दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
१८ दशकुमारचरितम् । [ पूर्वपीठिकायां
१८ दशकुमारचरितम् । [ पूर्वपीठिकायां
( ३७ ) अथार्धरात्रे निद्रानिलीननेत्रे परिजने विजने शोकपारावारमपा-
रमुत्तर्तुमशक्नुवती सेनानिवेशदेशं निःशब्दलेशं शनैरतिक्रम्य यस्मिनरथ-
ह्य संसक्ततया तदानयनपलायनश्रान्ता गन्तुमक्षमाः क्ष्मापतिरथ्याः
पथ्याकुलाः पूर्वमतिष्ठंस्तस्य निकटवटतरोः शाखायां मृतिरेखायामिव
कचिदुत्तरीयार्धेन बन्धनं मृतिसाधनं विरच्य मर्तुकामाभिरामा वाङ्मा-
धुर्यविरसीकृतकल-कण्ठ-कण्ठा साश्रुकण्ठा व्यलपत्—'लावण्योपमितपुष्प-
सायक, भूनायक, भवानेव भाविन्यपि जन्मनि वल्लभो भवतु' इति । - २०२२
( ३८ ) तदाकर्ण्य नीहारकरकिरणनिकरसंपर्कलब्धावबोधो मागधो-
(३७) अर्धरात्रे निशीथे । निद्रया निलीने परिमिलिते नेत्रे नयने यस्य
तस्मिन् । परिजनेऽनुचरमण्डले । विजने निर्जने एकान्ते इत्यर्थः । शोकपारावारं शो-
कसागरम् । अपारं दुरुतरम् । उत्तर्तुं लङ्घयितुम् । सेनानिवेशस्य शिविरस्य देशं
प्रदेशम् । निर्नास्ति शब्दस्य लेशो लवोपि यस्मिंस्तद् यथा तथा । संसक्ततया सं-
लग्नतया । तस्य राज्ञः आनयने वहने श्रान्ताः परिश्रान्ताः अत एव गन्तुं चलि-
तुम् अक्षमा असमर्थाः । क्ष्मापतेः राज्ञो राजहंसस्य । रथ्या अश्वाः । पथि मार्गे आ-
कुलाः दूरगमनेनातिशयक्लान्ताः । निकटवटतरोः समीपस्थवटवृक्षस्य । मृतेर्मरणस्य
रेखा लेखा चिन्हभूतेति भावः तस्याम् । बन्धनं पाशम् । मृतिसाधनं मरणसाधकम् ।
विरचय्य विधाय । मर्तुं कामोऽभिलाषो यस्याः सा । वाङ्माधुर्य्या वचनमाधुर्य्येण
विरसीकृतो नीरसीकृतः कलकण्ठस्य कोकिलस्य कण्ठो यया सा। साश्रुकण्ठा सगद्गद-
स्वरा । व्यलपत् अरोद् । लावण्येन देहसौन्दर्य्येण उपमितस्तुलितः पुष्पसायकः
कामो येन तत्सम्बोधने । भूनायक भूपते । भाविनि भविष्यति । वल्लभः पतिः ।
(३८) नीहाराः शीतलाः कराः किरणा यस्य सः नीहारकरश्चन्द्रस्तस्य किरण-
निकरस्य मयूखसमूहस्य सम्पर्कण संस्पर्शेन लब्धः प्राप्तोऽवबोधश्चैतन्यं येन सः ।
(३७) जब आधी रातमें सब दास-भृत्य आदि सो गये तब एकान्तमें महारानी
वसुमती, जो अपार शोक समुद्रको पार करनेमें अपनेको असमर्थ समझती थीं, धीरे-धीरे उस
स्थानपर गयीं जहाँ पर राजाके रथको लिये हुए घोड़े थककर शान्तिकी निद्रा ले रहे थे।
उसीके समीप बड़के पेड़की मृत्युरेखा सदृश किसी शाखामें उत्तरीय वस्त्र (चादर) को
बाँधकर (फाँसीकी रस्सी सी बनाकर) मरनेके लिए तत्पर हो गयीं। जो कोयलकी ध्वनिको
भी तिरस्कृत कर चुकी थीं ऐसी मीठी ध्वनिसे रोदन करके कहने लगीं—'हे लावण्यतासे
उपमित कामदेवके समान राजन् ! आप पुनः मेरे आगामी जीवनमें भी प्राणपति हों।'
