्बुदेन वि-
कारेण समाना तुल्या । सम्पत् राज्यलक्ष्मीः । तडिल्लता विद्युत् सेव । सहसा अक-
स्मात् । उदेति आविर्भवति । नश्यति अदृश्यतां याति च । तत् तस्मात्कारणात् ।
दैवायत्तं भाग्याधीनम् । अवधार्य निश्चेतव्यम् ।
(४५) किं च अपरञ्च । हरिश्चन्द्ररामचन्द्रौ मुख्यौ प्रधाने येषां ते । ऐश्वर्येण
सम्पदा उपमितस्तुलितः समीकृत इति यावत् । महेन्द्रो देवराजो यैस्ते । दैवतन्त्रं
दैवायत्तम् दैवचालितमिति भावः । दुःखयन्त्रं दुःखचक्रम् । तद्वदेव—यथा हरिश्च-
न्द्रादयो राजानः पूर्वं महद्दुःखमनुभूय पश्चात्पुनरपि स्वस्वराज्यादिकं प्राप्नुवन्त-
स्तथा । भविष्यति राज्यं प्राप्स्यतीत्यर्थः । विरचितः कृतो दैवसमाधिर्देवाराधनं येन
सः । गलितोऽपगत आधिर्मनोव्यथा यस्य सः । तिष्ठतु अपेक्षतामित्यर्थः ।
(४६) तपसा विशेषेण भ्राजमानं दीप्यमानम् । वामदेव इति नाम यस्य
तम् । तप एव धनं यस्य सः तम् । तापसमित्यर्थः । निजस्य स्वस्याभिलाषस्य मनो-
रथस्य अवाप्तेः प्राप्तेः साधनं सम्पादकम् ।
(४४) हे देव ! वर्त्तमान कालमें जितने राजे-महाराजे हैं उनमें आप सर्वश्रेष्ठ हैं ।
किन्तु, इतने तेजवान् एवं प्रतापी होकर भी दैवगतिसे विन्ध्यारण्यमें पड़े हैं । इससे सिद्ध
है कि राज्य-लक्ष्मी जलके बुद्बुदोंके समान बिजलीकी तरह सहसा आ जाती है—अतः
शोच वृथा है, सभी बातें दैवायत्त हैं ।
(४५) हे राजन् ! प्राचीन कालमें महाराज हरिश्चन्द्र, राजा रामचन्द्र, आदि अगणित
महीपतियोंने पहले दुःख भोगकर पुनः महेन्द्रके समान सुख भोगा । तद्वत् आप भी दुःख
भोगकर सुखी होंगे-धीरज धरें, घबड़ायें नहीं । शान्तिसे देवाराधन करते रहें ।
(४६) ततः अभीष्टसिद्धिके लिए राजा राजहंस मनोरथपूर्णकर्त्ता, तपी एवं तेजोबलवाले
प्रख्यात वामदेव मुनिके समीप गया ।