(३८) रानीके विलाप करनेपर तथा शीतल चन्द्रकी किरणोंसे स्पर्शित होकर एवं मन्द
प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । १६
ऽगाधरुधिरविक्षरणस्रष्टचेष्टो देवीवाक्यमेव निश्चिन्वानस्तन्वानः प्रियवच-
नानि शनैस्तामाह्वयत् ।
( ३६ ) सा ससंभ्रममागत्यामन्दहृदयानन्दसंफुल्लवदनारविन्दा तमु-
पोषिताभ्यामिवानिमिषताभ्यां लोचनाभ्यां पिबन्ती त्रिकस्वरेण स्वरेण
पुरोहितामात्यजनमुच्चैराहूय तेभ्यस्तमदर्शयत् ।
( ४० ) राजा निटिलतटचुम्बितनिजचरणाम्बुजैः प्रशंसितदैवमा-
हात्म्यैरमात्यैरभाणि—'देव, रथ्यचयः सारथ्यपगमे रथं रभसादारण्य-
मनयत्' इति ।
मागधो मगधाधिपतिः । अगाधस्य प्रभूतस्य रुधिरस्य शोणितस्य विक्षरणेन विशे-
षतोऽपगमेन नष्टा विलुप्ता चेष्टा दैहिकप्रयत्नो यस्य सः । देवीवाक्यं वसुमतीविला-
पमेव निश्चिन्वन्ः देव्येवेयं नान्या विलपतीति निश्चयं कुर्वन् । तन्वानो विस्तारयन् ।
( ३९ ) ससम्भ्रमं सत्वरम् । अमन्देन प्रचुरेण हृदयानन्देन हर्षेण संफुल्लं स-
म्यग् विकसितं वदनारविन्दं मुखकमलं यस्याः सा । तं राजानम् । उपोषिताभ्यां
दर्शनार्थमत्युत्कण्ठिताभ्यामिवेति क्रियोत्प्रेक्षा-अत एव अनिमिषिताभ्यां निर्निमेषा-
भ्यां लोचनाभ्यां नयनाभ्यां पिबन्ती सादरं विलोकयन्ती । त्रिकस्वरेण अतिस्पष्टेन ।
तेभ्यः पुरोहितामात्येभ्यः । तं राजानम् ।
( ४० ) निटिलतटेन भालस्थलेन चुम्बितं स्पृष्टं निजचरणाम्बुजं स्वपादपद्मं
यैस्तैरमात्यैरित्यस्य विशेषणम् । प्रशंसितं स्तुतं दैवस्यादृष्टस्य माहात्म्यं प्रभावो
यैस्तैः । अभाणि-शब्दार्थभणधातोः कर्मणि लुङ् । कथित इत्यर्थः । रथं वहन्तीति
रथ्या अश्वास्तेषां चयः समूहः । सारथेः सूतस्यापगमे विनाशे सतीति शेषः । रभ-
साद् वेगात् । इत्यन्तं अभाणीत्यस्य कर्म ।
पवनके थपेड़ोंसे सञ्चरित होकर वह राजा जो अत्यन्त रक्तके प्रवाहसे निश्चेष्ट हो गया था
कुछ-कुछ प्रबुद्ध हो उठा और उसने रोदन-ध्वनिको ज्ञातकर निश्चय कर लिया कि यह
ध्वनि मेरी वल्लभा रानीकी है ऐसा समझकर उसने धीमी आवाजसे रानीको सम्बोधित किया ।
( ३९ ) राजाकी ध्वनिसे उत्पन्न हुए हर्षसे रानीका मुखकमल प्रफुल्लित हो गया ।
तत्क्षणही उनको वह व्रतीकी भाँति एकटक देखने लगी । फिर उच्चस्वरसे पुरोहित एवं
मन्त्रियोंको बुलाकर उनका दर्शन कराया ।
( ४० ) मन्त्रियोंने बद्धाञ्जलि करके राजाको प्रणाम किया तथा परमेश्वरको धन्यवाद
देते हुए निवेदन किया—'हे महाराज ! सारथीके निधनपर ज्ञात होता है घोड़ोंने बड़ी
तेजीसे रथको लाकर इस सघन वनमें रख दिया ।'
Nepal Sanskrit University, Balmeeki Campus, Kathmandu